भाषा

ENहिગુ
ग्रंथ पाठ

नरसिंहपुराण · अध्याय 53

53.1

अतः परं प्रवक्ष्यामि प्रादुर्भावद्वयं शुभम्
तृतीयस्य तु रामस्य कृष्णस्य तु समासतः ॥

53.2

पुरा ह्य् असुरभारार्ता मही प्राह नृपोत्तम
आसीनं देवमध्ये तु ब्रह्माणं कमलासनम् ॥

53.3

देवासुरे हता ये तु विष्णुना दैत्यदानवाः
ते सर्वे क्षत्रिया जाताः कंसाद्याः कमलोद्भव ॥

53.4

तद्भूरिभारसंप्राप्ता सीदन्ती चतुरानन
मम तद्भारहानिः स्याद् यथा देव तथा कुरु ॥

53.5

तयैवम् उक्तो ब्रह्माथ देवैः सह जगाम ह
क्षीरोदस्योत्तरं कूलं विष्णुं भक्तिविबोधितम् ॥

53.6

तत्र गत्वा जगत्स्रष्टा देवैः सार्धं जनार्दनम्
नरसिंहं महादेवं गन्धपुष्पादिभिः क्रमात् ॥

53.7

अभ्यर्च्य भक्त्या गोविन्दं वाक्पुष्पेण च केशवम्
पूजयाम्_अस राजेन्द्र तेन तुष्टो जगत्पतिः ॥

53.8

वाक्पुष्पेण कथं ब्रह्मन् ब्रह्माप्य् अर्चितवान् हरिम्
तन् मे कथय विप्रेन्द्र ब्रह्मोक्तं स्तोत्रम् उत्तमम् ॥

53.9

शृणु राजन् प्रवक्ष्यामि स्तोत्रं ब्रह्ममुखेरितम्
सर्वपापहरं पुण्यं विष्णुतुष्टिकरं परम् ॥

53.10

तम् आराध्य जगन्नाथम् ऊर्ध्वबाहुः पितामहः
भूत्वैकाग्रमना राजन्न् इदं स्तोत्रम् उदीरयत् ॥

53.11

नमामि देवं नरनाथम् अच्युतं नारायणं लोकगुरुं सनातनम्
अनादिम् अव्यक्तम् अचिन्त्यम् अव्ययं वेदान्तवेद्यं पुरुषोत्तमं हरिम् ॥

53.12

आनन्दरूपं परमं परात् परं चिदात्मकं ज्ञानवतां परां गतिम्
सर्वात्मकं सर्वगतैकरूपं ध्येयस्वरूपं प्रणमामि माधवम् ॥

53.13

भक्तप्रियं कान्तम् अतीवं निर्मलं सुराधिपं सूरिजनैर् अभिष्टुतम्
चतुर्भुजं नीरजवर्णम् ईश्वरं रथाङ्गपाणिं प्रणतो ऽस्मि केशवम् ॥

53.14

गदासिशङ्खाब्जकरं श्रियः पतिं सदाशिवं शार्ङ्गधरं रविप्रभम्
पीताम्बरं हारविराजितोदरं नमामि विष्णुं सततं किरीटिनम् ॥

53.15

गण्डस्थलासक्तसुरक्तकुण्डलं सुदीपिताशेषदिशं निजत्विषा
गन्धर्वसिद्धैर् उपगीतम् ऋग्ध्वनिं जनार्दनं भूतपतिं नमामि तम् ॥

53.16

हत्वासुरान् पाति युगे युगे सुरान् स्वधर्मसंस्थान् भुवि संस्थितो हरिः
करोति सृष्टिं जगतः क्षयं यस् तं वासुदेवं प्रणतो ऽस्मि केशवम् ॥

53.17

यो मत्स्यरूपेण रसातलस्थितान् वेदान् समाहृत्य मम प्रदत्तवान्
निहत्य युद्धे मधुकैटभाव् उभौ तं वेदवेद्यं प्रणतो ऽस्म्य् अहं सदा ॥

53.18

देवासुरैः क्षीरसमुद्रमध्यतो न्यस्तो गिरिर् येन धृतः पुरा महान्
हिताय कौर्मं वपुर् आस्थितो यस् तं विष्णुम् आद्यं प्रणतो ऽस्मि भास्करम् ॥

53.19

हत्वा हिरण्याक्षम् अतीवं दर्पितं वराहरूपी भगवान् सनातनः
यो भूमिम् एतां सकलां समुद्धरंस् तं वेदमूर्तिं प्रणमामि सूकरम् ॥

53.20

कृत्वा नृसिंहं वपुर् आत्मनः परं हिताय लोकस्य सनातनो हरिः
जघान यस् तीक्ष्णनखैर् दितेः सुतं तं नारसिंहं पुरुषं नमामि ॥

53.21

यो वामनो ऽसौ भगवान् जनार्दनो बलिं बबन्ध त्रिभिर् ऊर्जितैः पदैः
जगत्त्रयं क्रम्य ददौ पुरंदरे तद् एवं आद्यं प्रणतो ऽस्मि वामनम् ॥

53.22

यः कार्तवीर्यं निजघान रोषात् त्रिःसप्तकृत्वः क्षितिपात्मजान् अपि
तं जामदग्न्यं क्षितिभारनाशकं नतो ऽस्मि विष्णुं पुरुषोत्तमं सदा ॥

53.23

सेतुं महान्तं जलधौ बबन्ध यः संप्राप्य लङ्कां सगणं दशाननम्
जघान भृत्यै जगतां सनातनं तं रामदेवं सततं नतो ऽस्मि ॥

53.24

यथा तु वाराहनृसिंहरूपैः कृतं त्वया देव हितं सुराणाम्
तथाद्य भूमेः कुरु भारहानिं प्रसीद विष्णो भगवन् नमस् ते ॥

53.25

इति स्तुतो जगन्नाथः श्रीधरः पद्मयोनिना
आविर् बभूव भगवान् शङ्खचक्रगदाधरः ॥

53.26

उवाच च हृषीकेशः पद्मयोनिं सुरान् अपि
स्तुत्यानयाहं संतुष्टः पितामह दिवौकसः ॥

53.27

पठतां पापनाशाय नृणां भक्तिमताम् अपि
यतो ऽस्मि प्रकटीभूतो दुर्लभो ऽपि हरिः सुराः ॥

53.28

देवैः सेन्द्रैः सरुद्रैस् तु पृथ्व्या च प्रार्थितो ह्य् अहम्
पद्मयोने वदाद्य त्वं श्रुत्वा तत् करवाणि ते ॥

53.29

इत्युक्ते विष्णुना प्राह ब्रह्मा लोकपितामहः
दैत्यानां गुरुभारेण पीडितेयं मही भृशम् ॥

53.30

लघ्वीम् इमां कारयितुं त्वयाहं पुरुषोत्तम
तेनागतः सुरैः सार्धं नान्यद् अस्तीति कारणम् ॥

53.31

इत्युक्तो भगवान् प्राह गच्छध्वम् अमराः स्वयम्
स्थानं निरामयाः सर्वे पद्मयोनिस् तु गच्छतु ॥

53.32

देवक्यां वसुदेवाच् च अवतीर्य महीतले
सितकृष्णे च मच्छक्ती कंसादीन् घातयिष्यतः ॥

53.33

इत्य् आकर्ण्य हरेर् वाक्यं हरिं नत्वा ययुः सुराः
गतेषु त्रिदिवौकःसु देवदेवो जनार्दनः ॥

53.34

शिष्टानां पालनार्थाय दुष्टनिग्रहणाय च
प्रेषयाम्_अस ते शक्ती सितकृष्णे स्वके नृप ॥

53.35

तयोः सिता च रोहिण्यां वसुदेवाद् बभूव ह
तद्वत् कृष्णा च देवक्यां वसुदेवाद् बभूव ह ॥

53.36

रौहिणेयो ऽथ पुण्यात्मा रामनामाश्रितो महान्
देवकीनन्दनः कृष्णस् तयोः कर्म शृणुष्व मे ॥

53.37

गोकुले बालकाले तु राक्षसी शकुनी निशि
रामेण निहता राजन् तथा कृष्णेन पूतना ॥

53.38

धेनुकः सगणस् ताल वने रामेण घातितः
शकटश् चार्जुनौ वृक्षौ तद्वत् कृष्णेन घातितौ ॥

53.39

प्रलम्बो निधनं नीतो दैत्यो रामेण मुष्टिना
कालियो दमितस् तोये कालिन्द्यां विषपन्नगः ॥

53.40

गोवर्धनश् च कृष्णेन धृतो वर्षति वासवे
गोकुलं रक्षता तेन अरिष्टश् च निपातितः ॥

53.41

केशी च निधनं नीतो दुष्टवाजी महासुरः
अक्रूरेण च तौ नीतौ मथुरायां महात्मना ॥

53.42

ददर्श तु निमग्नश् च रामकृष्णौ महामते
स्वं स्वं रूपं जले तस्य अक्रूरस्य विभूतिदम् ॥

53.43

अनयोर् भावम् अतुलं ज्ञात्वा दृष्ट्वा च यादवाः
बभूवुः प्रीतमनसो ह्य् अक्रूरश् च नृपात्मज ॥

53.44

दुर्वचश् च प्रजल्पन्तं कंसस्य रजकं ततः
कृष्णो जघान रामश् च तद्वस्त्रं ब्रह्मणे ददौ ॥

53.45

मालाकारेण भक्त्या तु सुमनोभिः प्रपूजितौ
ततस् तस्य वरान् दत्त्वा दुर्लभान् रामकेशवौ ॥

53.46

गच्छन्तौ राजमार्गे तु कुब्जया पूजितौ ततः
तत्कौटिल्यम् अपानीय विरूपं कार्मुकं ततः ॥

53.47

बभञ्ज कृष्णो बलवान् कंसस्याकृष्य तत्क्षणात्
रक्षपालान् जघानाथ रामस् तत्र खलान् बहून्
हत्वा कुवलयाख्यं च गजं रामजनार्दनौ ॥

53.48

प्रविश्य रङ्गं गजदन्तपाणी मदानुलिप्तौ वसुदेवपुत्रौ
युद्धे तु रामो निजघान मल्लं शैलोपमं मुष्टिकम् अव्ययात्मा ॥

53.49

कृष्णो ऽपि चाणूरम् अतिप्रसिद्धं बलेन वीर्येण च कंसमल्लकम्
युद्ध्वा तु तेनाथ चिरं जघान तं दैत्यमल्लं जनसंसदीशः ॥

53.50

मृतस्य मल्लस्य च मुष्टिकस्य मित्रं पुनः पुष्करकं स रामः
युद्धार्थम् उत्थाय कृतक्षणं तं मुष्टिप्रहारेण जघान वीरः ॥

53.51

कृष्णः पुनस् तान् सकलान् निहत्य निगृह्य कंसं विनिपात्य भूमौ
स्वयं च देहे विनिपत्य तस्य हत्वा तथोर्व्यां निचकर्ष कृष्णः ॥

53.52

हते तु कंसे हरिणातिक्रुद्धो भ्रातापि तस्यातिरुषेण चोत्थितः
सुनाभसंज्ञो बलवीर्ययुक्तो रामेण नीतो यमसादनं क्षणात् ॥

53.53

तौ वन्द्य मातापितरौ सुहृष्टौ जनैः समस्तैर् यदुभिः सुसंवृतौ
कृत्वा नृपं चोग्रसेनं यदूनां सभां सुधर्मां ददतुर् महेन्द्रीम् ॥

53.54

सर्वज्ञभावाव् अपि रामकृष्णौ संप्राप्य सांदीपनितो ऽस्त्रविद्याम्
गुरोः कृते पञ्चजनं निहत्य यमं च जित्वा गुरवे सुतं ददौ ॥

53.55

निहत्य रामो मगधेश्वरस्य बलं समस्तं बहुशः समागतम्
दिव्यास्त्रपूरैर् अमराव् इमाव् उभौ शुभां पुरीं चक्रतुः सागरान्ते ॥

53.56

तस्यां विधायाथ जनस्य वासं हत्वा शृगालं हरिर् अव्ययात्मा
दग्ध्वा महान्तं यवनं ह्य् उपायाद् वरं च दत्त्वा नृपतेर् जगाम ॥

53.57

रामो ऽथ संशान्तसमस्तविग्रहः संप्राप्य नन्दस्य पुनः स गोकुलम्
वृन्दावने गोपजनैः सुभाषितः सीरेण रामो यमुनां चकर्ष ॥

53.58

संप्राप्य भार्याम् अथ रेवतीं च रेमे तया द्वारवतीं स लाङ्गली
क्षात्रेण संप्राप्य तदा स रुक्मिणीं कृष्णो ऽपि रेमे पुरुषः पुराणः ॥

53.59

द्यूते कलिङ्गराजस्य दन्तान् उत्पाट्य लाङ्गली
जघानाष्टपदेनैव रुक्मिणं चानृतान्वितम् ॥

53.60

कृष्णः प्राग्ज्योतिषो दैत्यान् हयग्रीवादिकान् बहून्
हत्वा तु नरकं चापि जग्राह च महद् धनम् ॥

53.61

अदित्यै कुण्डले दत्त्वा जित्वेन्द्रं दैवतैः सह
गृहीत्वा पारिजातं तु ततो द्वारावतीं पुरीम् ॥

53.62

कुरुभिश् च धृतं साम्बं राम एको महाबलः
कुरूणां भयम् उत्पाद्य मोचयाम्_अस वीर्यवान् ॥

53.63

बाणबाहुवनं छिन्नं कृष्णेन युधि धीमता
रामेण तद्बलं नीतं क्षयं कोटिगुणं क्षणात् ॥

53.64

देवापकारी रामेण निहतो वानरो महान्
ततो ऽर्जुनस्य साहाय्यं कुर्वता कंसशत्रुणा ॥

53.65

सर्वभूतवधाद् राजन् भुवो भारो ऽवरोपितः
तीर्थयात्रा कृता तद्वद् रामेण जगतः कृते ॥

53.66

रामेण निहिता ये तु तान् न संख्यातुम् उत्सहे
एवं तौ रामकृष्णौ तु कृत्वा दुष्टवधं नृप ॥

53.67

अवतार्य भुवो भारं जग्मतुः स्वेच्छया दिवम्
इत्य् एतौ कथितौ दिव्यौ प्रादुर्भावौ मया तव
संक्षेपाद् रामकृष्णस्य काल्क्यं शृणु ममाधुना ॥

53.68

इत्थं हि शक्ती सितकृष्णरूपे हरेर् अनन्तस्य महाबलाढ्ये
कृत्वा तु भूमेर् नृप भारहानिं पुनश् च विष्णुं प्रतिजग्मतुस् ते ॥

मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc