नरसिंहपुराण · अध्याय 68
इत्य् एतत् सर्वम् आख्यातं पुराणं नारसिंहकम्
सर्वपापहरं पुण्यं सर्वदुःखनिवारणम् ॥
समस्तपुण्यफलदं सर्वयज्ञफलप्रदम्
ये पठन्त्य् अपि शृण्वन्ति श्लोकं श्लोकार्धम् एव वा ॥
न तेषां पापबन्धस् तु कदाचिद् अपि जायते
विष्ण्वर्पितम् इदं पुण्यं पुराणं सर्वकामदम् ॥
भक्त्या च वदताम् एतच् *छृण्वतां च फलं शृणु
शतजन्मार्जितैः पापैः सद्य एव विमोचिताः ॥
सहस्रकुलसंयुक्ताः प्रयान्ति परमं पदम्
किं तीर्थैर् गोप्रदानैर् वा तपोभिर् वा किम् अध्वरैः ॥
अहन्यहनि गोविन्दं तत्परत्वेन शृण्वताम्
यः पठेत् प्रातर् उत्थाय यद् अस्य श्लोकविंशतिम् ॥
ज्योतिष्टोमफलं प्राप्य विष्णुलोके महीयते
एतत् पवित्रं पूज्यं च न वाच्यम् अकृतात्मनाम् ॥
द्विजानां विष्णुभक्तानां श्राव्यम् एतन् न संशयः
एतत् पुराणश्रवणम् इहामुत्र सुखप्रदम् ॥
वदतां शृण्वतां सद्यः सर्वपापप्रणाशनम्
बहुनात्र किम् उक्तेन भूयो भूयो मुनीश्वराः ॥
श्रद्धयाश्रद्धया वापि श्रोतव्यम् इदम् उत्तमम्
भारद्वाजमुखाः सर्वे कृतकृत्या द्विजोत्तमाः ॥
सूतं हृष्टाः प्रपूज्याथ सर्वे स्वस्वाश्रमं ययुः ॥
मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0