भाषा

ENहिગુ
ग्रंथ पाठ

नरसिंहपुराण · अध्याय 64

64.1

सत्यं केचित् प्रशंसन्ति तपः शौचं तथापरे
सांख्यं केचित् प्रशंसन्ति योगम् अन्ये प्रचक्षते ॥

64.2

ज्ञानं केचित् प्रशंसन्ति समलोष्टाश्मकाञ्चनाः
क्षमां केचित् प्रशंसन्ति तथैव च दयार्जवम् ॥

64.3

केचिद् दानं प्रशंसन्ति केचिद् आहुः परं शुभम्
सम्यग्ज्ञानं परं केचित् केचिद् वैराग्यम् उत्तमम् ॥

64.4

अग्निष्टोमादिकर्माणि तथा केचित् परं विदुः
आत्मध्यानं परं केचित् सांख्यतत्त्वार्थवेदिनः ॥

64.5

धर्मार्थकाममोक्षाणां चतुर्णाम् इह केवलम्
उपायः पदभेदेन बहुधैवं प्रचक्ष्यते ॥

64.6

एवं चावस्थिते लोके कृत्याकृत्यविधौ नराः
व्यामोहम् एव गच्छन्ति विमुक्ताः पापकर्मभिः ॥

64.7

यद् एतेषु परं कृत्यम् अनुष्ठेयं महात्मभिः
वक्तुम् अर्हसि सर्वज्ञ मम सर्वार्थसाधकम् ॥

64.8

श्रूयताम् इदम् अत्यन्तं गूढं संसारमोचनम्
अत्रैवोदाहरन्तीमम् इतिहासं पुरातनम् ॥

64.9

पुण्डरीकस्य संवादं देवर्षेर् नारदस्य च
ब्राह्मणः श्रुतसंपन्नः पुण्डरीको महामतिः ॥

64.10

आश्रमे प्रथमे तिष्ठन् गुरूणां वशगः सदा
जितेन्द्रियो जितक्रोधः संध्योपासनधिष्ठितः ॥

64.11

वेदवेदाङ्गनिपुणः शास्त्रेषु च विचक्षणः
समिद्भिः साधुयत्नेन सायं प्रातर् हुताशनम् ॥

64.12

ध्यात्वा यज्ञपतिं विष्णुं सम्यग् आराधयन् विभुम्
तपस्स्वाध्यायनिरतः साक्षाद् ब्रह्मसुतो यथा ॥

64.13

उदकेन्धनपुष्पार्थैर् असकृत् तर्पयन् गुरून्
मातापितृभ्यां शुश्रूषुर् भिक्षाहारी जनप्रियः ॥

64.15

ब्रह्मविद्याम् अधीयाणः प्राणायामपरायणः तस्य सर्वार्थभूतस्य संसारे ऽत्यन्तनिःस्पृहा
बुद्धिर् आसीन् महाराज संसारार्णवतारणी पितरं मातरं चैव भ्रातृन् अथ पितामहान् ॥

64.16

पितृव्यान् मातुलांश् चैव सखीन् संबन्धिबान्धवान्
परित्यज्य महोदारस् तृणानीव यथासुखम् ॥

64.17

विचचार महीम् एतां शाकमूलफलाशनः
अनित्यं यौवनं रूपम् आयुष्यं द्रव्यसंचयम् ॥

64.18

इति संचिन्त्यमानेन त्रैलोक्यं लोष्ठवत् स्मृतम्
पुराणोदितमार्गेण सर्वतीर्थानि वै मुने ॥

64.19

गमिष्यामि यथाकालम् इति निश्चितमानसः
गङ्गां च यमुनां चैव गोमतीम् अथ गण्डकीम् ॥

64.20

शतद्रूं च पयोष्णीं च सरयूं च सरस्वतीम्
प्रयागं नर्मदां चैव महानद्यो नदान् अपि ॥

64.21

गयां च विन्ध्यतीर्थानि हिमवत्प्रभवाणि च
अन्यानि च महातेजास् तीर्तानि स महाव्रतः ॥

64.22

संचचार महाबाहुर् यथाकालं यथाविधि
कदाचित् प्राप्तवान् वीरः शालग्रामं तपोधनः ॥

64.23

पुण्डरीको महाभागः पुण्यकर्मवशानुगः
आसेव्यमानम् ऋषिभिस् तत्त्वविद्भिस् तपोधनैः ॥

64.24

मुनीनाम् आश्रमं रम्यं पुराणेषु च विश्रुतम्
भूषितं चक्रनद्या च चक्राङ्कितशिलातलम् ॥

64.25

रम्यं विविक्तं विस्तीर्णं सदा चित्तप्रसादकम्
केचिच् चक्राङ्कितास् तस्मिन् प्राणिनः पुण्यदर्शनाः ॥

64.26

विचरन्ति यथाकामं पुण्यतीर्थप्रसङ्गिनः
तस्मिन् क्षेत्रे महापुण्ये शालग्रामे महामतिः ॥

64.27

पुण्डरीकः प्रसन्नात्मा तीर्थानि समसेवत
स्नात्वा देवह्रदे तीर्थे सरस्वत्यां च सुव्रतः ॥

64.28

जातिस्मर्यां चक्रकुण्डे चक्रनद्यासृतेष्व् अपि
तथान्यान्य् अपि तीर्थानि तस्मिन्न् एव चचार सः ॥

64.29

ततः क्षेत्रप्रभावेण तीर्थानां चैव तेजसा
मनः प्रसादम् अगमत् तस्य तस्मिन् महात्मनः ॥

64.30

सो ऽपि तीर्थे विशुद्धात्मा ध्यानयोगपरायणः
तत्रैव सिद्धिम् आकाङ्क्षन् समाराध्य जगत्पतिम् ॥

64.31

शास्त्रोक्तेन विधानेन भक्त्या परमया युतः
उवास चिरम् एकाकी निर्द्वन्द्वः संयतेन्द्रियः ॥

64.32

शाकमूलफलाहारः संतुष्टः समदर्शनः
यमैश् च नियमैश् चैव तथा चासनबन्धनैः ॥

64.33

प्राणायामैः सुतीक्ष्णैश् च प्रत्याहारैश् च संततैः
धारणाभिस् तथा ध्यानैः समाधिभिर् अतन्द्रितः ॥

64.34

योगाभ्यासं तदा सम्यक् चक्रे विगतकल्मषः
आराध्य देवदेवेशं तद्गतेनान्तरात्मना ॥

64.35

पुण्डरीको महाभागः पुरुषार्थविशारदः
प्रसादं परम् आकाङ्क्षन् विष्णोस् तद्गतमानसः ॥

64.36

तस्य तस्मिन् निवसतः शालग्रामे महात्मनः
पुण्डरीकस्य राजेन्द्र कालो ऽगच्छन् महांस् ततः ॥

64.37

मुने कदाचित् तं देशं नारदः परमार्थवित्
जगाम सुमहातेजाः साक्षादादित्यसंनिभः ॥

64.38

तं द्रष्टुकामो देवर्षिः पुण्डरीकं तपोनिधिम्
विष्णुभक्तिपरीतात्मा वैष्णवानां हिते रतः ॥

64.39

स दृष्ट्वा नारदं प्राप्तं सर्वतेजः प्रभान्वितम्
महामतिं महाप्राज्ञं सर्वागमविशारदम् ॥

64.40

प्राञ्जलिः प्रणतो भूत्वा प्रहृष्टेनान्तरात्मना
अर्घं दत्त्वा यथायोग्यं प्रणामम् अकरोत् ततः ॥

64.41

को ऽयम् अत्यद्भुताकारस् तेजस्वी हृद्यवेषधृक्
आतोद्यहस्तः सुमुखो जटामण्डलभूषणः ॥

64.42

विवस्वान् अथ वा वह्निर् इन्द्रो वरुण एव वा
इति संचिन्तयन् विप्रः पप्रच्छ परमद्युतिः ॥

64.43

को भवान् इह संप्राप्तः कुतो वा परमद्युते
त्वद्दर्शनं ह्य् अपुण्यानां प्रायेण भुवि दुर्लभम् ॥

64.44

नारदो ऽहम् अनुप्राप्तस् त्वद्दर्शनकुतूहलात्
पुण्डरीक हरेर् भक्तस् त्वादृशः सततं द्विज ॥

64.45

स्मृतः संभाषितो वापि पूजितो वा द्विजोत्तम
पुनाति भगवद्भक्तश् चाण्डालो ऽपि यदृच्छया ॥

64.46

दासो ऽहं वासुदेवस्य देवदेवस्य शार्ङ्गिणह्
इत्युक्तो नारदेनासौ भक्तिपर्याकुलात्मना ॥

64.47ab

प्रोवाच मधुरं विप्रस् तद्दर्शनसुविस्मितः ॥

64.47cd

धन्यो ऽहं देहिनाम् अद्य सुपूज्यो ऽहं सुरैर् अपि ॥

64.48

कृतार्थाः पितरो मे ऽद्य संप्रातं जन्मणः फलम्
अनुगृह्णीष्व देवर्षे त्वद्भक्तस्य विशेषतः ॥

64.49

किं किं करोम्य् अहं विद्वन् भ्राम्यमाणः स्वकर्मभिः
कर्तव्यं परमं गुह्यम् उपदेष्टुं त्वम् अर्हसि ॥

64.50ab

त्वं गतिः सरवलोकानां वैष्णवानां विशेषतः ॥

64.50cd

अनेकानीह शास्त्राणि कर्माणि च तथा द्विज ॥

64.51

धर्ममार्गाश् च बहवस् तथैव प्राणिनः स्मृताः
वैलक्षण्यं च जगतस् तस्माद् एव द्विजोत्तम ॥

64.52

अव्यक्ताज् जायते सर्वं सर्वात्मकम् इदं जगत्
इत्य् एवं प्राहुर् अपरे तत्रैव लयम् एव च ॥

64.53

आत्मानो बहवो प्रोक्ता नित्याः सर्वगतास् तथा
अन्यैर् मतिमतां श्रेष्ठ तत्त्वालोकनतत्परैः ॥

64.54

एवमाद्य् अनुसंचिन्त्य यथामति यथाश्रुतम्
वदन्ति ऋषयः सर्वे नानामतविशारदाः ॥

64.55

शृणुष्वावहितो ब्रह्मन् कथयामि तवानघ
परमार्थम् इदं गुह्यं घोरसंसारमोचनम् ॥

64.56

अनागतम् अतीतं च विप्रकृष्टम् अतीव यत्
न गृह्णाति नृणां दृष्टिर् वर्तमानार्थनिश्चिता ॥

64.57

शृणुष्वावहितं तात कथयामि तवानघ
यत् प्रोक्तं ब्रह्मणा पूर्वं पृच्छतो मम सुव्रत ॥

64.58

कदाचिद् ब्रह्मलोकस्थं पद्मयोनिं पितामहम्
प्रणिपत्य यथान्यायं पृष्टवान् अहम् अव्ययम् ॥

64.59

किं तज् ज्ञानं परं देव कश् च योगः परस् तथा
एतन् मे तत्त्वतः सर्वं त्वम् आचक्ष्व पितामह ॥

64.60

यः परः प्रकृतेः प्रोक्तः पुरुषः पञ्चविंशकः
स एव सर्वभूतानां नर इत्य् अभिधीयते ॥

64.61

नराज् जातानि तत्त्वानि नाराणीति ततो विदुः
तान्य् एव चायनं तस्य तेन नारायणः स्मृतः ॥

64.62

नारायणाज् जगत् सर्वं सर्गकाले प्रजायते
तस्मिन्न् एव पुनस् तच् च प्रलये संप्रलीयते ॥

64.63

नारायणः परं ब्रह्म तत्त्वं नारायणः परम्
नारायणः परं ज्योतिर् आत्मा नारायणः परः ॥

64.64

पराद् अपि परश् चासौ तस्मान् नातिपरं मुने
यच् च किंचिज् जगत्य् अस्मिन् दृश्यते श्रूयते ऽपि वा ॥

64.65

अन्तर् बहिश् च तत् सर्वं व्याप्य नारायणः स्थितः
एवं विदित्वा तं देवाः साकारं व्याहरन् मुहुः ॥

64.66

नमो नारायणायेति ध्यात्वा चानन्यमानसाः
किं तस्य दानैः किं तीर्थैः किं तपोभिः किम् अध्वरैः ॥

64.67

यो नित्यं ध्यायते देवं नारायणम् अनन्यधीः
एतज् ज्ञानं वरं नातो योगश् चैव परस् तथा ॥

64.68

परस्परविरुद्धार्थैः किम् अन्यैः शास्त्रविस्तरैः
बहवो ऽपि यथा मार्गा विशन्त्य् एवं महत् पुरम् ॥

64.69

तथा ज्ञानानि सर्वाणि प्रविशन्ति तम् ईश्वरम्
स हि सर्वगतो देवः सूक्ष्मो ऽव्यक्तः सनातनः ॥

64.70

जगदादिर् अनाद्यन्तः स्वयंभूर् भूतभावनः
विष्णुर् विभुर् अचिन्त्यात्मा नित्यः सदसदात्मकः ॥

64.71

वासुदेवोजगद्वासः पुराणः कविर् अव्ययः
यस्मात् प्राप्तं स्थितिं कृत्स्नं त्रैलोक्यं सचराचरम् ॥

64.72

तस्मात् स भगवान् देवो विष्णुर् इत्य् अभिधीयते
यस्माद् वा सर्वभूतानां तत्त्वाद्यानां युगक्षये ॥

64.73

तस्मिन् निवासः संसर्गे वासुदेवस् ततस् तु सः
तम् आहुः पुरुषं केचित् केचिद् ईश्वरम् अव्ययम् ॥

64.74

विज्ञानमात्रं केचिच् च केचिद् ब्रह्म परं तथा
केचित् कालम् अनाद्यन्तं केचिज् जीवं सनातनम् ॥

64.75

केचिच् च परमात्मानं केचिच् चैवम् अनामयम्
केचित् क्षेत्रज्ञम् इत्य् आहुः केचित् षड्विंशकं तथा ॥

64.76

अङ्गुष्ठमात्रं केचिच् च केचित् पद्मरजोउपमम्
एते चान्ये च मुनिभिः संज्ञाभेदाः पृथग्विधाः ॥

64.77

शास्त्रेषु कथिता विष्णोर् लोकव्यामोहकारकाः
एकं यदि भवेच् छास्त्रं ज्ञानं निःसंशयं भवेत् ॥

64.78

बहुत्वाद् इह शात्राणां ज्ञानतत्त्वं सुदुर्लभम्
आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः ॥

64.79

इदम् एकं सुनिष्पन्नं ध्येयो नारायणः सदा
त्यक्त्वा व्यामोहकान् सर्वान् तस्माच् छास्त्रार्थविस्तरान् ॥

64.80

अनन्यचेता ध्यायस्व नारायणम् अतन्द्रितः
एवं ज्नात्वा तु सततं देवदेवं तम् अव्ययम् ॥

64.81

क्षिप्रं यास्यसि तत्रैव सायुज्यं नात्र संशयः
श्रुत्वेदं ब्रह्मणा प्रोक्तं ज्ञानयोगं सुदुर्लभम् ॥

64.82

ततो ऽहम् आसं विप्रेन्द्र नारायणपरायणः
नमो नारायणायेति ये विदुर् ब्रह्म शाश्वतम् ॥

64.83

अन्तकाले जपन्तस् ते यान्ति विष्णोः परं पदम्
तस्मान् नारायणस् तात परमात्मा सनातनः ॥

64.84

अनन्यमनसा नित्यं ध्येयस् तत्त्वविचिन्तकैः
नारायणो जगद्व्यापी परमात्मा सनातनः ॥

64.85

जगतां सृष्टिसंहार परिपालनतत्परः
श्रवणात् पठनाच् चैव निदिध्यासनतत्परैः ॥

64.86

आराध्यः सर्वथा ब्रह्मन् पुरुषेण हितैषिणा
निःस्पृहा नित्यसंतुष्टा ज्ञानिनः संयतेन्द्रियाः ॥

64.87

निर्ममा निरहंकारा रागद्वेषविवर्जिताः
अपक्षपतिताः शान्ताः सर्वसंकल्पवर्जिताः ॥

64.88

ध्यानयोगपरा ब्रह्मन् ते पश्यन्ति जगत्पतिम्
त्यक्तत्रया महात्मानो वासुदेवं हरिं गुरुम् ॥

64.89

कीर्तयन्ति जगन्नाथं ते पश्यन्ति जगत्पतिम्
तस्मात् त्वम् अपि विप्रेन्द्र नारायणपरो भव ॥

64.90

तदन्यः को महोदारः प्रार्थितं दातुम् ईश्वरः
हेलया कीर्तितो यो वै स्वं पदं दिशति द्विज ॥

64.91

अपि कार्यस् त्वया चैव जपः स्वाध्याय एव च
तम् एवोद्दिश्य देवेशं कुरु नित्यम् अतन्द्रितः ॥

64.92

किं तत्र बहुभिर् मन्त्रैः किं तत्र बहुभिर् व्रतैः
नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥

64.93

चीरवासा जटधारी त्रिदण्डी मुण्ड एव वा
भूषितो वा द्विजश्रेष्ठ न लिङ्गं धर्मकारणम् ॥

64.94

ये नृसंशा दुरात्मानः पापाचाररताः सदा
ते ऽपि यान्ति परं स्थानं नरा नारायणाश्रयाः ॥

64.95

जन्मान्तरसहस्रेषु यस्य स्याद् बुद्धिर् ईदृशी
दासो ऽह.म् वासुदेवस्य देवदेवस्य शार्ङ्गिणः ॥

64.96

प्रयाति विष्णुसालोक्यं पुरुषो नात्र संशयः
किं पुनस् तत्गतप्राणः पुरुष संयतेन्द्रियः ॥

64.97

इत्य् उक्त्वा देवदेवर्षिस् तत्रैवान्तरधीयत
परोपकारनिरतस् त्रैलोक्यस्यैकभूषणः ॥

64.98

पुण्डरीको ऽपि धर्मात्मा नारायणपरायणः
नमो ऽस्तु केशवायेति पुनः पुनर् उदीरयन् ॥

64.99

प्रसीदस्व महायोगिन्न् इदम् उच्चार्य सर्वदा
हृत्पुण्डरीके गोविन्दं प्रतिष्ठाप्य जनार्दनम् ॥

64.100

तपस्सिद्धिकरे ऽरण्ये शालग्रामे तपोधनः
उवास चिरम् एकाकी पुरुषार्थविचक्षणः ॥

64.101

स्वप्ने ऽपि केशवाद् अन्यन् न पश्यति महातपाः
निद्रापि तस्य नैवासीत् पुरुषार्थविरोधिनी ॥

64.102

तपसा ब्रह्मचर्येण शौचेन च विशेषतः
जन्मजन्मान्तरारूढ संस्कारेण च स द्विजः ॥

64.103

प्रसादाद् देवदेवस्य सर्वलोकैकसाक्षिणः
अवाप परमां सिद्धिं वैष्णवीं वीतकल्मषः ॥

64.104

सिंहव्याघ्रास् तथान्ये ऽपि मृगाः प्राणिविहिंसकाः
विरोधं सहजं हित्वा समेतास् तस्य संनिधौ
निवसन्ति द्विजश्रेष्ठ प्रशान्तेन्द्रियवृत्तयः ॥

64.105

ततः कदाचिद् भगवान् पुण्डरीकस्य धीमतः
प्रादुर् आसीज् जगन्नाथः पुण्डरीकायतेक्षणः ॥

64.106

शङ्खचक्रगदापाणिः पीतवासाः स्रगुज्ज्वलः
श्रीवत्सवक्षाः श्रीवासः कौस्तुभेन विभूषितः ॥

64.107

आरुह्य गरुडं श्रीमान् अञ्जनाचलसंनिभः
मेरुशृङ्गम् इवारुढः कालमेघस् तडिद्द्युतिः ॥

64.108

राजतेनातपत्रेण मुक्तादामविलम्बिना
विराजमानो देवेशश् चामरव्यजनादिभिः ॥

64.109

तं दृष्ट्वा देवदेवेशं पुण्डरीकः कृताञ्जलिः
पपात शिरसा भूमौ साध्वसावनतो द्विजः ॥

64.110

पिपन्न् इव हृषीकेशं नयनाभ्यां समाकुलः
जगाम महतीं तृप्तिं पुण्डरीकस् तदानघः ॥

64.111

तम् एवालोकयन् वीरश् चिरप्रार्थितदर्शनः
ततस् तम् आह भगवान् पद्मनाभस् त्रिविक्रमः ॥

64.112

प्रीतो ऽस्मि वत्स भद्रं ते पुण्डरीक महामते
वरं वृणीष्व दास्यामि यत् ते मनसि वर्तते ॥

64.113

एतच् छ्रुत्वा तु वचनं देवदेवेन भाषितम्
इदं विज्ञापयम् आस पुण्डरीको महामतिः ॥

64.114

क्वाहम् अत्यन्तदुर्बुद्धिः क्व चात्महितवीक्षणम्
यद् धितं मम देवेश तद् आज्ञापय माधव ॥

64.115

एवम् उक्तो ऽथ भगवान् सुप्रीतः पुनर् अब्रवीत्
पुण्डरीकं महाभागं कृताञ्जलिम् उपस्थितम् ॥

64.116

आगच्छ कुशलं ते ऽस्तु मयैव सह सुव्रत
मद्रूपधारी नित्यात्मा ममैव पार्षदो भव ॥

64.117

एवम् उक्तवति प्रीत्या श्रीधरे भक्तवत्सले
देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात च ॥

64.118

देवाः सेन्द्रास् तथा सिद्धाः साधु साध्व् इत्य् अथाब्रुवन्
जगुश् च सिद्धगन्धर्वाः किंनराश् च विशेषतः ॥

64.119

अथैनं समुपादाय वासुदेवो जगत्पतिः
जगाम गरुडारूढः सर्वदेवनमस्कृतः ॥

64.120

तस्मात् त्वम् अपि विप्रेन्द्र विष्णुभक्तिसमन्वितः
तच्चित्तस् तद्गतप्राणस् तद्भक्तानां हिते रतः ॥

64.121

अर्चयित्वा यथायोगं भजस्व पुरुषोत्तमम्
शृणुष्व तत्कथाः पुण्याः सर्वपापप्रणाशिनीः ॥

64.122

येनोपायेन विप्रेन्द्र विष्णुः सर्वेश्वरेश्वरः
प्रीतो भवति विश्वात्मा तत् कुरुष्व सुविस्तरम् ॥

64.123

अश्वमेधसहस्रेण वाजपेयशतैर् अपि
नाप्नुवन्ति गतिं पुण्यां नारायणपराङ्मुखाः ॥

64.124

अजरम् अमरम् एकं ध्येयम् आद्यन्तशून्यं सगुणविगुणम् आद्यं स्थूलम् अत्यन्तसूक्ष्मम्
निरुपमम् उपमेयं योगिनां ज्ञानगम्यं त्रिभुवनगुरुम् ईशं त्वां प्रपन्नो ऽस्मि विष्णो ॥

मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc