भाषा

ENहिગુ
ग्रंथ पाठ

नरसिंहपुराण · अध्याय 61

61.1

वर्णानाम् आश्रमाणां च कथितं धर्मलक्षणम्
यतः स्वर्गापवर्गौ तु प्राप्नुयुस् ते द्विजादयः ॥

61.2

योगशास्त्रस्य वक्ष्यामि संक्षेपात् सारम् उत्तमम्
यस्याभ्यासबलाद् यान्ति मोक्षं चेह मुमुक्षवः ॥

61.3

योगाभ्यासरतस्येह नश्येयुः पातकानि च
तस्माद् योगपरो भूत्वा ध्यायेन् नित्यं क्रियान्तरे ॥

61.4

प्राणायामेन वचनं प्रत्याहारेण चेन्द्रियम्
धारणाभिर् वशीकृत्य पुनर् दुर्धर्षणं मनः ॥

61.5

एकं कारणम् आनन्द बोधं च तम् अनामयम्
सुक्ष्मात् सूक्ष्मतरं ध्यायेज् जगदाधारम् अच्युतम् ॥

61.6

आत्मानम् अरविन्दस्थं तप्तचामीकरप्रभम्
रहस्य् एकान्तम् आसीत ध्यायेद् आत्महृदि स्थितम् ॥

61.7

यः सर्वप्राणचित्तज्ञो यः सर्वेषां हृदि स्थितः
यश् च सर्वजनैर् ज्ञेयः सो ऽहम् अस्मीति चिन्तयेत् ॥

61.8

आत्मलाभसुखं यावत् तावद् ध्यानम् उदाहृतम्
श्रुतिस्मृत्युदितं कर्म तत्तदूर्ध्वं समाचरेत् ॥

61.9

यथाश्वा रथहीनाश् च रथाश् चाश्वैर् विना यथा
एवं तपश् च विद्या च उभाव् अपि तपस्विनः ॥

61.10

यथान्नं मधुसंयुक्तं मधु चान्नेन संयुतम्
एवं तपश् च विद्या च संयुक्ते भेषजं महत् ॥

61.11

द्वाभ्याम् एव हि पक्षाभ्यां यथा वै पक्षिणां गतिः
तथैव ज्ञानकर्मभ्यां प्राप्यते ब्रह्म शाश्वतम् ॥

61.12

विद्यातपोभ्यां संपन्नो ब्राह्मणो योगतत्परः
देहद्वन्द्वं विहायाशु मुक्तो भवति बन्धनात् ॥

61.13

न देवयानमार्गेण यावत् प्राप्तं परं पदम्
न तावद् देहलिङ्गस्य विनाशो विद्यते क्वचित् ॥

61.14

मया वः कथितः सर्वो वर्णाश्रमविभागशः
संक्षेपेण द्विजश्रेष्ठा धर्मस् तेषां सनातनः ॥

61.15

श्रुत्वैवम् ऋषयो धर्मं स्वर्गमोक्षफलप्रदम्
प्रणम्य तम् ऋषिं जग्मुर् मुदितास् ते स्वम् आलयम् ॥

61.16

धर्मशास्त्रम् इदं यस् तु हारीतमुखनिःसृतम्
श्रुत्वा च कुरुते धर्मं स याति परमां गतिम् ॥

61.17

मुखजस्य तु यत् कर्म कर्म यद् बाहुजस्य तु
ऊरुजस्य तु यत् कर्म पादजस्य तथा नृप ॥

61.18

स्वं स्वं कर्म प्रकुर्वाणा विप्राद्या यान्ति सद्गतिम्
अन्यथा वर्तमानो हि सद्यः पतति यात्य् अधः ॥

61.19

यस्य ये ऽभिहिता धर्माः स तु तैस् तैः प्रतिष्ठितः
तस्मात् स्वधर्मं कुर्वीत नित्यम् एवम् अनापदि ॥

61.20

चतुर्वर्णाश् च राजेन्द्र चत्वारश् चापि चाश्रमाः
स्वधर्मं ये ऽनुतिष्ठन्ति ते यान्ति परमां गतिम् ॥

61.21

स्वधर्मेण यथा नृणां नरसिंहः प्रतुष्यति
वर्णधर्मानुसारेण नरसिंहं तथार्चयेत् ॥

61.22

उत्पन्नवैराग्यबलेन योगाद् ध्यायेत् परं ब्रह्म सदा क्रियावान्
सत्यात्मकं चित्सुखरूपम् आद्यं विहाय देहं पदम् एति विष्णोः ॥

मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc