नरसिंहपुराण · अध्याय 63
सत्यम् उक्तं त्वया ब्रह्मन् वैदिकः परमो विधिः
विष्णोर् देवातिदेवस्य पूजनं प्रति मे ऽधुना ॥
अनेन विधिना ब्रह्मन् पूज्यते मधुसूदनः
वेदज्ञैर् एव नान्यैस् तु तस्मात् सर्वहितं वद ॥
अष्टाक्षरेण देवेशं नरसिंहम् अनामयम्
गन्धपुष्पादिभिर् नित्यम् अर्चयेद् अच्युतं नरः ॥
राजन्न् अष्टाक्षरो मन्त्रः सर्वपापहरः परः
समस्तयज्ञफलदः सर्वशान्तिकरः शुभः ॥
गन्धपुष्पादिसकलम् अनेन वै निवेदयेत्
अनेनाभ्यर्चितो देवः प्रीतो भवति तत्क्षणात् ॥
किं तस्य बहुभिर् मन्त्रैः किं तस्य बहुभिर् व्रतैः
ओं नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥
इमं मन्त्रं जपेद् यस् तु शुचिर् भूत्वा समाहितः
सर्वपापविनिर्मुक्तो विष्णुसायुज्यम् आप्नुयात् ॥
सर्वतीर्थफलं ह्य् एतत् सर्वतीर्थवरं नृप
हरेर् अर्चनम् अव्यग्रं सर्वयज्ञफलं नृप ॥
तस्मात् कुरु नृपश्रेष्ठ प्रतिमादिषु चार्चनम् दानानि विप्रमुखेभ्यः प्रयच्छ विधिना नृप
एवं कृते नृपश्रेष्ठ नरसिंहप्रसादतः प्राप्नोति वैष्णवं तेजो यत् काङ्क्षन्ति मुमुक्षवः ॥
पुरा पुरंदरो राजन् स्त्रीत्वं प्राप्तो ऽपधर्मतः
तृणबिन्दुमुनेः शापान् मुक्तो ह्य् अष्टाक्षराज् जपात् ॥
एतत् कथय भूदेव देवेन्द्रस्याघमोचनम्
को ऽपधर्मः कथं स्त्रीत्वं प्राप्तो मे वद कारणम् ॥
राजेन्द्र महद् आख्यानं शृणु कौतूहलान्वितम्
विष्णुभक्तिप्रजननं शृण्वतां पठताम् इदम् ॥
पुरा पुरंदरस्यैव देवराज्यं प्रकुर्वतः
वैराग्यस्यापि जननं संभूतं बाह्यवस्तुषु ॥
इन्द्रस् तदाभूद् विषमस्वभावो राज्येषु भोगेष्व् अपि सो ऽप्य् अचिन्तयत्
ध्रुवं विरागीकृतमानसानां स्वर्गस्य राज्यं न च किंचिद् एव ॥
राज्यस्य सारं विषयेषु भोगो भोगस्य चान्ते न च किंचिद् अस्ति
विमृश्य चैतन् मुनयो ऽप्य् अजस्रं मोक्षाधिकारं परिचिन्तयन्ति ॥
सदैव भोगाय तपःप्रवृत्तिर् भोगावसाने हि तपो विनष्टम्
मैत्र्यादिसंयोगपराङ्मुखानां विमुक्तिभाजां न तपो न भोगः ॥
विमृश्य चैतत् स सुराधिनाथो विमानम् आरुह्य सकिङ्किणीकम्
नूनं हराराधनकारणेन कैलासम् अभ्येति विमुक्तिकामः ॥
स एकदा मानसम् आगतः सन् संवीक्ष्य तां यक्षपतेश् च कान्ताम्
समर्चयन्तीं गिरिजाङ्घ्रियुग्मं ध्वजाम् इवानङ्गमहारथस्य ॥
प्रधानजाम्बूनदशुद्धवर्णां कर्णान्तसंलग्नमनोज्ञनेत्राम्
सुसूक्ष्मवस्त्रान्तरदृश्यगात्रां नीहारमध्याद् इव चन्द्रलेखाम् ॥
तां वीक्ष्य वीक्षणसहस्रभरेण कामं कामाङ्गमोहितमतिर् न ययौ तदानीम्
दूराध्वगं स्वगृहम् एत्य सुसंचितार्थस् तस्थौ तदा सुरपतिर् विषयाभिलाषी ॥
पूर्वं वरं स्यात् सुकुले ऽपि जन्म ततो हि सर्वाङ्गशरीररूपम्
ततो धनं दुर्लभम् एव पश्चाद् धनाधिपत्यं सुकृतेन लभ्यम् ॥
स्वर्गाधिपत्यं च मया प्रलब्धं तथापि भोगाय न चास्ति भाग्यम्
यः स्वं परित्यज्य विमुक्तिकामस् तिष्ठामि मे दुर्मतिर् अस्ति चित्ते ॥
मोक्षो ऽमुना यद्य् अपि मोहनीयो मोक्षे ऽपि किं कारणम् अस्ति राज्ये
क्षेत्रं सुपक्वं परिहृत्य द्वारे किं नाम चारण्यकृषिं करोति ॥
संसारदुःखोपहता नरा ये कर्तुं समर्था न च किंचिद् एव
अकर्मिणो भाग्यविवर्जिताश् च वाञ्छन्ति ते मोक्षपथं विमूढाः ॥
एतद् विमृश्य बहुधा मतिमान् प्रवीरो रूपेण मोहितमना धनदाङ्गनायाः
सर्वाधिर् आकुलमतिः परिमुक्तधैर्यः सस्मार मारम् अमराधिपचक्रवर्ती ॥
समागतो ऽसौ परिमन्दमन्दं कामो ऽतिकामाकुलचित्तवृत्तिः
पुरा महेशेन कृताङ्गनाशो धैर्याल् लयं गच्छति को विशङ्कः ॥
आदिश्यतां नाथ यद् अस्ति कार्यं को नाम ते संप्रति शत्रुभूतः
शीघ्रं समादेशय मा विलम्बं तस्यापदं संप्रति भो दिशामि ॥
श्रुत्वा तदा तस्य वचो अभिरामं मनोगतं तत् परमं तुतोष
निष्पन्नम् अर्थं सहसैव मत्वा जगाद वाक्यं स विहस्य वीरः ॥
रुद्रो ऽपि येनार्धशरीरमात्रश् चक्रे ऽप्य् अनङ्गत्वम् उपागतेन
सोढुं समर्थो ऽथ परो ऽपि लोके को नाम ते मार शराभिघातम् ॥
एकाग्रचित्ता गिरिजार्चने ऽपि या मोहयत्य् एव ममात्र चित्तम्
एताम् अनङ्गायतलोचनाख्यां मदङ्गसङ्गैकरसां विधेहि ॥
स एवम् उक्तः सुरवल्लभेन स्वकार्यभावाधिकगौरवेण
संधाय बाणं कुसुमायुधो ऽपि सस्मार मारः परिमोहनं सुधीः ॥
संमोहिता पुष्पशरेण बाला कामेन कामं मदविह्वलाङ्गी
विहाय पूजां हसते सुरेशं कः कामकोदण्डरवं सहेत ॥
विलोलनेत्रे अयि कासि बाले सुराधिपो वाक्यम् इदं जगाद
संमोहयन्तीव मनांसि पुंसां कस्येह कान्ता वद पुण्यभाजः ॥
उक्तापि बाला मदविह्वलाङ्गी रोमाञ्चसंस्वेदसकम्पगात्रा
कृताकुला कामशिलीमुखेन सगद्गदं वाक्यम् उवाच मन्दम् ॥
कान्ता धनेशस्य च यक्षकन्या प्राप्ता च गौरीचरणार्चनाय
प्रब्रूहि कार्यं च तवास्ति नाथ कस् त्वं वदेस् तिष्ठसि कामरूपः ॥
सा त्वं समागच्छ भजस्व मां चिरान् मदङ्गसङ्गोत्सुकतां व्रजाशु
त्वया विना जीवितम् अप्य् अनल्पं स्वर्गस्य राज्यं मम निष्फलं स्यात् ॥
उक्ता च सैवं मधुरं च तेन कन्दर्पसंतापितचारुदेहा
विमानम् आरुह्य चलत्पताकं सुरेशकण्ठग्रहणं चकार ॥
जगाम शीघ्रं स हि नाकनाथः साकं तया मन्दरकन्दरासु
अदृष्टदेवासुरसंचरासु विचित्ररत्नाङ्कुरभासुरासु ॥
रेमे तया साकम् उदारवीर्यश् चित्रं सुरैश्वर्यगतादरो ऽपि
स्वयं च यस्या लघुपुष्पशय्यां चकार चातुर्यनिधिः सकामः ॥
जातः कृतार्थो ऽमरवृन्दनाथः सकामभोगेषु सदा विदग्धः
मोक्षाधिकं स्नेहरसातिमृष्टं पराङ्गनालिङ्गनसङ्गसौख्यम् ॥
अथागता यक्षपतेः समीपं नार्यो ऽनुवर्ज्यैव च चित्रसेनाम्
ससंभ्रमाः संभ्रमखिन्नगात्राः सगद्गदं प्रोचुर् असाहसज्ञाः ॥
नूनं समाकर्णय यक्षनाथ विमानम् आरोप्य जगाम कश्चित्
संवीक्षमाणः ककुभो ऽपि कान्तां विगृह्य वेगाद् इह सो ऽपि तस्करः ॥
वचो निशम्याथ धनाधिनाथो विषोपमं जातमषीनिभाननः
जगाद भूयो न च किंचिद् एव बभूव वै वृक्ष इवाग्निदग्धः ॥
विज्ञापितार्थो वरकन्यकाभिर् यश् चित्रसेनासहचारिणीभिः
मोहापनोदाय मतिं दधानः स कण्ठकुब्जो ऽपि समाजगाम ॥
श्रुत्वागतं वीक्ष्य स राजराज उन्मीलिताक्षो वचनं जगाद
विनिःश्वसन् गाढसकम्पगात्रः स्वस्थं मनो ऽप्य् आशु विधाय दीनः ॥
तद् यौवनं यद् युवतीविनोदो धनं तु चैतत् स्वजनोपयोगि
तं जीवितं यत् क्रियते सुधर्मस् तद् आधिपत्यं यदि नष्टविग्रहम् ॥
धिङ् मे धनं जीवितम् अत्यनल्पं राज्यं बृहत् संप्रति गुह्यकानाम्
विशामि चाग्निं न च वेद कश्चित् पराभवो ऽस्तीति च को मृतानाम् ॥
पार्श्वे स्थितस्यापि च जीवितो मे गता तडागं गिरिजार्चनाय
हृता च केनापि वयं न विद्मो ध्रुवं न तस्यास्ति भयं च मृत्योः ॥
जगाद वाक्यं स च कण्ठकुब्जो मोहापनोदाय विभोः स मन्त्री
आकर्ण्यतां नाथ न चास्ति योग्यः कान्तावियोगे निजदेहघातः ॥
एका पुरा रामवधूर् हृता च निशाचरेणापि मृतो न सो ऽपि
अनेकशः सन्ति तवात्र नार्यः को नाम चित्ते क्रियते विषादः ॥
विमुच्य शोकं कुरु विक्रमे मतिं धैर्यं समालम्बय यक्षराज
भृशं न जल्पन्ति रुदन्ति साधवः पराभवं बाह्यकृतं सहन्ते ॥
कृतं हि कार्यं गुरु दर्शयन्ति सहायवान् वित्तप कातरो ऽसि किम्
सहायकार्यं कुरुते हि संप्रति स्वयं हि यस्यावरजो विभीषणः ॥
विभीषणो मे प्रतिपक्षभूतो दायादभावं न विमुञ्चतीति
ध्रुवं प्रसन्ना न भवन्ति दुर्जनाः कृतोपकारा हरिवज्रनिष्ठुराः ॥
न चोपकारैर् न गुणैर् न सौहृदैः प्रसादम् आयाति मनो हि गोत्रिणः
उवाच वाक्यं स च कण्ठकुब्जो युक्तं त्वयोक्तं च धनाधिनाथ ॥
परस्परं घ्नन्ति च ते विरुद्धास् तथापि लोके न पराभवो ऽस्ति
पराभवं नान्यकृतं सहन्ते नोष्णं जलं ज्वालयते तृणानि ॥
तस्मात् समागच्छ धनाधिनाथ पार्श्वं न वेगेन विभीषणस्य
स्वबाहुवीर्यार्जितवित्तभोगिनां स्वबन्धुवर्गेषु हि को विरोधः ॥
इत्युक्तः स तदा तेन कण्ठकुब्जेन मन्त्रिणा
विभीषणस्य सामीप्यं जगामाशु विचारयन् ॥
ततो लङ्काधिपः श्रुत्वा बान्धवं पूर्वजं तदा
प्राप्तं प्रत्याजगामाशु विनयेन समन्वितः ॥
ततो विभीषणो दृष्ट्वा तदा दीनं च बान्धवम्
संतप्तमानसो भूप जगादेदं वचो महत् ॥
कथं दीनो ऽसि यक्षेश किं कष्टं तव चेतसि
निवेदयाधुनास्माकं निश्चयान् मार्जयामि तत् ॥
तदैकान्तं समासाद्य कथयाम्_अस वेदनाम् ॥
गृहीता किं स्वयं याता निहता केनचिद् द्विषा ॥
भ्रातः कान्तां न पश्यामि चित्रसेनां मनोरमाम्
एतद् बन्धो महत् कष्टं मम नारीसमुद्भवम् ॥
प्राणान् वै घातयिष्यामि अनासाद्य च वल्लभाम् ॥
आनयिष्यामि ते कान्तां यत्र तत्र स्थितां विभो ॥
कः समर्थो ऽधुनास्माकं हर्तुं नाथ तृणस्य च
ततो विभीषणस् तत्र नाडीजङ्घां निशाचरीम् ॥
भृशं संजल्पयाम्_अस नानामायागरीयसीम्
धनदस्य च या कान्ता चित्रसेनाविधानतः ॥
सा च केन हृता लोके मनसे सरसि स्थिता
तां च जानीहि संवीक्ष्य देवराजादिवेश्मसु ॥
ततो निशाचरी भूप कृत्वा मायामयं वपुः
जगाम त्रिदिवं शीघ्रं देवराजादिवेश्मसु ॥
यया दृष्ट्या क्षणं दृष्टो मोहं यास्यति चोपलः
यस्याः समं ध्रुवं रूपं विद्यते न चराचरे ॥
एतस्मिन्न् एव काले च देवराजो ऽपि भूपते
संप्राप्तो मन्दराच् छीघ्रं प्रेरितश् चित्रसेनया ॥
ग्रहीतुं दिव्यपुष्पाणि नन्दनप्रभवाणि च
तत्र पश्यन् स तां तन्वीं निजस्थाने सभागताम् ॥
अतीवरूपसंपन्नां गीतगानपरायणाम्
तां वीक्ष्य देवराजो ऽपि स कामवशगो ऽभवत् ॥
ततः संप्रेरयाम्_अस देववैद्यौ सुराधिपः
तस्याः पार्श्वे समानेतुं ध्रुवं चान्तःपुरे तदा ॥
देववैद्यौ तदागत्य जल्पतश् चाग्रतः स्थितौ
आगच्छ भव तन्वङ्गि देवराजसमीपगा ॥
इत्युक्ता सा तदा ताभ्यां जगाद मधुराक्षरम् ॥
देवराजः स्वयं यन् मे पार्श्वं चात्रागमिष्यति ॥
तस्य वाच्यं च कर्तव्यं नान्यथा सर्वथा मया
तौ तदा वासवं गत्वा ऊचतुर् वचनं शुभम् ॥
समादेशय तन्वङ्गि किं कर्तव्यं मयाधुना
सर्वदा दासभूतस् ते याचसे तद् ददाम्य् अहम् ॥
याचितं यदि मे नाथ दास्यसीति न संशयः
ततो ऽहं वशगा देव भविष्यामि न संशयः ॥
अद्य त्वं दर्शयास्माकं सर्वः कान्तापरिग्रहः
मम रूपसमा रामा कान्ता ते चास्ति वा न वा ॥
तया चोक्ते च वचने स भूयो वासवो ऽवदत्
दर्शयिष्यामि सर्वं ते देवि कान्तापरिग्रहम् ॥
स सर्वं दर्शयाम्_अस वासवो ऽन्तःपुरं तदा
ततो जगाद भूयः स किंचिद् गूढं मम स्थितम् ॥
विमुच्यैकां च युवतीं सर्वं ते दर्शितं मया ॥
सा रामा मन्दरे चास्ति अविज्ञाता सुरासुरैः ॥
तां च ते दर्शयिष्यामि नाख्येयं कस्यचित् त्वया
ततः स देवराजो ऽपि तया सार्धं च भूपते ॥
गच्छन्न् एवाम्बरे भूप मन्दरं प्रति भूधरम्
तस्य वै गच्छमानस्य विमानेनार्कवर्चसा ॥
दर्शनं नारदस्यापि तस्य जातं तदाम्बरे
तं वीक्ष्य नारदं वीरो लज्जमानो ऽपि वासवः ॥
नमस्कृत्य जगादोच्चैः क्व यास्यसि महामुने
ततः कृताशीः स मुनिर् अवदत् त्रिदेवेश्वरम् ॥
गच्छामि मानसे स्नातुं देवराज सुखी भव
नाडीजङ्घे ऽस्ति कुशलं राक्षसानां महात्मनाम् ॥
विभीषणो ऽपि ते भ्राता सुखी तिष्ठति सर्वदा
एवम् उक्ता च मुनिना सा कृष्णवदनाभवत् ॥
विस्मितो देवराजो ऽपि छलितो दुष्टयानया
नारदो ऽपि गतः स्नातुं कैलासे मानसं सरः ॥
इन्द्रस् तां हन्तुकामो ऽपि आगच्छन् मन्दराचलम्
यत्राश्रमो ऽस्ति वै नूनं तृणबिन्दोर् महात्मनः ॥
क्षणं विश्रम्य तत्रैव धृत्वा केशेषु राक्षसीम्
हन्तुम् इच्छति देवेशो नाडीजङ्घां निशाचरीम् ॥
तावत् तत्र समायातस् तृणबिन्दुर् निजाश्रमात्
धृता क्रन्दति सा राजन्न् इन्द्रेणापि निशाचरी ॥
मा मां रक्षति पुण्यात्मा हन्यमानां च सांप्रतम्
तदागत्य मुनिश्रेष्ठस् तृणबिन्दुर् महातपाः ॥
जगाद पुरतः स्थित्वा मुञ्चेमां महिलां वने
जल्पत्य् एवं मुनौ तस्मिन् महेन्द्रेण निशाचरी ॥
वज्रेण निहता भूयः कोपयुक्तेन चेतसा
स चुकोप मुनिश्रेष्ठः प्रेक्षमाणो मुहुर् मुहुः ॥
यद् एषा युवती दुष्ट निहता मे तपोवने
ततस् त्वं मम शापेन निश्चयात् स्त्री भविष्यसि ॥
एषा नाथ महादुष्टा राक्षसी निहता मया
अहं स्वामी सुराणां च शापं मा देहि मे ऽधुना ॥
नूनं तपोवने ऽस्माकं दुष्टास् तिष्ठन्ति साधवः
ममात्र तपसो भावान् न निघ्नन्ति परस्परम् ॥
इत्युक्तो हि तदा चेन्द्रः प्राप्तः स्त्रीत्वं न संशयः
जगाम त्रिदिवं भूप हतशक्तिपराक्रमः ॥
नासीनो हि भवत्य् एव सर्वदा देवसंसदि
देवा दुःखं समापन्ना दृष्ट्वा स्त्रीत्वं गतं हरिम् ॥
ततो देवगणाः सर्वे वासवेन समन्विताः
जग्मुश् च ब्रह्मसदनं तथा दीना शची तदा ॥
ब्रह्मा भग्नसमाधिश् च तावत् तत्रैव संस्थिताः
देवा ऊचुश् च ते सर्वे वासवेन समन्विताः ॥
तृणबिन्दोर् मुनेः शापाद् यातः स्त्रीत्वं सुराधिपः
स मुनिः कोपवान् ब्रह्मन् नैव गच्छत्य् अनुग्रहम् ॥
स्वकर्मणोपयातो सौ स्त्रीत्वं स्त्रीवधकारणात् ॥
चकार दुर्नयं देवा देवराजो ऽपि दुर्मदः
जहार चित्रसेनां च सुगुप्तां धनदाङ्गनाम् ॥
तथा जघान युवतीं तृणबिन्दोस् तपोवने
तेन कर्मविपाकेन स्त्रीभावं वासवो गतः ॥
यद् असौ कृतवाञ् शंभोर् दुर्नयं नाथ दुर्मतिः
तत् सर्वं साधयिष्यामो वयं शच्या समन्विताः ॥
कान्ता धनाधिनाथस्य गूढा तिष्ठति या विभो
तां च तस्मै प्रदास्यामः सर्वे कृत्वा परां मतिम् ॥
त्रयोदश्यां चतुर्दश्यां देवराजः शचीयुतः
नन्दने चार्चनं कर्ता सर्वदा यक्षरक्षसाम् ॥
ततः शची तदा गूढं चित्रसेनां विगृह्य च
मुमोच यक्षभवनं प्रियकष्टानुवर्तिनीम् ॥
एतस्मिन्न् अन्तरे दूतो ऽकाले लङ्कां समागतः
धनेशं कथयाम्_अस चित्रसेनासमागमम् ॥
शच्या साकं समायाता तव कान्ता धनाधिप
सखीं स्वाम् अतुलां प्राप्य चरितार्था बभूव सा ॥
धनेशो ऽपि कृतार्थो ऽभूज् जगाम निजवेश्मनि
पतिहीना यथा नारी नाथहीनं यथा बलम्
गोकुलं कृष्णहीनं तु तथेन्द्रेणामरावती ॥
जपः क्रिया तपो दानं ज्ञानं तीर्थं च वै प्रभो
वासवस्य समाख्याहि यतः स्त्रीत्वाद् विमुच्यते ॥
निहन्तुं न मुनेः शापं समर्थो ऽहं न शंकरः
तीर्थं चान्यन् न पश्यामि मुक्त्वैकं विष्णुपूजनम् ॥
अष्टाक्षरेण मन्त्रेण पूजनं च तथा जपम्
करोतु विधिवच् छक्रः स्त्रीत्वाद् येन च मुच्यते ॥
एकाग्रमनसा शक्र स्नात्वा श्रद्धासमन्वितः
ओं नमो नरायणायेति जप त्वम् आत्मशुद्धये ॥
लक्षद्वये कृते जाप्ये स्त्रीभावान् मुच्यसे हरे
इति श्रुत्वा तथाकार्षीद् ब्रह्मोक्तं वचनं हरिः
स्त्रीभावाच् च विनिर्मुक्तस् तदा विष्णोः प्रसादतः ॥
इति ते कथितं सर्वं विष्णुमाहात्म्यम् उत्तमम्
मया भृगुनियुक्तेन कुरु सर्वम् अतन्द्रितः ॥
शृण्वन्ति ये विष्णुकथाम् अकल्मषा वीर्यं हि विष्णो ऽखिलकारणस्य
ते मुक्तपापाः परदारगामिनो विशन्ति विष्णोः परमं पदं ध्रुवम् ॥
इति सम्बोधितस् तेन मार्कण्डेयेन पार्थिवः
नरसिंहं समाराध्य प्राप्तवान् वैष्णवं पदम् ॥
एतत् ते कथितं सर्वं भरद्वाज मुने मया
सहस्रानीकचरितं किम् अन्यत् कथयामि ते ॥
कथाम् इमां यस् तु शृणोति मानवः पुरातनीं सर्वविमुक्तिदां च
संप्राप्य स ज्ञानम् अतीव निर्मलं तेनैव विष्णुं प्रतिपद्यते जनः ॥
मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0