भाषा

ENहिગુ
ग्रंथ पाठ

नरसिंहपुराण · अध्याय 62

62.1

वर्णानाम् आश्रमाणां च कथितं लक्षणं तव
भूयः कथय राजेन्द्र शुश्रूषा तत्र का नृप ॥

62.2

स्नात्वा वेश्मनि देवेशम् अर्चयेद् अच्युतं त्व् इति
त्वयोक्तं मम विप्रेन्द्र तत् कथं पूजनं भवेत् ॥

62.3

यैर् मन्त्रैर् अर्च्यते विष्णुर् येषु स्थानेषु वै मुने
तानि स्थानानि तान् मन्त्रांस् त्वम् आचक्ष्व महामुने ॥

62.4

अर्चनं संप्रवक्ष्यामि विष्णोर् अमिततेजसः
यत् कृत्वा मुनयः सर्वे परं निर्वाणम् आप्नुयुः ॥

62.5

अग्नौ क्रियावतां देवो हृदि देवो मनीषिणाम्
प्रतिमास्व् अल्पबुद्धीनां योगिनां हृदये हरिः ॥

62.6

अतो ऽग्नौ हृदये सूर्ये स्थण्डिले प्रतिमासु च
एतेषु च हरेः सम्यग् अर्चनं मुनिभिः स्मृतम् ॥

62.7

तस्य सर्वमयत्वाच् च स्थण्डिले प्रतिमासु च
आनुष्टुभस्य सूक्तस्य विष्णुस् तस्य च देवता ॥

62.8

पुरुषो यो जगद्बीजं ऋषिर् नारायणः स्मृतः
दद्यात् पुरुषसूक्तेन यः पुष्पाण्य् अप एव च ॥

62.9

अर्चितं स्याज् जगत् सर्वं तेन वै सचराचरम्
आद्ययावाहयेद् देवम् ऋचा तु पुरुषोत्तमम् ॥

62.10

द्वितीययासनं दद्यात् पाद्यं दद्यात् तृतीयया
चतुर्थ्यार्घ्यः प्रदातव्यः पञ्चम्याचमनीयकम् ॥

62.11

षष्ठ्या स्नानं प्रकुर्वीत सप्तम्या वस्त्रम् एव च
यज्ञोपवीतम् अष्टम्या नवम्या गन्धम् एव च ॥

62.12

दशम्या पुष्पदानं स्याद् एकादश्या च धूपकम्
द्वादश्या च तथा दीपं त्रयोदश्यार्चनं तथा ॥

62.13

चतुर्दश्या स्तुतिं कृत्वा पञ्चदश्या प्रदक्षिणम्
षोडश्योद्वासनं कुर्याच् *छेषकर्माणि पूर्ववत् ॥

62.14

स्नानं वस्त्रं च नैवेद्यं दद्याद् आचनमीयकम्
षण्मासात् सिद्धिम् आप्नोति देवदेवं समर्चयन् ॥

62.15

संवत्सरेण तेनैव सायुज्यम् अधिगछति
हविषाग्नौ जले पुष्पैर् ध्यानेन हृदये हरिम् ॥

62.16

अर्चन्ति सूरयो नित्यं जपेन रविमण्डले
आदित्यमण्डले दिव्यं देवदेवम् अनामयम्
शङ्खचक्रगदापाणिं ध्यात्वा विष्णुम् उपासते ॥

62.17

ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसंनिविष्टः
केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुर् धृतशङ्खचक्रः ॥

62.18

एतत् पठन् केवलम् एव सूक्तं दिने दिने भावितविष्णुबुद्धिः
स सर्वपापं प्रविहाय वैष्णवं पदं प्रयात्य् अच्युततुष्टिकृन् नरः ॥

62.19

पत्रेषु पुष्पेषु फलेषु तोयेष्व् अक्रीतलभ्येषु सदैव सत्सु
भक्त्यैकलभ्ये पुरुषे पुराणे मुक्त्यै किमर्थं क्रियते न यत्नः ॥

62.20

इत्य् एवम् उक्तः पुरुषस्य विष्णोर् अर्चाविधिस् ते ऽद्य मया नृपेन्द्र
अनेन नित्यं कुरु विष्णुपूजां प्राप्तुं तदिष्टं यदि वैष्णवं पदम् ॥

मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc