नरसिंहपुराण · अध्याय 65
त्वत्तो हि श्रोतुम् इच्छामि गुह्यक्षेत्राणि वै हरेः
नामानि च सुगुह्यानि वद पापहराणि च ॥
मन्दरस्थं हरिं देवं ब्रह्मा पृच्छति केशवम्
भगवन्तं देवदेवं शङ्खचक्रगदाधरम् ॥
केषु केषु च क्षेत्रेषु द्रष्टव्यो ऽसि मया हरे
भक्तैर् अन्यैः सुरश्रेष्ठ मुक्तिकामैर् विशेषतः ॥
यानि ते गुह्यनामानि क्षेत्राणि च जगत्पते
तान्य् अहं श्रोतुम् इच्छामि त्वत्तः पद्मायतेक्षण ॥
किं जपन् सुगतिं याति नरो नित्यम् अतन्द्रितः
त्वद्भक्तानां हितार्थाय तन् मे वद सुरेश्वर ॥
शृणुष्वावहितो ब्रह्मन् गुह्यनामानि मे ऽधुना
क्षेत्राणि चैव गुह्यानि तव वक्ष्यामि तत्त्वतः ॥
कोकामुखे तु वाराहं मन्दरे मधुसूदनम्
अनन्तं कपिलद्वीपे प्रभासे रविनन्दनम् ॥
माल्योदपाने वैकुण्ठं महेन्द्रे तु नृपात्मजम्
ऋषभे तु महाविष्णुं द्वारकायां तु भूपतिम् ॥
पाण्डुसह्ये तु देवेशं वासुरूढे जगत्पतिम्
वल्लीवटे महायोगं चित्रकूटे नराधिपम् ॥
निमिषे पीतवासं च गवां निष्क्रमणे हरिम्
शालग्रामे तपोवासम् अचिन्त्यं गन्धमादने ॥
कुब्जागारे हृषीकेशं गन्धद्वारे पयोधरम्
गरुडध्वजं तु सकले गोविन्दं नाम सायके ॥
वृन्दावने तु गोपालं मथुरायां स्वयंभुवम्
केदारे माधवं विन्द्याद् वाराणस्यां तु केशवम् ॥
पुष्करे पुष्कराक्षं तु धृष्टद्युम्ने जयध्वजम्
तृणबिन्दुवने वीरम् अशोकं सिन्धुसागरे ॥
कसेरटे महाबाहुम् अमृतं तैजसे वने
विश्वासयूपे विश्वईशं नरसिंहं महावने ॥
हलाङ्गरे रिपुहरं देवशालां त्रिविक्रमम्
पुरुषोत्तमं दशपुरे कुब्जके वामनं विदुः ॥
विद्याधरं वितस्तायां वाराहे धरणीधरम्
देवदारुवने गुह्यं कावेर्यां नागशायिनम् ॥
प्रयागे योगमूर्तिं च पयोष्ण्यां च सुदर्शनम्
कुमारतीर्थे कौमारं लोहिते हयशीर्षकम् ॥
उज्जयिन्यां त्रिविक्रमं लिङ्गकूटे चतुर्भुजम्
हरिहरं तु भद्रायां दृष्ट्वा पापात् प्रमुच्यते ॥
विश्वरूपं कुरुक्षेत्रे मणिकुण्डे हलायुधम्
लोकनाथम् अयोध्यायां कुण्डिने कुण्डिनेश्वरम् ॥
भाण्डारे वासुदेवं तु चक्रतीर्थे सुदर्शनम्
आढ्ये विष्णुपदं विद्याच् *छूकरे शूकरं विदुः ॥
ब्रह्मेशं मानसे तीर्थे दण्डके श्यामलं विदुः
त्रिकूटे नागमोक्षं च मेरुपृष्ठे च भास्करम् ॥
विरजं पुष्पभद्रायां बालं केरलके विदुः
यशस्करं विपाशायां माहिष्मत्यां हुताशनम् ॥
क्षीराब्धौ पद्मनाभं तु विमले तु सनातनम्
शिवनद्यां शिवकरं गयायां च गदाधरम् ॥
सर्वत्र परमात्मानं यः पश्यति स मुच्यते
अष्टषष्टिश् च नामानि कथितानि मया तव ॥
क्षेत्राणि चैव गुह्यानि कथितानि विशेषतः
एतानि मम नामानि रहस्यानि प्रजापते ॥
यः पठेत् प्रातर् उत्थाय शृणुयाद् वापि नित्यशः
गवां शतसहस्रस्य दत्तस्य फलम् आप्नुयात् ॥
दिने दिने शुचिर् भूत्वा नामान्य् एतानि यः पठेत्
दुःस्वप्नं न भवेत् तस्य मत्प्रसादान् न संशयः ॥
अष्टषष्टिस् तु नामानि त्रिकालं यः पठेन् नरः
विमुक्तः सर्वपापेभ्यो मम लोके स मोदते ॥
द्रष्टव्यानि यथाशक्त्या क्षेत्राण्य् एतानि मानवैः
वैष्णवैस् तु विशेषेण तेषाम् मुक्तिं ददाम्य् अहम् ॥
हरिं समभ्यर्च्य तदग्रसंस्थितो हरिं स्मरन् विष्णुदिने विशेषतः
इमं स्तवं यः पठते स मानवः प्राप्नोति विष्णोर् अमृतात्मकं पदम् ॥
मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0