भाषा

ENहिગુ
ग्रंथ पाठ

नरसिंहपुराण · अध्याय 60

60.1

अत ऊर्ध्वं प्रवक्ष्यामि यतिधर्मम् अनुत्तमम्
श्रद्धया यद् अनुष्ठाय यतिर् मुच्येत बन्धनात् ॥

60.2

एवं वनाश्रमे तिष्ठंस् तपसा दग्धकिल्बिषः
चतुर्थम् आश्रमं गच्छेत् संन्यस्य विधिना द्विजः ॥

60.3

दिव्यं ऋषिभ्यो देवेभ्यः स्वपितृभ्यश् च यत्नतः
दत्त्वा श्राद्धम् ऋषिभ्यश् च मनुजेभ्यस् तथात्मने ॥

60.4

इष्टिं वैश्वानरीं कृत्वा प्राजापत्यम् अथापि वा
अग्निं स्वात्मनि संस्थाप्य मन्त्रवत् प्रव्रजेत् पुनः ॥

60.5

ततः प्रभृति पुत्रादौ सुखलोभादि वर्जयेत्
दद्याच् च भूमाव् उदकं सर्वभूताभयंकरम् ॥

60.6

त्रिदण्डं वैणवं सौम्यं सत्वचं समपर्वकम्
वेष्टितं कृष्णगोवाल रज्ज्वा च चतुरङ्गुलम् ॥

60.7

ग्रन्थिभिर् वा त्रिभिर् युक्तं जलपूतं च धारयेत्
गृह्णीयाद् दक्षिणे हस्ते मन्त्रेणैव तु मन्त्रवित् ॥

60.8

कौपीनाच् छादनं वासः कुथां शीतनिवारिणीम्
पादुके चापि गृह्णीयात् कुर्यान् नान्यस्य संग्रहम् ॥

60.9

एतानि तस्य लिङ्गानि यतेः प्रोक्तानि धर्मतः
संगृह्य कृतसंन्यासो गत्वा तीर्थम् अनुत्तमम् ॥

60.10

स्नात्वा ह्य् आचम्य विधिवज् जलयुक्तांशुकेन वै
वारिणा तर्पयित्वा तु मन्त्रवद् भास्करं नमेत् ॥

60.11

आसीनः प्राङ्मुखो मौनी प्राणायामत्रयं चरेत्
गायत्रीं च यथाशक्ति जप्त्वा ध्यायेत् परं पदम् ॥

60.12

स्थित्यर्थम् आत्मनो नित्यं भिक्षाटनम् अथाचरेत्
सायाह्नकाले विप्राणां गृहाणि विचरेद् यतिः ॥

60.13

स्याद् अर्थी यावतान्नेन तावद् भैक्षं समाचरेत्
ततो निवृत्त्य तत्पात्रम् अभ्युक्ष्याचम्य संयमी ॥

60.14

सूर्यादिदैवतेभ्यो हि दत्त्वान्नं प्रोक्ष्य वारिणा
भुञ्जीत पर्णपुटके पात्रे वा वग्यतो यतिः ॥

60.15

वटकाश्वत्थपत्रेषु कुम्भीतिन्दुकपत्रयोः
कोविदारकरञ्जेषु न भूञ्जीत कदाचन ॥

60.16

भुक्त्वाचम्य निरुद्धासुर् उपतिष्ठेत भास्करम्
जपध्यानेतिहासैस् तु दिनशेषं नयेद् यतिः ॥

60.17*

पलाशाः सर्व उच्यन्ते यतयः कांस्यभोजिनः
कांस्यस्येव तु यत्पात्रं गृहस्थस्य तथैव च ॥

60.17*

कांस्यभोजी यतिः सर्वं प्राप्नुयात् किल्बिषं पुनः
भुक्तपात्रे यतिर् नित्यं भक्षयेन् मन्त्रपूर्वकम् ॥

60.17*

न दुष्येत् तस्य तत् पात्रं यज्ञेषु चमसा इव
कृतसंध्यस् ततो रात्रिं नयेद् देवगृहादिषु ॥

60.17*

हृत्पुण्डरीकनिलये ध्यायन् नारायणं हरिम्
तत्पदं समवाप्नोति यत् प्राप्य न निवर्तते ॥

मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc