भाषा

ENहिગુ
ग्रंथ पाठ

नरसिंहपुराण · अध्याय 66

66.1

उक्तः पुण्यः स्तवो ब्रह्मन् हरेर् एभिस् च नामभिः
पुनर् अन्यानि नामानि यानि तानि निबोध मे ॥

66.2

गङ्गा तु प्रथमं पुण्या यमुना गोमती पुनः
सरयूः सरस्वती च चन्द्रभागा चर्मण्वती ॥

66.3

कुरुक्षेत्रं गया चैव पुष्कराणि तथार्बुदम्
नर्मदा च महापुण्या तीर्थान्य् एतानि चोत्तरे ॥

66.4

तापी पयोष्णी पुण्ये द्वे तत्सङ्गात् तीर्थम् उत्तमम्
तथा ब्रह्मगिरेश् चापि मेखलाभिः समन्विताः ॥

66.5

विरजं च तथा तीर्थं सर्वपापक्षयंकरम्
गोदावरी महापुण्या सर्वत्र चतुरानन ॥

66.6

तुङ्गभद्रा महापुण्या यत्राहं कमलोद्भव
हरेण सार्धं प्रीत्या तु वसामि मुनिपूजितः ॥

66.7

दक्षिणगङ्गा कृष्णा तु कावेरी च विशेषतः
सह्ये त्व् आमलकग्रामे स्थितो ऽहं कमलोद्भव ॥

66.8

देवदेवस्य नाम्ना तु त्वया ब्रह्मन् सदार्चितः
तत्र तीर्थान्य् अनेकानि सर्वपापहराणि वै
येषु स्नात्वा च पीत्वा च पापान् मुच्यति मानवः ॥

66.9

इत्य् एवं कथयित्वा तु तीर्थानि मधुसूदनः
ब्रह्मणे गतवान् ब्रह्मन् ब्रह्मापि स्वपुरं गतः ॥

66.10

तस्मिन्न् आमलकग्रामे पुण्यतीर्थानि यानि वै
तानि मे वद धर्मज्ञ विस्तरेण यथार्थतः ॥

66.11

क्षेत्रोत्पत्तिं च माहात्म्यं यात्रापर्वं च यत्र तत्
तत्रासौ देवदेवेशः पूज्यते ब्रह्मणा स्वयम् ॥

66.12

शृणु विप्र प्रवक्ष्यामि पुण्यं पापप्रणाशनम्
सह्यामलकतीर्थस्य उत्पत्त्यादि महामुने ॥

66.13

पुरा सह्यवनोद्देशे तरुर् आमलको महान्
आसीद् ब्रह्मन् महोग्रो ऽयं नाम्नायं चोच्यते बुधैः ॥

66.14

फलानि तस्य वृक्षस्य महान्ति सुरसानि च
दर्शनीयानि दिव्यानि दुर्लभानि महामुने ॥

66.15

परेषां ब्राह्मणानां तु परेण ब्रह्मणा पुरा
स दृष्टस् तु महावृक्षो महाफलसमन्वितः ॥

66.16

किम् एतद् इति विप्रेन्द्र ध्यानदृष्टिपरो ऽभवत्
ध्यानेन दृष्टवांस् तत्र पुनर् आमलकं तरुम् ॥

66.17

तस्योपरि तु देवेशं शङ्खचक्रगदाधरम्
उत्थाय च पुनः पश्येत् प्रतिमाम् एव केवलाम् ॥

66.18

तत्पादं भूतले देवः प्रविवेश महातरुः
ततस् त्व् आराधयाम्_अस देवदेवेशम् अव्ययम् ॥

66.19

गन्धपुष्पादिभिर् नित्यं ब्रह्मा लोकपितमहः
द्वादशभिः सप्तभिस् तु संख्याभिः पुजितो हरिः ॥

66.20

तस्मिन् क्षेत्रे मुनिश्रेष्ठ माहात्म्यं तस्य को वदेत्
श्रीसह्यामलकग्रामे देवदेवेशम् अव्ययम् ॥

66.21

आराध्य तीर्थे संप्राप्ता द्वादश प्रति चतुर्मुखम्
तस्य पादतले तीर्थं निःसृतं पश्चिमामुखम् ॥

66.22

तच् चक्रतीर्थम् अभवत् पुण्यं पापप्रणाशनम्
चक्रतिर्थे नरः स्नात्वा सर्वपापैः प्रमुच्यते ॥

66.23

बहुवर्षसहस्राणि ब्रह्मलोके महीयते
शङ्खतीर्थे नरः स्नात्वा वाजपेयफलं लभेत् ॥

66.24

पौषे मासे तु पुष्यार्के तद्यात्रादिवसं मुने
ब्रह्मणः कुण्डिका पूर्वं गङ्गातोयप्रपूरिता ॥

66.25

तस्याद्रौ पतिता ब्रह्मंस् तत्र तीर्थे ऽशुभं हरेत्
नाम्ना तत्कुण्डिकातीर्थं शिलागृहसमन्वितम् ॥

66.26

तत्तीर्थे मनुजः स्नात्वा तदानीं सिद्धिम् आप्नुयात्
त्रिरात्रोपोषितो भूत्वा यस् तत्र स्नाति मानवः ॥

66.27

सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते
कुण्डिकातीर्थाद् उत्तरे पिण्डस्थानाच् च दक्षिणे ॥

66.28

ऋणमोचनतीर्थं हि तीर्थानां गुह्यम् उत्तमम्
त्रिरात्रम् उषितो यस् तु तत्र स्नानं समाचरेत् ॥

66.29

ऋणैस् त्रिभिर् असौ ब्रह्मन् मुच्यते नात्र संशयः
श्राद्धं कृत्वा पितृभ्यश् च पिण्डस्थानेषु यो नरह् ॥

66.30

पितॄन् उद्दिश्य विधिवत् पिण्डान् निर्वापयिष्यति
सुतृप्ताः पितरो यान्ति पितृलोकं न संशयः ॥

66.31

पञ्चरात्रोषितस्नायी तीर्थे वै पापमोचने
सर्वपापक्षयं प्राप्य विष्णुलोके स मोदते ॥

66.32

तत्रैव महतीं धारां शिरसा यस् तु धारयेत्
सर्वक्रतुफलं प्राप्य नाकपृष्ठे महीयते ॥

66.33

धनुःपाते महातीर्थे भक्त्या यः स्नानम् आचरेत्
आयुर्भोगफलं प्राप्य स्वर्गलोके महीयते ॥

66.34

शरबिन्दौ नरः स्नात्वा शतक्रतुपुरं व्रजेत्
वाराहतीर्थे विप्रेन्द्र सह्ये यः स्नानम् आचरेत् ॥

66.35

अहोरात्रोषितो भूत्वा विष्णुलोके महीयते
आकाशगङ्गानाम्ना च सह्याग्रे तीर्थम् उत्तमम् ॥

66.36

शिलातलात् ततो ब्रह्मन् निर्गता श्वेतमृत्तिका
तस्यां भक्त्या तु यः स्नाति नरो द्विजवरोत्तमम् ॥

66.37

सर्वक्रतुफलं प्राप्य विष्णुलोके महीयते
ब्रह्मन्न् अमलसह्याद्रेर् यद्यद्तोयविनिर्गमः ॥

66.38

तत्र तीर्थं विजानीहि स्नात्वा पापात् प्रमुच्यते
सह्याद्रिं गतवान् नित्यं स्नात्वा पापात् प्रमुच्यते ॥

66.39

एतेषु तीर्थेषु नरो द्विजेन्द्र पुण्येषु सह्याद्रिसमुद्भवेषु
दत्त्वा सुपुष्पाणि हरिं स भक्त्या विहाय पापं प्रविशेत् स विष्णुम् ॥

66.40

सकृत् तीर्थाद्रितोयेषु गङ्गायां तु पुनह् पुनः
सर्वतीर्थमयी गङ्गा सर्वदेवमयो हरिः ॥

66.41

सर्वशास्त्रमयी गीता सर्वधर्मो दयापरः
एवं ते कथितं विप्र क्षेत्रमाहात्म्यम् उत्तमम् ॥

66.42

श्रीसह्यामलकग्रामे तीर्थे स्नात्वा फलानि च
तीर्थानाम् अपि यत् तीर्थं तत् तीर्थं द्विजसत्तम
देवदेवस्य पादस्य तलाद् भुवि निनिःसृतम् ॥

66.43

अम्भोयुगं तुरगमेधसहस्रतुल्यं तच् चक्रतीर्थम् इति वेदविदो वदन्ति
स्नानाच् च तत्र मनुजा न पुनर् भवन्ति पादौ प्रणम्य शिरसा मधुसूदनस्य ॥

66.44

गङ्गाप्रयागगमनैमिषपुष्कराणि पुण्यायुतानि कुरुजाङ्गलयामुनानि
कालेन तीर्थसलिलानि पुनन्ति पापात् पादोदकं भगवतस् तु पुनाति सद्यः ॥

मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc