भाषा

ENहिગુ
ग्रंथ पाठ

नरसिंहपुराण · अध्याय 67

67.1

तीर्थानि कथितान्य् एवं भौमानि द्विजसत्तम
मानसानि हि तीर्थानि फलदानि विशेषतः ॥

67.2

मनोनिर्मलता तीर्थं रागादिभिर् अनाकुला
सत्यं तीर्थं दया तीर्थं तीर्थम् इन्द्रियनिग्रहः ॥

67.3

गुरुशुश्रूषणं तीर्थं मातृशुश्रूषणं तथा
स्वधर्माचरणं तीर्थं तीर्थम् अग्नेर् उपासनम् ॥

67.4

एतानि पुण्यतीर्थानि व्रतानि शृणु मे ऽधुना
एकभुक्तं तथा नक्तम् उपवासं च वै मुने ॥

67.5

पूर्णमास्याम् अमावास्याम् एकभुक्तं समाचरेत्
तत्रैकभुक्तं कुर्वाणः पुण्यां गतिम् अवाप्नुयात् ॥

67.6

चतुर्थ्यां तु चतुर्दश्यां सप्तम्यां नक्तम् आचरेत्
अष्टम्यां तु त्रयोदश्यां स प्राप्नोत्य् अभिवाञ्छितम् ॥

67.7

उपवासो मनुश्रेष्ठ एकादश्यां विधीयते
नरसिंहं समभ्यर्च्य सर्वपापैः प्रमुच्यते ॥

67.8

हस्तयुक्ते ऽर्कदिवसे सौरनक्तं समाचरेत्
स्नात्वार्कमध्ये विष्णुं च ध्यात्वा रोगात् प्रमुच्यते ॥

67.9

आत्मनो द्विगुणां छायां यदा संतिष्ठते रविः
सौरनक्तं विजानीयान् न नक्तं निशि भोजनम् ॥

67.10

गुरुवारे त्रयोदश्याम् अपराह्णे जले ततः
तर्पयित्वा पितृन् देवान् ऋषींश् च तिलतन्दुलैः ॥

67.11

नरसिंहं समभ्यर्च्य यः करोत्य् उपवासकम्
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥

67.12

यदागस्त्योदये प्राप्ते तदा सप्तसु रात्रिषु
अर्घ्यं दद्यात् समभ्यर्च्य अगस्त्याय महामुने ॥

67.13

शङ्खे तोयं विनिक्षिप्य सितपुष्पाक्षतैर् युतम्
मन्त्रेणानेन वै दद्याच् *छितपुष्पादिनार्चिते ॥

67.14

काशपुष्पप्रतीकाश अग्निमारुतसंभव
मित्रावरुणयोः पुत्र कुम्भयोने नमो ऽस्तु ते ॥

67.15

आतापी भक्षितो येन वातापी च महासुरः
समुद्रः शोषितो येन सो ऽगस्त्यः प्रीयतां मम ॥

67.16

एवं तु दद्याद् यो सर्वम् अगस्त्ये वै दिशं प्रति
सर्वपापविनिर्मुक्तस् तमस् तरति दुस्तरम् ॥

67.17

एवं ते कथितं सर्वं भरद्वाज महामुने
पुराणं नारसिंहं च मुनीनां संनिधौ मया ॥

67.18

सर्गश् च प्रतिसर्गश् च वंसो मन्वन्तराणि च
वंशानुचरितं चैव सर्वम् एव प्रकीर्तितम् ॥

67.19

ब्रह्मणैव पुरा प्रोक्तं मरीच्यादिषु वै मुने
तेभ्यश् च भृगुणा प्रोक्तं मार्कण्डेयाय वै ततः ॥

67.20

मार्कण्डेयेन वै प्रोक्तं राज्ञो नागकुलस्य ह
प्रसादान् नरसिंहस्य प्राप्तं व्यासेन धीमता ॥

67.21

तत्प्रसादान् मया प्राप्तं सर्वपापप्रणाशनम्
पुराणं नरसिंहस्य मया च कथितं तव ॥

67.22

मुनीनां संनिधौ पुण्यं स्वस्ति ते ऽस्तु व्रजाम्य् अहम्
यः शृणोति शुचिर् भूत्वा पुराणं ह्य् एतद् उत्तमम् ॥

67.23

माघे मासि प्रयागे तु स स्नानफलम् आप्नुयात्
यो भक्त्या श्रावयेद् भक्तान् नित्यं नरहरेर् इदम् ॥

67.24

सर्वतीर्थफलं प्राप्य विष्णुलोके महीयते
श्रुत्वैवं स्नातकैः सार्धं भरद्वाजो महामतिः ॥

67.25

सूतम् अभ्यर्च्य तत्रैव स्थितवान् मुनयो गताः
सर्वपापहरं पुण्यं पुराणं नृसिंहात्मकम् ॥

67.26

पठतां शृण्वतां नृणां नरसिंहो प्रसीदति
प्रसन्ने देवदेवेशे सर्वपापक्षयो भवेत् ॥

67.27

प्रक्षीणपापबन्धास् ते मुक्तिं यान्ति नरा इति ॥

मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc