भाषा

ENहिગુ
ग्रंथ पाठ

नरसिंहपुराण · अध्याय 51

51.1

स तु रावणनीतायाः सीतायाः परिमार्गणम्
इयेष पदम् अन्वेष्टुं चारणाचरिते पथि ॥

51.2

अञ्जलिं प्राङ्मुखं कृत्वा सगणायात्मयोनये
मनसावन्द्य रामं च लक्ष्मणं च महारथम् ॥

51.3

सागरं सरितश् चैव प्रणम्य शिरसा कपिः
ज्ञातींश् चैव परिष्वज्य कृत्वा चैव प्रदक्षिणाम् ॥

51.4

अरिष्टं गच्छ पन्थानं पुण्यवायुनिषेवितम्
पुनरागमनायेति वानरैर् अभिपूजितः ॥

51.5

अञ्जसा स्वं तथा वीर्यम् आविवेशाथ वीर्यवान्
मार्गम् आलोकयन् दूराद् ऊर्ध्वं प्रणिहितेक्षणः ॥

51.6

संपूर्णम् इव चात्मानं भावयित्वा महाबलः
उत्पपात गिरेः शृङ्गान् निष्पीड्य गिरिम् अम्बरम् ॥

51.7

पितुर् मार्गेण यातस्य वायुपुत्रस्य धीमतः
रामकार्यपरस्यास्य सागरेण प्रचोदितह् ॥

51.8

विश्रामार्थं समुत्तस्थौ मैनाको लवणोदधेः
तं निरीक्ष्य निपीड्याथ रयात् संभाष्य सादरम् ॥

51.9

उत्पतंश् च वने वीरः सिंहिकास्यं महाकपिः
आस्यप्रान्तं प्रविश्याथ वेगेनान्तर्विनिःसृतः ॥

51.10

निःसृत्य गतवाञ् शीघ्रं वायुपुत्रः प्रतापवान्
लङ्घयित्वा तु तं देशं सागरं पवनात्मजः ॥

51.11

त्रिकूटशिखरे रम्ये वृक्षाग्रे निपपात ह
तस्मिन् स पर्वतश्रेष्ठे दिनं नीत्वा दिनक्षये ॥

51.12

संध्याम् उपास्य हनुमान् रात्रौ लङ्काम् शनैर् निशि
लङ्काभिधां विनिर्जित्य देवतां प्रविवेश ह ॥

51.13

लङ्काम् अनेकरत्नाढ्यां बह्वाश्चर्यसमन्विताम्
राक्षसेषु प्रसुप्तेषु नीतिमान् पवनात्मजः ॥

51.14

रावणस्य ततो वेश्म प्रविवेशाथ ऋद्धिमत्
शयानं रावणं दृष्ट्वा तल्पे महति वानरः ॥

51.15

नासापुटैर् घोरकारैर् विशिद्भिर् वायुमोचकैः
तथैव दशभिर् वक्त्रैर् दंष्ट्रोपेतैस् तु संयुतम् ॥

51.16

स्त्रीसहस्रैस् तु दृष्ट्वा तं नानाभरणभूषितम्
तस्मिन् सीताम् अदृष्ट्वा तु रावणस्य गृहे शुभे ॥

51.17

तथा शयानां स्वगृहे राक्षसानां च नायकम्
दुःखितो वायुपुत्रस् तु संपातेर् वचनं स्मरन् ॥

51.18

अशोकवनिकां प्राप्तो नानापुष्पसमन्विताम्
जुष्टां मलयजातेन चन्दनेन सुगन्धिना ॥

51.19

प्रविश्य शिंशपावृक्षम् आश्रितां जनकात्मजाम्
रामपत्नीं समद्राक्षीद् राक्षसीभिर् सुरक्षिताम् ॥

51.20

अशोकवृक्षम् आरुह्य पुष्पितं मधुपल्लवम्
आसां चक्रे हरिस् तत्र सेयं सीतेति संस्मरन् ॥

51.21

सीतां निरीक्ष्य वृक्षाग्रे यावद् आस्ते ऽनिलात्मजः
स्त्रीभिः परिवृतस् तत्र रावणस् तावद् आगतः ॥

51.22

आगत्य सीतां प्राहाथ प्रिये मां भज कामुकम्
भुषिता भव वैदेहि त्यज रामागतं मनः ॥

51.23

इत्य् एवं भाषमाणं तम् अन्तर्धाय तृणं ततः
प्राह वाक्यं शनैः सीता कम्पमानाथ रावणम् ॥

51.24

गच्छ रावण दुष्ट त्वं परदारपरायण
अचिराद् रामबाणास् ते पिबन्तु रुधिरं रणे ॥

51.25

तथेत्युक्तो भर्त्सितश् च राक्षसीर् आह राक्षसः
द्विमासाभ्यन्तरे चैनं वशीकुरुत मानुषीम् ॥

51.26

यदि नेच्छति मां सीता ततः खादत मानुषीम्
इत्य् उक्त्वा गतवान् दुष्टो रावणः स्वं निकेतनम् ॥

51.27

ततो भयेन तां प्राहू राक्षस्यो जनकात्मजाम्
रावणं भज कल्याणि सधनं सुखिनी भव ॥

51.28

इत्युक्ता प्राह ताः सीता राघवो ऽलघुविक्रमः
निहत्य रावणं युद्धे सगणं मां नयिष्यति ॥

51.29

नाहम् अन्यस्य भार्या स्याम् ऋते रामं रघूत्तमम्
स ह्य् आगत्य दशग्रीवं हत्वा मां पालयिष्यति ॥

51.30

इत्य् आकर्ण्य वचस् तस्या राक्षस्यो ददृशुर् भयम्
हन्यतां हन्यताम् एषा भक्ष्यतां भक्ष्यताम् इयम् ॥

51.31

ततस् तास् त्रिजता प्राह स्वप्ने दृष्टम् अनिन्दिता
शृणुध्वं दुष्टराक्षस्यो रावणस्य विनाशनः ॥

51.32

रक्षोभिः सह सर्वैस् तु रावणस्य मृतिप्रदः
लक्ष्मणेन सह भ्रात्रा रामस्य विजयप्रदः ॥

51.33

स्वप्नः शुभो मया दृष्टः सीतायास् च पतिप्रदः
त्रिजतावाक्यम् आकर्ण्य सीतापार्श्वं विसृज्य ताः ॥

51.34

राक्षस्यस् ता ययुः सर्वाः सीताम् आहाञ्जनीसुतः
कीर्तयन् रामवृत्तान्तं सकलं पवनात्मजः ॥

51.35

तस्यां विश्वासम् आनीय दत्त्वा रामाङ्गुलीयकम्
संभाष्य लक्षणं सर्वं रामलक्ष्मणयोस् ततः ॥

51.36

महत्या सेनया युक्तः सुग्रीवः कपिनायकः
तेन सार्धम् इहागत्य रामस् तव पतिः प्रभुः ॥

51.37

लक्ष्मणश् च महावीरो देवरस् ते शुभानने
रावणं सगणं हत्वा त्वाम् इतो ऽदाय गच्छति ॥

51.38

इत्युक्ते सा तु विश्वस्ता वायुपुत्रम् अथाब्रवीत्
कथम् अत्रागतो वीर त्वम् उत्तीर्य महोदधिम् ॥

51.39

इत्य् आकर्ण्य वचस् तस्याः पुनस् ताम् आह वानरः
गोष्पदवन् मयोत्तीर्णः समुद्रो ऽयं वरानने ॥

51.40

जपतो राम रामेति सागरो गोष्पदायते
दुःखमग्नासि वैदेहि स्थिरा भव शुभानने ॥

51.41

क्षिप्रं पश्य हि रामं त्वं सत्यम् एतद् ब्रवीमि ते
इत्य् आश्वास्य सतीं सीतां दुःखितां जनकात्मजाम् ॥

51.42

ततश् चूडामणि प्राप्य श्रुत्वा काकपराभवम्
नत्वा तां प्रस्थितो वीरो गन्तुं कृतमतिः कपिः ॥

51.43

ततो विमृश्य तद् भुङ्क्त्वा कृईडावनम् अशेषतः
तोरणस्थो ननादोच्चै रामो जयति वीर्यवान् ॥

51.44

अनेकान् राक्षसान् हत्वा सेनाः सेनापतींश् च सः
तदा त्वक्षकुमारं तु हत्वा रावणसैनिकम् ॥

51.45

साश्वं ससारथिं हत्वा इन्द्रजित् तं गृहीतवान्
रावणस्य पुरः स्थित्वा रामं संकीर्त्य लक्ष्मणम् ॥

51.46

सुग्रीवं च महावीर्यं दग्ध्वा लङ्काम् अशेषतः
निर्भर्त्स्य रावणं दुष्टं पुनः संभाष्य जानकीम् ॥

51.47

भूयः सागरम् उत्तीर्य ज्ञातीन् आसाद्य वीर्यवान्
सीतादर्शनम् आवेद्य हनूमांश् चैव पूजितः ॥

51.48

वानरैः सार्धम् आगत्य हनुमान् मधुवनं महत्
निहत्य रक्षपालांस् तु पाययित्वा च तन्मधु ॥

51.49

सर्वे दधिमुखं पात्य हर्षितो हरिभिः सह
खम् उत्पत्य च संप्राप्य रामलक्ष्मणपादयोः ॥

51.50

नत्वा तु हनुमांस् तत्र सुग्रीवं च विशेषतः
आदितः सर्वम् आवेद्य समुद्रतरणादिकम् ॥

51.51

कथयाम्_अस रामाय सीता दृष्टा मयेति वै
अशोकवनिकामध्ये सीता देवी सुदुःखिता ॥

51.52

राक्षसीभिः परिवृता त्वां स्मरन्ती च सर्वदा
अश्रुपूर्णमुखी दीना तव पत्नी वरानना ॥

51.53

शीलवृत्तसमायुक्ता तत्रापि जनकात्मजा
सर्वत्रान्वेषमाणेन मया दृष्टा पतिव्रता ॥

51.54

मया संभाषिता सीता विश्वस्ता रघुनन्दन
अलंकारश् च सुमणिस् तया ते प्रेषितः प्रभो ॥

51.55

इत्य् उक्त्वा दत्तवांस् तस्मै चूडामणिम् अनुत्तमम्
इदं च वचनं तुभ्यं पत्न्या संप्रेषितं शृणु ॥

51.56

चित्रकूटे मदङ्के तु सुप्ते त्वयि महाव्रत
वायसाभिभवं राजंस् तत् किल स्मर्तुम् अर्हसि ॥

51.57

अल्पापराधे राजेन्द्र त्वया बलिभुजि प्रभो
यत् कृतं तन् न कर्तुं च शक्यं देवासुरैर् अपि ॥

51.58

ब्रह्मास्त्रं तु तदोत्सृष्टं रावणं किं न जेष्यसि
इत्य् एवमादि बहुशः प्रोक्त्वा सीता रुरोद ह
एवं तु दुःखिता सीता तां मोक्तुं यत्नम् आचर ॥

51.59

इत्य् एवम् उक्ते पवनआत्मजेन सीतावचस् तच् छुभभूषणं च
श्रुत्वा च दृष्ट्वा च रुरोद रामः कपिं समालिङ्ग्य शनैः प्रतस्थे ॥

मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc