भाषा

ENहिગુ
ग्रंथ पाठ

नरसिंहपुराण · अध्याय 52

52.1

इति श्रुत्वा प्रियावार्तां वायुपुत्रेण कीर्तिताम्
रामो गत्वा समुद्रान्तं वानरैः सह विस्तृतैः ॥

52.2

सागरस्य तटे रम्ये तालीवनविराजिते
सुग्रीवो जाम्बवांश् चाथ वानरैर् अतिहर्षितैः ॥

52.3

संख्यातीतैर् वृतः श्रीमान् नक्षत्रैर् इव चन्द्रमाः
अनुजेन च धीरेण वीक्ष्य तस्थौ सरित्पतिम् ॥

52.4

रावणेनाथ लङ्कायां स सूक्तौ भर्त्सितो ऽनुजः
विभीषणो महाबुद्धिः शास्त्रज्ञैर् मन्त्रिभिः सह ॥

52.5

नरसिंहे महादेवे श्रीधरे भक्तवत्सले
एवं रामे ऽचलां भक्तिम् आगत्य विनयात् तदा ॥

52.6

कृताञ्जलिर् उवाचेदं रामम् अक्लिष्टकारिणम्
राम राम महाबाहो देवदेव जनार्दन ॥

52.7

विभीषणो ऽस्मि मां रक्ष अहं ते शरणं गतः
इत्य् उक्त्वा निपपाताथ प्राञ्जली रामपादयोः ॥

52.8

विदितार्थो ऽथ रामस् तु तम् उत्थाप्य महामतिम्
समुद्रतोयैस् तं वीरम् अभिषिच्य विभीषणम् ॥

52.9

लङ्काराज्यं तवैवेति प्रोक्तः संभाष्य तस्थिवान्
ततो विभीषणेनोक्तं त्वं विष्णुर् भुवनेश्वरः ॥

52.10

अब्धिर् ददातु मार्गं ते देव तं याचयामहे
इत्युक्तो वानरैः सार्धं शिश्ये तत्र स राघवः ॥

52.11

सुप्ते रामे गतं तत्र त्रिरात्रम् अमितद्युतौ
ततः क्रुद्धो जगन्नाथो रामो राजीवलोचनः ॥

52.12

संशोषणम् अपां कर्तुम् अस्त्रम् आग्नेयम् आददे
तदोत्थाय वचः प्राहः लक्ष्मणश् च रुषान्वितम् ॥

52.13

क्रोधस् ते लयकर्ता हि एनं जहि महमते
भूतानां रक्षणार्थाय अवतारस् त्वया कृतः ॥

52.14

क्षन्तव्यं देवदेवेश इत्य् उक्त्वा धृतवान् शरम्
ततो रात्रित्रये याते क्रुद्धं रामम् अवेक्ष्य सः ॥

52.15

आग्नेयास्त्राच् च संत्रस्तः सागरो ऽभ्येत्य मूर्तिमान्
आह रामं महादेवं रक्ष माम् अपकारिणम् ॥

52.16

मार्गो दत्तो मया ते ऽद्य कुशलः सेतुकर्मणि
नलस् च कथितो वीरस् तेन कारय राघव ॥

52.17

यावदिष्टं तु विस्तीर्णं सेतुबन्धनम् उत्तमम्
ततो नलमुखैर् अन्यैर् वानरैर् अमितौजसैः ॥

52.18

बन्धयित्वा महासेतुं तेन गत्वा स राघवः
सुवेलाख्यं गिरिं प्राप्तः स्थितो ऽसौ वानरैर् वृतः ॥

52.19

हर्म्यस्थलस्थितं दुष्टं रावणं वीक्ष्य चाङ्गदः
रामादेशाद् अथोत्प्लुत्य दूतकर्मसु तत्परः ॥

52.20

प्रादात् पादप्रहरं तु रोषाद् रावणमूर्धनि
विस्मितं तैः सुरगणैर् वीक्षितः सो ऽतिवीर्यवान् ॥

52.21

साधयित्वा प्रतिज्ञां तां सुवेलं पुनर् आगतः
ततो वानरसेनाभिः संख्यातीताभिर् अच्युतः ॥

52.22

रुरोध रावणपुरीं लङ्कां तत्र प्रतापवान्
रामः समन्ताद् आलोक्य प्राह लक्ष्मणम् अन्तिके ॥

52.23

तीर्णो ऽर्णवः कवलितेव कपीश्वरस्य सेनाभटैर् झटिति राक्षसराजधानी
यत् पौरुषोचितम् इहाङ्कुरितं मया तद् दैवस्य वश्यम् अपरं धनुषो ऽथ वास्य ॥

52.24

यावल् ललाटशिखरं भ्रुकुटिर् न याति यावन् न कार्मुकशिखाम् अधिरोहति ज्या
तावन् निशाचरपतेः पटिम् आनमेतु त्रैलोक्यमूलविभुजेषु भुजेषु दर्पः ॥

52.26

पिता ते यद् वाली बलिनि दशकण्ठे कलितवान् न शक्तास् तद् वक्तुं वयम् अपि मुदा तेन पुलकः
स एव त्वं व्यावर्तयसि तनुजत्वेन पितृतां ततः किं वक्तव्यं तिलकयति सृष्टार्थपदवीम् ॥

52.28

किं प्राकारविहारतोरणवतीं लङ्काम् इहैवानये किं वा सैन्यम् अहं द्रुतं रघुपते तत्रैव संपादये
अत्यल्पं कुलपर्वतैर् अविरलैर् बध्नामि वा सागरं देवादेशय किं करोमि सकलं दोर्दण्डसाध्यं मम ॥

52.30

अज्ञानाद् अथवाधिपत्यरभसा वास्मत्परोक्षे हृता सीतेयं प्रविमुच्यताम् इति वचो गत्वा दशास्यं वद
नो चेल् लक्ष्मणमुक्तमार्गणगणच्छेदोच्छलच्छोणितच् छत्रच्छन्नदिगन्तम् अन्तकपुरीं पुत्रैर् वृतो यास्यसि ॥

52.32

संधौ वा विग्रहे वापि मयि दूते दशाननी
अक्षता वा क्षता वापि क्षितिपीठे लुठिष्यति ॥

52.33

तदा श्रीरामचन्द्रेण प्रशस्य प्रहितो ऽङ्गदः
उक्तिप्रत्युक्तिचातुर्यैः पराजित्यागतो रिपुम् ॥

52.34

राघवस्य बलं ज्ञात्वा चारैस् तदनुजस्य च
वानराणां च भीतो ऽपि निर्भीर् इव दशाननः ॥

52.35

लङ्कापुरस्य रक्षार्थम् आदिदेश स राक्षसान्
आदिश्य सर्वतो दिक्षु पुत्रान् आह दशाननः ॥

52.36

धूम्राक्षं धूम्रपानं च राक्षसा यात मे पुरीम्
पाशैर् बध्नीत तौ मर्त्यौ अमित्रान्तकवीर्यवान्
कुम्भकर्णो ऽपि मद्भ्राता तुर्यनादैः प्रबोधितः ॥

52.37

राक्षसाश् चैव संदिष्टा रावणेन महाबलाः
तस्याज्ञां शिरसादाय युयुधुर् वानरैः सह ॥

52.38

युध्यमाना यथाशक्त्या कोटिसंख्यास् तु राक्षसाः
वानरैर् निधनं प्राप्ताः पुनर् अन्यान् यथादिशत् ॥

52.39

पूर्वद्वारे दशग्रीवो राक्षसान् अमितौजसः
ते चापि युध्य हरिभिर् नीलाद्यैर् निधनं गताः ॥

52.40

अथ दक्षिणदिग्भागे रावणेन नियोजिताः
ते सर्वे वानरवरैर् दारितास् तु यमं गताः ॥

52.41

पश्चिमे ऽङ्गदमुख्यैश् च वानरैर् अतिगर्वितैः
राक्षसाः पर्वताकाराः प्रापिता यमसादनम् ॥

52.42

तदुत्तरे तु दिग्भागे रावणेन निवेशिताः
पेतुस् ते राक्षसाः क्रूरा मैन्दाद्यैर् वानरैर् हताः ॥

52.43

ततो वानरसंघास् तु लङ्काप्राकारम् उच्छ्रितम्
उत्प्लुत्याभ्यन्तरस्थांश् च राक्षसान् बलदर्पितान् ॥

52.44

हत्वा शीघ्रं पुनः प्राप्ताः स्वसेनाम् एव वानराः
एवं हतेषु सर्वेषु राक्षसेषु दशाननः ॥

52.45

रोदमानासु तत्स्त्रीषु निर्गतः क्रोधमूर्च्छितः
द्वारे स पश्चिमे वीरो राक्षसैर् बहुभिर् वृतः ॥

52.46

क्वासौ रामेति च वदन् धनुष्पाणिः प्रतापवान्
रथस्थः शरवर्षं च विसृजन् वानरेषु सः ॥

52.47

ततस् तद्बाणछिन्नाङ्गा वानरा दुद्रुवुस् तदा
पलायमानांस् तान् दृष्ट्वा वानरान् राघवस् तदा ॥

52.48

कस्मात् तु वानरा भग्नाः किम् एषां भयम् आगतम्
इति रामवचः श्रुत्वा प्राह वाक्यं विभीषणः ॥

52.49

शृणु राजन् महाबाहो रावणो निर्गतो ऽधुना
तद्बाणछिन्ना हरयः पलायन्ते महामते ॥

52.50

इत्युक्तो राघवस् तेन धनुर् उद्यम्य रोषितः
ज्याघोषतलघोषाभ्यां पूरयाम्_अस खं दिशः ॥

52.51

युयुधे रावणेनाथ रामः कमललोचनः
सुग्रीवो जाम्बवांश् चैव हनुमान् अङ्गदस् तथा ॥

52.52

विभीषणो वानराश् च लक्ष्मणश् चापि वीर्यवान्
उपेत्य रावणीं सेनां वर्षन्तीं सर्वसायकान् ॥

52.53

हस्त्यश्वरथसंयुक्तां ते निजघ्नुर् महाबलाः
रामरावणयोर् युद्धम् अभूत् तत्रापि भीषणम् ॥

52.54

रावणेन विसृष्टानि शस्त्रास्त्राणि च यानि वै
तानि छित्त्वाथ शस्त्रैस् तु राघवश् च महाबलः ॥

52.55

शरेण सारथिं हत्वा दशभिश् च महाहयान्
रावणस्य धनुस् छित्त्वा भल्लेनैकेन राघवः ॥

52.56

मुकुटं पञ्चदशभिश् छित्त्वा तन्मस्तकं पुनः
सुवर्णपुङ्खैर् दशभिः शरैर् विव्याध वीर्यवान् ॥

52.57

तदा दशास्यो व्यथितो रामबाणैर् भृशं तदा
विवेश मन्त्रिभिर् नीतः स्वपुरीं देवमर्दकः ॥

52.58

बोधितस् तूर्यनादैस् तु गजयूथक्रमैः शनैः
पुनः प्राकारम् उल्लङ्घ्य कुम्भकर्णो विनिर्गतः ॥

52.59

उत्तुङ्गस्थूलदेहो ऽस भीमदृष्टिर् महाबलः
वानरान् भक्षयन् दुष्टो विचचार क्षुधान्वितः ॥

52.60

तं दृष्ट्वोत्पत्य सुग्रीवः शूलेनोरस्य् अताडयत्
कर्णद्वयं कराभ्यां तु *च्छित्त्वा वक्रेण नासिकाम् ॥

52.61

सर्वतो युध्यमानांश् च रक्षोनाथान् रणे ऽधिकान्
राघवो घातयित्वा तु वानरेन्द्रैः समन्ततः ॥

52.62

चकर्त विशिखैस् तीक्ष्णैः कुम्भकर्णस्य कन्धराम्
विजित्येन्द्रजितं साक्षाद् गरुडेनागतेन सः ॥

52.63

रामो लक्ष्मणसंयुक्तः शुशुभे वानरैर् वृतः
व्यर्थं गते चेन्द्रजिति कुम्भकर्णे निपातिते ॥

52.64

लङ्कानाथस् ततः क्रुद्धः पुत्रं त्रिशिरसं पुनः
अतिकायमहाकायौ देवान्तकनरान्तकौ ॥

52.65

यूयं हत्वा तु पुत्राद्या तौ नरौ युधि निघ्नत
तान् नियुज्य दशग्रीवः पुत्रान् एवं पुनर् ब्रवीत् ॥

52.66

महोदरमहापाश्वौ सार्धम् एतैर् महाबलैः
संग्रामे ऽस्मिन् रिपून् हन्तुं युवां व्रजतम् उद्यतौ ॥

52.67

दृष्ट्वा तान् आगतांश् चैव युध्यमानान् रणे रिपून्
अनयल् लक्ष्मणः षड्भिः शरैस् तीक्ष्णैर् यमालयम् ॥

52.68

वानराणां समूहश् च शिष्टांश् च रजनीचरान्
सुग्रीवेण हतः कुम्भो राक्षसो बलदर्पितः ॥

52.69

निकुम्भो वायुपुत्रेण निहतो देवकण्टकः
विरूपाक्षं युध्यमानां गदया तु विभीषणः ॥

52.70

भीममैन्दौ च श्वपतिं वानरेन्द्रौ निजघ्नतुः
अङ्गदो जाम्बवांश् चाथ हरयो ऽन्यान् निशाचरान् ॥

52.71

युध्यमनस् तु समरे महालक्षं महाचलम्
जघान रामो ऽथ रणे बाणवृष्टिकरं नृप ॥

52.72

इन्द्रजिन् मन्त्रलब्धं तु रथम् आरुह्य वै पुनः
वानरेषु च सरेषु शरवर्षं ववर्ष सः ॥

52.73

रात्रौ तद्बाणभिन्नं तु बलं सर्वं च राघवम्
निश्चेष्टम् अखिलं दृष्ट्वा जाम्बवत् प्रेरितस् तदा ॥

52.74

वीर्याद् औषधम् आनीय हनूमान् मारुतात्मजः
भूम्यां शयानम् उत्थाप्य रामं हरिगणांस् तथा ॥

52.75

तैर् एव वानरैः सार्धं ज्वलितोल्काकरैर् निशि
दाहयाम्_अस लङ्कां तां हस्त्यश्वरथरक्षसाम् ॥

52.76

वर्षन्तं शरजालानि सर्वदिक्षु घनो यथा
स भ्रात्रा मेघनादं तं घातयाम्_अस राघवः ॥

52.77

घातितेष्व् अथ रक्षस्सु पुत्रमित्रादिबन्धुषु
कारितेष्व् अथ विघ्नेषु होमजप्यादिकर्मणाम् ॥

52.78

ततः क्रुद्धो दशग्रीवो लङ्काद्वारे विनिर्गतः
क्वासौ राम इति ब्रूते मानुषस् तापसाकृतिः ॥

52.79

योद्धा कपिबलीत्य् उच्चैर् व्याहरद् राक्षसाधिपः
वेगवद्भिर् विनीतैश् च अश्वैश् चित्ररथे स्थितः ॥

52.80

अथायान्तं तु तं दृष्ट्वा रामः प्राह दशाननम्
रामो ऽहम् अत्र दुष्टात्मन्न् एहि रावण मां प्रति ॥

52.81

इत्युक्ते लक्ष्मणः प्राह रामं राजीवलोचनम्
अनेन राक्षसा योत्स्ये त्वं तिष्ठेति महाबलः ॥

52.82

ततस् तु लक्ष्मणो गत्वा रुरोध शरवृष्टिभिः
विंशद्बाहुविसृष्टैस् तु शस्त्रास्त्रैर् लक्ष्मणं युधि ॥

52.83

रुरोध स दशग्रीवः तयोर् युद्धम् अभून् महत्
देवा व्योम्नि विमानस्था वीक्ष्य तस्थुर् महाहवम् ॥

52.84

ततो रावणशस्त्राणि *च्छित्त्वा स्वैस् तीक्ष्णसायकैः
लक्ष्मणः सारथिं हत्वा तस्याश्वान् अपि भल्लकैः ॥

52.85

रावणस्य धनुश् छित्त्वा ध्वजं च निशितैः शरैः
वक्षःस्थलं महावीर्यो विव्याध परवीरहा ॥

52.86

ततो रथान् निपत्याधः क्षिप्रं राक्षसनायकः
शक्तिं जग्राह कुपितो घण्टानादविनादिनीम् ॥

52.87

अग्निज्वालाज्वलज्जिह्वां महोल्कासदृशद्युतिम्
दृढमुष्ट्या तु निक्षिप्ता शक्तिः सा लक्ष्मणोरसि ॥

52.88

विदार्यान्तःप्रविष्टाथ देवास् त्रस्तास् ततो ऽम्बरे
लक्ष्मणं पतितं दृष्ट्वा रुदद्भिर् वानरेश्वरैः ॥

52.89

दुःखितः शीघ्रम् आगम्य तत्पार्श्वं प्राह राघवः
क्व गतो हनुमान् वीरो मित्रो मे पवनात्मजः ॥

52.90

यदि जीवति मे भ्राता कथंचित् पतितो भुवि
इत्युक्ते हनुमान् राजन् वीरो विख्यातपौरुषः ॥

52.91

बद्ध्वाञ्जलिं बभाषेदं देह्य् अनुज्ञां स्थितो ऽस्मि भोः
रामः प्राह महावीर विशल्यकरणी मम ॥

52.92

अनुजं विरुजं शीघ्रं कुरु मित्र महाबल
ततो वेगात् समुत्पत्य गत्वा द्रोणगिरिं कपिः ॥

52.93

बद्ध्वा च शिघ्रम् आनीय लक्ष्मणं नीरुजं क्षणात्
चकार देवदेवेशां पश्यतां राघवस्य च ॥

52.94

ततः क्रुद्धो जगन्नाथो रामः कमललोचनः
रावणस्य बलं शिष्टं हस्त्यश्वरथराक्षसम् ॥

52.95

हत्वा क्षणेन रामस् तु तच्छरीरं तु सायकैः
तीक्ष्णैर् जर्जरितं कृत्वा तस्थिवान् वानरैर् वृतः ॥

52.96

अस्तचेष्टो दशग्रीवः संज्ञां प्राप्य शनैः पुनः
उत्थाय रावणः क्रुद्धः सिंहनादं ननाद च ॥

52.97

तन्नादश्रवणैर् व्योम्नि वित्रस्तो देवतागणः
एतस्मिन्न् एव कले तु रामं प्राप्य महामुनिः ॥

52.98

रावणे बद्धवैरस् तु अगस्त्यो वै जयप्रदम्
आदित्यहृदयं नाम मन्त्रं प्रादाज् जयप्रदम् ॥

52.99

रामो ऽपि जप्त्वा तन्मन्त्रम् अगस्त्योक्तं जयप्रदम्
तद्दत्तं वैष्णवं चापम् अतुलं सद्गुणं दृढम् ॥

52.100

पूजयित्वा तद् आदाय सज्यं कृत्वा महाबलः
सौवर्णपुङ्खैस् तीक्ष्णैस् तु शरैर् मर्मविदारणैः ॥

52.101

युयुधे राक्षसेन्द्रेण रघुनाथः प्रतापवान्
तयोस् तु युध्यतोस् तत्र भीमशक्त्योर् महामते ॥

52.102

परस्परविसृष्टस् तु व्योम्नि संवर्द्धितो ऽनलः
समुत्थितो नृपश्रेष्ठ रामरावणयोर् युधि ॥

52.103

संगरे वर्तमाने तु रामो दाशरथिस् तदा
पदातिर् युयुधे वीरो रामो ऽनुक्तपराक्रमः ॥

52.104

सहस्राश्वयुतं दिव्यं रथं मातलिम् एव च
प्रेषयाम्_अस देवेन्द्रो महान्तं लोकविश्रुतम् ॥

52.105

रामस् तम् रथम् आरुह्य पूज्यमानः सुरोत्तमैः
मातुल्युक्तोपदेशस् तु रामचन्द्रः प्रतापवान् ॥

52.106

ब्रह्मदत्तवरं दुष्टं ब्रह्मास्त्रेण दशाननम्
जघान वैरिणं क्रूरं रामदेवः प्रतापवान् ॥

52.107

रामेण निहते तत्र रावणे सगणे रिपौ
इन्द्राद्या देवताः सर्वाः परस्परम् अथाब्रुवन् ॥

52.108

रामो भूत्वा हरिर् यस्माद् अस्माकं वैरिणं रणे
अन्यैर् अवध्यम् अप्य् एनं जघान युधि रावणम् ॥

52.109

तस्मात् तं रामनामानम् अनन्तम् अपराजितम्
पूजयामो ऽवतीर्यैनम् इत्य् उक्त्वा ते दिवौकसः ॥

52.110

नानाविमानैः श्रीमद्भिर् अवतीर्य महीतले
रुद्रेन्द्रवसुचन्द्राद्या विधातारं सनातनम् ॥

52.111

विष्णुं जिष्णुं जगन्मूर्तिं सानुजं रामम् अव्ययम्
तं पूजयित्वा विधिवत् परिवार्योपतस्थिरे ॥

52.112

रामो ऽयं दृश्यतां देवा लक्ष्मणो ऽयं व्यवस्थितः
सुग्रीवो रविपुत्रो ऽयं वायुपुत्रो ऽयम् आस्थितः ॥

52.113

अङ्गदाद्या इमे सर्वे इत्य् ऊचुस् ते दिवौकसः
गन्धामोदितदिक्पाला भ्रमरालिपदानुगा ॥

52.114

देवस्त्रीकरनिर्मुक्ता राममूर्धनि शोभिता
पपात पुष्पवृष्टिस् तु लक्ष्मणस्य च मूर्धनि ॥

52.114

ततो ब्रह्मा समागत्य हंसयानेन राघवम्
अमोघाख्येन स्तोत्रेण स्तुत्वा रामम् अवोचत ॥

52.116

त्वं विष्णुर् आदिर् भूतानाम् अनन्तो ज्ञानदृक् प्रभुः
त्वम् एव शाश्वतं ब्रह्म वेदान्ते विदितं परम् ॥

52.117

त्वया यद् अद्य निहतो रावणो लोकरावणः
तदाश्रु सर्वलोकानां देवानां कर्म साधितम् ॥

52.118

इत्युक्ते पद्मयोनौ तु शंकरः प्रितिम् आस्थितः
प्रणम्य रामं तस्मै तं भूयो दशरथं नृपम् ॥

52.119

दर्शयित्वा गतो देवः सीता सुद्धेति कीर्तयन्
ततो बाहुबलप्राप्तं विमानं पुष्पकं शुभम् ॥

52.120

पूताम् आरोप्य सीतां ताम् आदिष्टः पवनात्मजः
ततस् तु जानकीं देवीं विशोकां भूषणान्विताम् ॥

52.121

वन्दितां वानरेन्द्रैस् तु सार्धं भ्राता महाबलः
प्रतिष्ठाप्य महादेवं सेतुमध्ये स राघवः ॥

52.122

लब्धवान् परमं भक्तिं शिवे शंभोर् अनुग्रहात्
रामेश्वर इति ख्यातो महादेवः पिनाकधृक् ॥

52.123

तस्य दर्शनमात्रेण सर्वहत्यां व्यपोहति
रामस् तीर्णप्रतिज्ञो ऽसौ भरतासक्तमानसः ॥

52.124

ततो ऽयोध्यां पुरीं दिव्यां गत्वा तस्यां द्विजोत्तमैः
अभिषिक्तो वसिष्ठाद्यैर् भरतेन प्रसादितः
अकरोद् धर्मतो राज्यं चिरं रामः प्रतापवान् ॥

52.125

यज्ञादिकं कर्म निजं च कृत्वा पौरैस् तु रामो दिवम् आरुरोह
राजन् मया ते कथितं समासतो रामस्य भूम्यां चरितं महात्मनः
इदं सुभक्त्या पठतां च शृण्वतां ददाति रामः स्वपदं जगत्पतिः ॥

मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc