भाषा

ENहिગુ
ग्रंथ पाठ

नरसिंहपुराण · अध्याय 57

57.1

भक्तानां लक्षणं ब्रूहि नरसिंह् अस्य मे द्विज
येषां संगतिमात्रेण विष्णुलोको न दूरतः ॥

57.2

विष्णुभक्ता महोत्साहा विष्ण्वर्चनविधौ सदा
संयता धर्मसंपन्नाः सर्वार्थान् साधयन्ति ते ॥

57.3

परोपकारनिरता गुरुशुश्रूषणे रताः
वर्णाश्रमाचारयुताः सर्वेषां सुप्रियंवदाः ॥

57.4

वेदवेदार्थतत्त्वज्ञा गतरोषा गतस्पृहाः
शान्ताश् च सौम्यवदना नित्यं धर्मपरायणाः ॥

57.5

हितं मितं च वक्तारः काले शक्त्यातिथिप्रियाः
दम्भमायाविनिर्मुक्ताः कामक्रोधविवर्जिताः ॥

57.6

ईदृग्विधा नरा धीराः क्षमावन्तो बहुश्रुताः
विष्णुकीर्तनसंजात हर्षा रोमाञ्चिता जनाः ॥

57.7

विष्ण्वर्चापूजने यत्तास् तत्कथायां कृतादराः
ईदृग्विधा महात्मानो विष्णुभक्ताः प्रकीर्तिताः ॥

57.8

ये वर्णाश्रमधर्मस्थास् ते भक्ताः केशवं प्रति
इति प्रोक्तं त्वया विद्वन् भृगुवर्य गुरो मम ॥

57.9

वर्णानाम् आश्रमाणां च धर्मं मे वक्तुम् अर्हसि
यैः कृतैस् तुष्यते देवो नरसिंहः सनातनः ॥

57.10

अत्रे ते वर्णयिष्यामि पुरावृत्तम् अनुत्तमम्
मुनिभिः सह संवादं हारीतस्य महात्मनः ॥

57.11

हारीतं धर्मतत्त्वज्ञम् आसीनं बहुपाठकम्
प्रणिपत्याब्रुवन् सर्वे मुनयो धर्मकाङ्क्षिणः ॥

57.12

भगवन् सर्वधर्मज्ञ सर्वधर्मप्रवर्तक
वर्णानाम् आश्रमाणां च धर्मं प्रब्रूहि शाश्वतम् ॥

57.13

नारायणः पुरा देवो जगत्स्रष्टा जलोपरि
सुष्वाप भोगिपर्यङ्के शयने तु श्रिया सह ॥

57.14

तस्य सुप्तस्य नाभौ तु दिव्यं पद्मम् अभूत् किल
तन्मध्ये चाभवद् ब्रह्मा वेदवेदाङ्गभूषणः ॥

57.15

स चोक्तस् तेन देवेन ब्राह्मणान् मुखतो ऽसृजत्
असृजत् क्षत्रियान् बाह्वोर् वैश्यांस् तु ऊरुतो ऽसृजत् ॥

57.16

शूद्रास् तु पादतः सृष्टास् तेषां चैवानुपूर्वशः
धर्मशास्त्रं च मर्यादां प्रोवाच कमलोद्भवः ॥

57.17

तद्वत् सर्वं प्रवक्ष्यामि शृणुत द्विजसत्तमाः
धन्यं यशस्यम् आयुष्यं स्वर्गमोक्षफलप्रदम् ॥

57.18

ब्राह्मण्यां ब्राह्मणेनैव चोत्पन्नो ब्राह्मणः स्मृतः
तस्य धर्मं प्रवक्ष्यामि तद्योग्यं देशम् एव च ॥

57.19

कृष्णसारो मृगो यत्र स्वभावात् तु प्रवर्तते
तस्मिन् देशे वसेर् धर्मं कुरु ब्राह्मणपुंगव ॥

57.20

षट्कर्माणि च यान्य् आहुर् ब्राह्मणस्य मनीषिणः
तैर् एव सततं यस् तु प्रवृत्तः सुखम् एधते ॥

57.21

अध्ययनाध्यापनं च यजनं याजनं तथा
दानं प्रतिग्रहश् चेति कर्मषट्कम् इहोच्यते ॥

57.22

अध्यापनं च त्रिविधं धर्मस्यार्थस्य कारणम्
शुश्रूषाकारणं चैव त्रिविधं परिकीर्तितम् ॥

57.23

योग्यान् अध्यापयेच् छिष्यान् याज्यान् अपि च याजयेत्
विधिना प्रतिगृह्णंश् च गृहधर्मपसिद्धये ॥

57.24

वेदम् एवाभ्यसेन् नित्यं शुभे देशे समाहितः
नित्यं नैमित्तकं काम्यं कर्म कुर्यात् प्रयत्नतः ॥

57.25

गुरुशुश्रूषणं चैव यथान्यायम् अतन्द्रितः
सायं प्रातर् उपासीत विधिनाग्निं द्विजोत्तमः ॥

57.26

कृतस्नानस् तु कुर्वीत वैश्वदेवं दिने दिने
अतिथिं चागतं भक्त्या पूजयेच् छक्तितो गृही ॥

57.27

अन्यान् अथागतान् दृष्ट्वा पूजयेद् अविरोधतः
स्वदारनिरतो नित्यं परदारविवर्जितः ॥

57.28

सत्यवादी जितक्रोधः स्वधर्मनिरतो भवेत्
स्वकर्मणि च संप्राप्ते प्रमादं नैव कारयेत् ॥

57.29

प्रियां हितां वदेद् वाचं परलोकाविरोधिनीम्
एवं धर्मः समुद्दिष्टो ब्राह्मणस्य समासतः
धर्मम् एवं तु यः कुर्यात् स याति ब्रह्मणः पदम् ॥

57.30

इत्य् एष धर्मः कथितोमया वै विप्रस्य विप्रा अखिलाघहारी
वदामि राजादिजनस्य धर्मं पृथक् पृथग् बोधत विप्रवर्याः ॥

मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc