नरसिंहपुराण · अध्याय 58
क्षत्रादीनां प्रवक्ष्यामि यथावद् अनुपूर्वशः
येन येन प्रवर्तन्ते विधिना क्षत्रियादयः ॥
राज्यस्थः क्षत्रियश् चैव प्रजा धर्मेण पालयेत्
कुर्याद् अध्ययनं सम्यग् यजेद् यज्ञान् यथाविधि ॥
दद्याद् दानं द्विजाग्र्येभ्यो धर्मबुद्धिसमन्वितः
स्वदारनिरतो नित्यं परदारविवर्जितः ॥
नीतिशास्त्रार्थकुशलः संधिविग्रहतत्त्ववित्
देवब्राह्मणभक्तश् च पितृकार्यपरस् तथा ॥
धर्मेणैव जयं काङ्क्षेद् अधर्मं परिवर्जयेत्
उत्तमां गतिम् आप्नोति क्षत्रियो ऽथैवम् आचरन् ॥
गोरक्षाकृषिवाणिज्यं कुर्याद् वैश्यो यथाविधि
दानधर्मं यथाशक्त्या गुरुशुश्रूषणं तथा ॥
लोभदम्भविनिर्मुक्तः सत्यवाग् अनसूयकः
स्वदारनिरतो दान्तः परदारविवर्जितः ॥
धनैर् विप्रान् समर्चेत यज्ञकाले त्वरान्वितः
यज्ञाध्ययनदानानि कुर्यान् नित्यम् अतन्द्रितः ॥
पितृकार्यं च तत्काले नरसिंहार्चनं तथा
एतद् वैश्यस्य कर्मोक्तं स्वधर्मम् अनुतिष्टतः ॥
एतद् आसेवमानस् तु स स्वर्गी स्यान् न संशयः
वर्णत्रयस्य शुश्रूषां कुर्याच् छूद्रः प्रयत्नतः ॥
दासवद् ब्राह्मणानां च विशेषेण समाचरेत्
अयाचितं प्रदातव्यं कृषिं वृत्त्यर्थम् आचरेत् ॥
ग्रहाणां मासिकं कार्यं पूजनं न्यायधर्मतः
धारणं जीर्णवस्त्रस्य विप्रस्योच्छिष्टमार्जनम् ॥
स्वदारेषु रतिं कुर्यात् परदारविवर्जितः
पुराणश्रवणं विप्रान् नरसिंहस्य पूजनम् ॥
तथा विप्रनमस्कारं कार्यं श्रद्धासमन्वितम्
सत्यसंभाषणं चैव रागद्वेषविवर्जनम् ॥
इत्थं कुर्वन् सदा शूद्रो मनोवाक्कायकर्मभिः
स्थानम् ऐन्द्रम् अवाप्नोति नष्टपापस् तु पुण्यभाक् ॥
वर्णेषु धर्मा विविधा मयोक्ता यथाक्रमं ब्राह्मणवर्यसाधिताः
शृणुध्वम् अत्राश्रमधर्मम् आद्यं मयोच्यमानं क्रमशो मुनीन्द्राः ॥
उपनीतो माणवको वसेद् गुरुकुले सदा
गुरोः प्रियहितं कार्यं कर्मणा मनसा गिरा ॥
ब्रह्मचर्यम् अधःशय्या तथा वह्नेर् उपासनम्
उदकुम्भं गुरोर् दद्यात् तथा चेन्धनम् आहरेत् ॥
कुर्याद् अध्ययनं पूर्वं ब्रह्मचारी यथाविधि
विधिं हित्वा प्रकुर्वाणो न स्वाध्यायफलं लभेत् ॥
यत् किंचित् कुरुते कर्म विधिं हित्वा निरात्मकः
न तत्फलम् अवाप्नोति कुर्वाणो विधिविच्युतः ॥
तस्माद् एवं व्रतानीह चरेत् स्वाध्यायसिद्धये
शौचाचारम् अशेषं तु शिक्षयेद् गुरुसंनिधौ ॥
अजिनं दण्डकाष्ठं च मेखलां चोपवीतकम्
धारयेद् अप्रमत्तस् तु ब्रह्मचारी समाहितः ॥
सायं प्रातश् चरेद् भैक्षं भोजनं संयतेन्द्रियः
गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु ॥
अलाभे त्व् अन्यगेहानां पूर्वपुर्वं च वर्जयेत्
आचम्य प्रयतो नित्यम् अश्नीयाद् गुर्वनुज्ञया ॥
शयनात् पूर्वम् उत्थाय दर्भमृद्दन्तशोधनम्
वस्त्रादिकम् अथान्यच् च गुरवे प्रतिपादयेत् ॥
स्नाने कृते गुरौ पश्चात् स्नानं कुर्वीत यत्नवान्
ब्रह्मचारी व्रती नित्यं न कुर्याद् दन्तशोधनम् ॥
छत्रोपानहम् अभ्यङ्गं गन्धमाल्यानि वर्जयेत्
नृत्यगीतकथालापं मैथुनं च विशेषतः ॥
वर्जयेन् मधु मांसं च रसास्वादं तथा स्त्रियः
कामं क्रोधं च लोभं च परिवादं तथा नृणाम् ॥
स्त्रीणां च प्रेक्षणालम्भम् उपघातं परस्य च
एकः शयीत सर्वत्र न रेतः स्कन्दयेत् क्वचित् ॥
स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रम् अकामतः
स्नात्वार्कम् अर्चयित्वाग्निं पुनर् माम् इत्य् ऋचं जपेत् ॥
आस्तिको ऽहर् अहः संध्यां त्रिकालं संयतेन्द्रियः
उपासीत यथान्यायं ब्रह्मचारिव्रते स्थितः ॥
अभिवाद्य गुरोः पादौ संध्याकर्मावसानतः
यथायोगं प्रकुर्वीत मातापित्रोस् तु भक्तितः ॥
एतेषु त्रिषु तुष्टेषु तुष्टाः स्युः सर्वदेवताः
तद् एषां शासने तिष्ठेद् ब्रह्मचारी विमत्सरः ॥
अधीत्य चतुरो वेदान् वेदौ वेदम् अथापि वा
गुरवे दक्षिणां दत्त्वा तदा स्वस्वेच्छया वसेत् ॥
विरक्तः प्रव्रजेद् विद्वान् संरक्तस् तु गृही भवेत्
सरागो नरकं याति प्रव्रजन् हि ध्रुवं द्विजः ॥
यस्यैतानि सुशुद्धानि जिह्वोपस्थोदरं गिरः
संन्यसेद् अकृतोद्वाहो ब्राह्मणो ब्रह्मचर्यवान् ॥
एवं यो विधिम् आस्थाय नयेत् कालम् अतन्द्रितः
तेन भूयः प्रजायेत ब्रह्मचारी दृढव्रतः ॥
यो ब्रह्मचारी विधिम् एतम् आस्थितश् चरेत् पृथिव्यां गुरुसेवने रतः
संप्राप्य विद्याम् अपि दुर्लभां तां फलं हि तस्याः सकलं हि विन्दति ॥
गृहीतवेदाध्ययनः श्रुतिशास्त्रार्थतत्त्ववित्
गुरोर् दत्तवरः सम्यक् समावर्तनम् आरभेत् ॥
असमाननामगोत्रां कन्यां भ्रातृयुतां शुभाम्
सर्वावयवसंयुक्तां सद्वृत्ताम् उद्वहेत् ततः ॥
नोद्वहेत् कपिलां कन्यां नाधिकाङ्गीं न रोगिणीम्
वाचालाम् अतिलोमां च न व्यङ्गां भीमदर्शनाम् ॥
नर्क्षवृक्षनदीनाम्नीं नान्तपर्वतनामिकाम्
न पक्षिअहिप्रेष्यनाम्नीं न च भीषणनामिकाम् ॥
अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम्
तन्वोष्ठकेशदशनां मृद्वङ्गीम् उद्वहेत् स्त्रियम् ॥
ब्राह्मेण विधिना कुर्यात् प्रशस्तेन द्विजोत्तमः
यथायोगं तथा ह्य् एवं विवाहं वर्णधर्मतः ॥
उषःकाले समुत्थाय कृतशौचो द्विजोत्तमः
कुर्यात् स्नानं ततो विद्वान् दन्तधावनपूर्वकम् ॥
मुखे पर्युषिते नित्यं यतो ऽपूतो भवेन् नरः
तस्माच् छुष्कम् अथार्द्रं वा भक्षयेद् दन्तधावनम् ॥
खदिरं च कदम्बं च करञ्जं च वटं तथा
अपामार्गं च बिल्वं च अर्कश् चोदुम्बरस् तथा ॥
एते प्रशस्ताः कथिता दन्तधावनकर्मणि
दन्तधावनकाष्ठं च वक्ष्यामि तत्प्रशस्तताम् ॥
सर्वे कण्टकिनः पुण्याः क्षीरिणस् तु यशस्विनः
अष्टाङ्गुलेन मानेन तत्प्रमाणम् इहोच्यते ॥
प्रादेशमात्रम् अथवा तेन दन्तान् विशोधयेत्
प्रतिपद्दर्शषष्ठीषु नवम्यां चैव सत्तमाः ॥
दन्तानां काष्ठसंयोगद् दहत्य् आसप्तमं कुलम्
अलाभे दन्तकाष्ठस्य प्रतिषिद्धे च तद्दिने ॥
अपां द्वादशगण्डूषैर् मुखशुद्धिर् विधीयते
स्नात्वा मन्त्रवद् आचम्य पुनर् आचमनं चरेत् ॥
मन्त्रवान् प्रोक्ष्य चात्मानं प्रक्षिपेद् उदकाञ्जलिम्
आदित्येन सह प्रातर् मन्देहा नाम राक्षसाः ॥
युध्यन्ति वरदानेन ब्रह्मणो ऽव्यक्तजन्मनः
उदकाञ्जलिविक्षेपो गायत्र्या चाभिमन्त्रितः ॥
तान् हन्ति राक्षसान् सर्वान् मन्देहान् रविवैरिणः
ततः प्रयाति सविता ब्राह्मणै रक्षितो दिवि ॥
मरीच्याद्यैर् महाभागैः सनकाद्यैस् च योगिभिः
तस्मान् न लङ्घयेत् संध्यां सायं प्रातर् द्विजः सदा ॥
उल्लङ्घयति यो मोहात् स याति नरकं ध्रुवम्
सायं मन्त्रवद् आचम्य प्रोक्ष्य सूर्यस्य चाञ्जलिम् ॥
दत्त्वा प्रदक्षिणं कृत्वा जलं स्पृष्ट्वा विशुध्यति
पूर्वां संध्यां सनक्षत्राम् उपक्रम्य यथाविधि ॥
गायत्रीम् अभ्यसेत् तावद् यावद् ऋक्षाणि पश्यति
ततस् त्व् आवसथं प्राप्य होमं कुर्यात् स्वयं बुधः ॥
संचिन्त्य भृत्यवर्गस्य भरणार्थं विचक्षणः
ततः शिष्यहितार्थाय स्वाध्यायं किंचिद् आचरेत् ॥
ईश्वरं चैव रक्षार्थम् अभिगच्छेद् द्विजोत्तमः
कुशपुष्पेन्धनादीनि गत्वा दूरात् समाहरेत् ॥
माध्याह्निकीं क्रियां कुर्याच् *छुचौ देशे समाहितः
विधिं स्नानस्य वक्ष्यामि समासात् पापनाशनम् ॥
स्नात्वा येन विधानेन सद्यो मुच्येत किल्बिषात्
सुधीः स्नानार्थम् आदाय सुक्लां कुशतिलैः सह ॥
सुमनाश् च ततो गच्छेन् नदीं शुद्धां मनोरमाम्
नद्यां तु विद्यमानायां न स्नायाद् अल्पवारिषु ॥
शुचौ देशे समभ्युक्ष्य स्थापयेत् कुशमृत्तिकाम्
मृत्तोयेन स्वकं देहम् अभिप्रक्षाल्य यत्नतः ॥
स्नानाच् छरीरं संशोध्य कुर्याद् आचमनं बुधः
शुभे जले प्रविश्याथ नमेद् वरुणम् अप्पतिम् ॥
हरिम् एव स्मरंश् चित्ते निमज्जेच् च बहूदके
ततः स्नानं समासाद्या अप आचम्य मन्त्रतः ॥
प्रोक्षयेद् वरुणं देवं तैर् मन्त्रैः पावमानिभिः
कुशाग्रस्थेन तोयेन प्रोक्ष्यात्मानं प्रयत्नतः ॥
आलभेन् मृत्तिकां गात्रे इदं विष्णुर् इति त्रिधा
ततो नारायणं देवं संस्मरन् प्रविशेज् जलम् ॥
निमज्ज्यान्तर्जले सम्यक् त्रिः पठेद् अघमर्षणम्
स्नात्वा कुशतिलैस् तद्वद् देवर्षीन् पितृभिः सह ॥
तर्पयित्वा जलात् तस्मान् निष्क्रम्य च समाहितः
जलतीरं समासाद्य धौते शुक्ले च वाससी ॥
परिधायोत्तरीयं च न कुर्यात् केशधूननम्
न रक्तम् उल्बणं वासो न नीलं तत् प्रशस्यते ॥
मलाक्तं तु दशाहीनं वर्जयेद् अम्बरं बुधः
ततः प्रक्षालयेत् पादौ मृत्तोयेन विचक्षणः ॥
त्रिः पिबेद् वीक्षितं तोयम् आस्यं द्विः परिमार्जयेत्
पादौ शिरसि चाभ्युक्षेत् त्रिर् आचम्य तु संस्पृशेत् ॥
अङ्गुष्ठेन प्रदेशिन्या नासिकां समुपस्पृशेत्
अङ्गुष्ठकनिष्ठिकाभ्यां नाभौ हृदि तलेन च ॥
शिरश् चाङ्गुलिभिः सर्वैर् बाहुं चैव ततः स्पृशेत्
अनेन विधिनाचम्य ब्राह्मणः शुद्धमानसः ॥
दर्भे तु दर्भपाणिः स्यात् प्राङ्मुखः सुसमाहितः
प्राणायामांस् तु कुर्वीत यथाशास्त्रम् अतन्द्रितः ॥
जपयज्ञं ततः कुर्याद् गायत्रीं वेदमातरम्
त्रिविधो जपयज्ञः स्यात् तस्य भेदं निबोधत ॥
वाचिकश् च उपांशुश् च मानसस् त्रिविधः स्मृतः
त्रयाणां जपयज्ञानां श्रेयः स्याद् उत्तरोत्तमम् ॥
यद् उच्चनीचस्वरितैः स्पष्टशब्दवदक्षरैः
शब्दम् उच्चारयेद् वाचा जपयज्ञः स वाचिकः ॥
शनैर् उच्चारयेन् मन्त्रम् ईषद् ओष्ठौ प्रचालयेत्
किंचिन् मन्त्रं स्वयं विन्द्याद् उपांशुः स जपः स्मृतः ॥
धिया यद् अक्षरश्रेण्या वर्णाद् वर्णं पदात् पदम्
शब्दार्थचिन्तनं ध्यानं तद् उक्तं मानसं जपः ॥
जपेन देवता नित्यं स्तूयमाना प्रसीदति
प्रसन्ना विपुलान् भोगान् दद्यान् मुक्तिं च शाश्वतीम् ॥
यक्षरक्षः पिशाचाश् च ग्रहाः सूर्यादिदूषणाः
जापिनं नोपसर्पन्ति दूरद् एवापयान्ति ते ॥
ऋक्षादिकं परिज्ञाय जपयज्ञम् अतन्द्रितः
जपेद् अहर् अहः स्नात्वा सावित्रीं तन्मना द्विजः ॥
सहस्रपरमां देवीं शतमध्यां दशावराम्
गायत्रीं यो जपेन् नित्यं न स पापैर् हि लिप्यते ॥
अथ पुष्पाञ्जलिं दत्त्वा भानवे चोर्ध्वबाहुकः
उदुत्यं च जपेन् मन्त्रं चित्रं तच्चक्षुर् इत्य् अपि ॥
प्रदक्षिणम् उपावृत्य नमस् कुर्याद् दिवाकरम्
स्वेन तीर्थेन देवादीन् अद्भिः संतर्पयेद् बुधः ॥
देवान् देवगणांश् चैव ऋषीन् ऋषिगणांस् तथा
पितॄन् पितृगणांश् चैव नित्यं संतर्पयेद् बुधः ॥
स्नानवस्त्रं ततः पीड्य पुनर् आचमनं चरेत्
दर्भेषु दर्भपाणिः स्याद् ब्रह्मयज्ञविधानतः ॥
प्राङ्मुखो ब्रह्मयज्ञं तु कुर्याद् बुद्धिसमन्वितः
ततो ऽर्घं भानवे दद्यात् तिलपुष्पजलान्वितम् ॥
उत्थाय मूर्धपर्यन्तं हंसः शुचिषद् इत्य् ऋचा
जले देवं नमस्कृत्य ततो गृहगतः पुनः ॥
विधिना पुरुषसूक्तेन तत्र विष्णुं समर्चयेत्
वैश्वदेवं ततः कुर्याद् बलिकर्म यथाविधि ॥
गोदोहमात्रम् अतिथिं प्रतिवीक्षेत वै गृही
अदृष्टपूर्वम् अतिथिम् आगतं प्राक् समर्चयेत् ॥
आगत्य च पुनर् द्वारं प्रत्युत्थानेन साधुना
स्वागतेनाग्नयस् तुष्टा भवन्ति गृहमेधिनाम् ॥
आसनेन तु दत्तेन प्रीतो भवति देवराट्
पादशौचेन पितरः प्रीतिम् आयान्ति तस्य च ॥
अन्नाद्येन च दत्तेन तृप्यतीह प्रजापतिः
तस्माद् अतिथये कार्यं पूजनं गृहमेधिना ॥
भक्त्या च भक्तिमान् नित्यं विष्णुम् अभ्यर्च्य चिन्तयेत्
भिक्षां च भिक्षवे दद्यात् परिव्राड्ब्रह्मचारिणे ॥
आकल्पितान्नाद् उद्धृत्य सर्वव्यञ्जनसंयुतम्
दद्याच् च मनसा नित्यं भिक्षां भिक्षोः प्रयत्नतः ॥
अकृते वैश्वदेवे तु भिक्षौ भिक्षार्थम् आगते
अवश्यम् एव दातव्यं स्वर्गसोपानकारकम् ॥
उद्धृत्य वैश्वदेवान्नं भिक्षां दत्त्वा विसर्जयेत्
वैश्वदेवाकृतं दोषं शक्तो भिक्षुर् व्यपोहितुम् ॥
सुवासिनीः कुमारीश् च भोजयित्वातुरान् अपि
बालवृद्धांस् ततः शेषं स्वयं भुञ्जीत वै गृही ॥
प्राङ्मुखोदङ्मुखो वापि मौनी च मितभाषणः
अन्नं पूर्वं नमस्कृत्य प्रहृष्टेनान्तरात्मना ॥
पञ्च प्राणाहुतीः कुर्यात् स मन्त्रेण पृथक् पृथक्
ततः स्वादुकरं चान्नं भुञ्जीत सुसमाहितः ॥
आचम्य देवताम् इष्टां संस्मरेद् उदरं स्पृशन्
इतिहासपुराणाभ्यां कंचित् कालं नयेद् बुधः ॥
ततः संध्याम् उपासीत बहिर् गत्वा विधानतः
कृतहोमश् च भुञ्जीत रात्राव् अतिथिम् अर्चयेत् ॥
सायं प्रातर् द्विजातीनाम् अशनं श्रुतिचोदितम्
नान्तरा भोजनं कुर्याद् अग्निहोत्रसमो विधिः ॥
शिष्यान् अध्यापयेत् तद्वद् अनध्यायं विवर्जयेत्
स्मृत्युक्तान् सकलान् पूर्वं पुराणोक्तान् अपि द्विजः ॥
महानवम्यां द्वादश्यां भरण्याम् अपि चैव हि
तथाक्षय्यतृतीयायां शिष्यान् नाध्यापयेद् बुधः ॥
माघमासे तु सप्तम्यां रथ्याम् अध्ययनं त्यजेत्
अध्यापनम् अथाभ्यज्य स्नानकाले विवर्जयेत् ॥
दानं च विधिना देयं गृहस्थेन हितैषिणा
हिरण्यदानं गोदानं भूमिदानं विशेषतः ॥
एतानि यः प्रयच्छेत श्रोत्रियेभ्यो द्विजोत्तमः
सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते ॥
मङ्गलाचारयुक्तश् च शुचिः श्रद्धापरो गृही
श्राद्धं च श्रद्धया कुर्यात् स याति ब्रह्मणः पदम् ॥
जाताव् उत्कर्षम् आयाति नरसिंहप्रसादतः
स तस्मान् मुक्तिम् आप्नोति ब्रह्मणा सह सत्तमाः ॥
एवं हि विप्राः कथितो मया वः समासतः शाश्वतधर्मराशिः
सम्यग् गृहस्थस्य सतो हि धर्मं कुर्वन् प्रयत्नाद् धरिम् एति मुक्तः ॥
मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0