भाषा

ENहिગુ
ग्रंथ पाठ

नरसिंहपुराण · अध्याय 59

59.1

अतः परं प्रवक्ष्यामि वानप्रस्थस्य लक्षणम्
धर्मम् अग्र्यं महाभागाः कथ्यमानं निबोधत ॥

59.2

गृहस्थः पुत्रपौत्रादीन् दृष्ट्वा पलितम् आत्मनः
स्वभार्यां तनये स्थाप्ये स्वशिष्यैः प्रविशेद् वनम् ॥

59.3

जटाकलापचीराणि नखगात्ररुहाणि वा
धारयञ् जुहुयाद् अग्नौ वैतानविधिना स्थितः ॥

59.4

भृतपर्णैर् मृत्संभूतैर् नीवाराद्यैर् अतन्द्रितः
कन्दमूलफलैर् वापि कुर्यान् नित्यक्रियां बुधः ॥

59.5

त्रिकालं स्नानयुक्तस् तु कुर्यात् तीव्रं तपः सदा
पक्षे गते वा अश्नीयान् मासान्ते वा पराककृत् ॥

59.6

चतुःकाले ऽपि चाश्नीयात् काले ऽप्य् उत तथाष्टमे
षष्ठाह्नकाले ह्य् अथवा अथवा वायुभक्षकः ॥

59.7

घर्मे पञ्चाग्निमध्यस्थो धारावर्षासु वै नयेत्
हैमन्तिके जले स्थित्वा नयेत् कालं तपश् चरन् ॥

59.8

एवं स्वकर्मभोगेन कृत्वा शुद्धिम् अथात्मनः
अग्निं चात्मनि वै कृत्वा व्रजेद् वाथोत्तरां दिशम् ॥

59.9

आदेहपाताद् वनगो मौनम् आस्थाय तापसः
स्मरन्न् अतीन्द्रियं ब्रह्म ब्रह्मलोके महीयते ॥

59.10

तपो हि यः सेवति काननस्थो वसेन् महत्सत्त्वसमाधियुक्तः
विमुक्तपापो हि मनःप्रशान्तः प्रयाति विष्णोः सदनं द्विजेन्द्रः ॥

मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc