नरसिंहपुराण · अध्याय 50
वालिना कृतवैरो ऽथ दुर्गवर्ती हरीश्वरः
सुग्रीवो दृष्टवान् दूराद् दृष्ट्वाह पवनात्मजम् ॥
कस्येमौ सुधनुःपाणी चीरवल्कलधारिणौ
पश्यन्तौ सरसीं दिव्यां पद्मोत्पलसमावृताम् ॥
नानारूपधराव् एतौ तापसं वेषम् आस्थितौ
वालिदूताव् इह प्राप्ताव् इति निश्चित्य सूर्यजः ॥
उत्पपात भयत्रस्तः ऋष्यमूकाद् वनान्तरम्
वानरैः सहितः सर्वैर् अगस्त्याश्रमम् उत्तमम् ॥
तत्र स्थित्वा स सुग्रीवः प्राह वायुसुतं पुनः
हनूमन् पृच्छ शीघ्रं त्वं गच्छ तापसवेषधृक् ॥
कौ हि कस्य सुतौ जातौ किमर्थं तत्र संस्थितौ
ज्ञात्वा सत्यं मम ब्रूहि वायुपुत्र महामते ॥
इत्युक्तो हनुमान् गत्वा पम्पातटम् अनुत्तमम्
बिक्षुरूपी स तं प्राह रामं भ्रात्रा समन्वितम् ॥
को भवान् इह संप्राप्तस् तथ्यं ब्रूहि महामते
अरण्ये निर्जने घोरे कुतस् त्वं किं प्रयोजनम् ॥
एवं वदन्तं तं प्राह लक्ष्मणो भ्रातुर् आज्ञया
प्रवक्ष्यामि निबोध त्वं रामवृत्तान्तम् आदितः ॥
राजा दशरथो नाम बभूव भुवि विश्रुतः
तस्य पुत्रो महाबुद्धे रामो ज्येष्ठो ममाग्रजः ॥
अस्याभिषेक आरब्धः कैकेय्या तु निवारितः
पितुर् आज्ञाम् अयं कुर्वन् रामो भ्राता ममाग्रजः ॥
मया सह विनिष्क्रम्य सीतया सह भार्यया
प्रविष्टो दण्डकारण्यं नानामुनिसमाकुलम् ॥
जनस्थाने निवसतो रामस्यास्य महात्मनः
भार्या सीता तत्र वने केनापि पाप्मना हृता ॥
सीताम् अन्वेषयन् वीरो रामः कमललोचनः
इहायातस् त्वया दृष्ट इति वृत्तान्तम् ईरितम् ॥
श्रुत्वा ततो वचस् तस्य लक्ष्मणस्य महात्मनः
अव्यञ्जितात्मा विश्वासाद् *धनूमान् मारुतात्मजः ॥
त्वं मे स्वामी इति वदन् रामं रघुपतिं तदा
आश्वास्यानीय सुग्रीवं तयोः सख्यम् अकारयत् ॥
शिरस्य् आरोप्य पादाब्जं रामस्य विदितात्मनः
सुग्रीवो वानरेन्द्रस् तु उवाच मधुराक्षरम् ॥
अद्यप्रभृति राजेन्द्र त्वं मे स्वामी न संशयः
अहं तु तव भृत्यश् च वानरैः सहितः प्रभो ॥
त्वच्छत्रुर् मम शत्रुः स्याद् अद्यप्रभृति राघव
मित्रं ते मम सन्मित्रं त्वद्दुःखं तन् ममापि च ॥
त्वत्प्रीतिर् एव मत्प्रीतिर् इत्य् उक्त्वा पुनर् आह तम्
वाली नाम मम ज्येष्ठो महाबलपराक्रमः ॥
भार्यापहारी दुष्टात्मा मदनासक्तमानसः
त्वाम् ऋते पुरुषव्याघ्र नास्ति हन्ताद्य वालिनम् ॥
युगपत् सप्ततालांस् तु तरून् यो वै वधिष्यति
स तं वधिष्यतीत्य् उक्तं पुराणज्ञैर् नृपात्मज ॥
तत्प्रियार्थं हि रामो ऽपि श्रीमांश् छित्त्वा महातरून्
अर्धाकृष्टेन बाणेन युगपद् रघुनन्दनः ॥
विद्ध्वा महातरून् रामः सुग्रीवं प्राह पार्थिवम्
वालिना गच्छ युध्यस्व कृतचिह्नो रवेः सुत ॥
इत्युक्तः कृतचिह्नो ऽयं युद्धं चक्रे ऽथ वालिना
रामो ऽपि तत्र गत्वाथ शरेणैकेन वालिनम् ॥
विव्याध वीर्यवान् वाली पपात च ममार च
वित्रस्तं वालिपुत्रं तु अङ्गदं विनयान्वितम् ॥
रणशौण्डं यौवराज्ये नियुक्त्वा राघवस् तदा
तां च तारां तथा दत्त्वा रामश् च रविसूनवे ॥
सुग्रीवं प्राह धर्मात्मा रामः कमललोचनः
राज्यम् अन्वेषय स्वं त्वं कपीनां पुनर् आव्रज ॥
त्वं सीतान्वेषणे यत्नं कुरु शीघ्रं हरीश्वर
इत्युक्तः प्राह सुग्रीवो रामं लक्ष्मणसंयुतम् ॥
प्रावृट्कालो महान् प्राप्तः सांप्रतं रघुनन्दन
वानराणां गतिर् नास्ति वने वर्षति वासवे ॥
गते तस्मिंस् तु राजेन्द्र प्राप्ते शरदि निर्मले
चारान् संप्रेषयिष्यामि वानरान् दिक्षु राघव ॥
इत्य् उक्त्वा रामचन्द्रं स तं प्रणम्य कपीश्वरः
पम्पापुरं प्रविश्याथ रेमे तारासमन्वितः ॥
रामो ऽपि विधिवद् भ्रात्रा शैलसानौ महावने
निवासं कृतवान् शैले नीलकण्ठे महामतिः ॥
प्रावृट्काले गते कृच्छ्रात् प्राप्ते शरदि राघवः
सीतावियोगाद् व्यथितः सौमित्रिं प्राह लक्ष्मणम् ॥
उल्लङ्घितस् तु समयः सुग्रीवेण ततो रुषा
लक्ष्मणं प्राह काकुत्स्थो भ्रातरं भ्रातृवत्सलः ॥
गच्छ लक्ष्मण दुष्टो ऽसौ नागतः कपिनायकः
गते तु वर्षाकाले ऽहं आगमिष्यामि ते ऽन्तिकम् ॥
अनेकैर् वानरैः सार्धम् इत्य् उक्त्वासौ तदा गतः
तत्र गच्छ त्वरायुक्तो यत्रास्ते कपिनायकः ॥
तं दुष्टं अग्रतः कृत्वा हरिसेनासमन्वितम्
रमन्तं तारया सार्धं शीघ्रम् आनय मां प्रति ॥
नात्रागच्छति सुग्रीवो यद्य् असौ प्राप्तभूतिकः
तदा त्वयैवं वक्तव्यः सुग्रीवो ऽनृतभाषकः ॥
वालिहन्ता शरो दुष्ट करे मे ऽद्यापि तिष्ठति
स्मृत्वैतद् आचर कपे रामवाक्यं हितं तव ॥
इत्युक्तस् तु तथेत्य् उक्त्वा रामं नत्वा च लक्ष्मणः
पम्पापुरं जगामाथ सुग्रीवो यत्र तिष्ठति
दृष्ट्वा स तत्र सुग्रीवं कपिराजं बभाष वै ॥
ताराभोगविषक्तस् त्वं रामकार्यपराङ्मुखः
किं त्वया विस्मृतं सर्वं रामाग्रे समयं कृतम् ॥
सीताम् अन्विष्य दास्यामि यत्र क्वापीति दुर्मते
हत्वा तु वालिनं राज्यं येन दत्तं पुरा तव ॥
त्वाम् ऋते को ऽवमन्येत कपीन्द्र पापचेतस
प्रतिश्रुत्य च रामस्य भार्याहीनस्य भूपते ॥
साहाय्यं ते करोमीति देवाग्निजलसंनिधौ
ये ये च शत्रवो राजंस् ते ते च मम शत्रवः ॥
मित्राणि यानि ते देव तानि मित्राणि मे सदा
सीताम् अन्वेषितुं राजन् वानरैर् बहुभिर् वृतः ॥
सत्यं यास्यामि ते पार्श्वम् इत्य् उक्त्वा को ऽन्यथाकरोत्
त्वाम् ऋते पापिनं दुष्टं रामदेवस्य संनिधौ ॥
कारयित्वा तु तेनैवं स्वकार्यं दुष्टवानर
ऋषीणां सत्यवद् वाक्यं त्वयि दृष्टं मयाधुना ॥
सर्वस्य हि कृतार्थस्य मतिर् अन्या प्रवर्तते
वत्सः क्षीरक्षयं दृष्ट्वा परित्यजति मातरम् ॥
जनवृत्तविदां लोके सर्वज्ञानां महात्मनाम्
न तं पश्यामि लोके ऽस्मिन् कृतं प्रतिकरोति यः ॥
शास्त्रेषु निष्कृतिर् दृष्टा महापातकिनाम् अपि
कृतघ्नस्य कपे दुष्ट न दृष्टा निष्कृतिः पुरा ॥
कृतघ्नता न कार्या ते त्वत्कृतं समयं स्मर
एह्य् एह्य् आगच्छ शरणं ककुत्स्थं हितपालकम् ॥
यदि नायासि च कपे रामवाक्यम् इदं शृणु
नयिषे मृत्युसदनं सुग्रीवं वालिनं यथा ॥
स शरो विद्यते ऽस्माकं येन वाली हतः कपिः
लक्ष्मणेनैवम् उक्तो ऽसौ सुग्रीवः कपिनायकः ॥
निर्गत्य तु नमश् चक्रे लक्ष्मणं मन्त्रिणोदितः
उवाच च महात्मानं लक्ष्मणं वानराधिपः ॥
अज्ञानकृतपापानाम् अस्माकं क्षन्तुम् अर्हसि
समयः कृतो मया राज्ञा रामेणामिततेजसा ॥
यस् तदानीं महाभाग तम् अद्यापि न लङ्घये
यास्यामि निखिलैर् अद्य कपिभिर् नृपनन्दन ॥
त्वया सह महावीर रामपार्श्वं न संशयः
मां दृष्ट्वा तत्र काकुत्स्थो यद् वक्ष्यति च मां प्रति ॥
तत् सर्वं शिरसा गृह्य करिष्यामि न संशयः
सन्ति मे हरयः शूराः सीतान्वेषणकर्मणि ॥
तान्य् अहं प्रेषयिष्यामि दिक्षु सर्वासु पार्थिव
इत्युक्तः कपिराजेन सुग्रीवेण स लक्ष्मणः ॥
एहि शीघ्रं गमिष्यामो रामपार्श्वम् इतो ऽधुना
सेना चाहूयतां वीर ऋक्षाणां हरिणाम् अपि ॥
यां दृष्ट्वा प्रीतिम् अबह्येति राघवस् ते महामते
इत्युक्तो लक्ष्मणेनाथ सुग्रीवः स तु वीर्यवान् ॥
पार्श्वस्थं युवराजानम् अङ्गदं संज्ञयाब्रवीत्
सो ऽपि निर्गत्य सेनानीम् आह सेनापतिं तदा ॥
तेनाहूताः समागत्य ऋक्षवानरकोटयः
गुहास्थाश् च गिरिस्थाश् च वृक्षस्थाश् चैव वानराः ॥
तैः सार्धं पर्वताकारैर् वानरैर् भीमविक्रमैः
सुग्रीवः शीघ्रम् आगत्य ववन्दे राघवं तदा ॥
लक्ष्मणो ऽपि नमस्कृत्य रामं भ्रातरम् अब्रवीत्
प्रसादं कुरु सुग्रीवे विनीते चाधुना नृप ॥
इत्युक्तो राघवस् तेन भ्राता सुग्रीवम् अब्रवीत्
आगच्छात्र महावीर सुग्रीव कुशलं तव ॥
श्रुत्वेत्थं रामवचनं प्रसन्नं च नराधिपम्
शिरस्य् अञ्जलिम् आधाय सुग्रीवो रामम् अब्रवीत् ॥
तदा मे कुशलं राजन् सीतादेवी तव प्रभो
अन्विष्य तु यदा दत्ता मया भवति नान्यथा ॥
इत्युक्ते वचने तेन हनूमान् मारुतात्मजः
नत्वा रामं बभाषैनं सुग्रीवं कपिनायकम् ॥
शृणु सुग्रीव मे वाक्यं राजायं दुःखितो भृशम्
सीतावियोगेन च सदा नाश्नाति च फलादिकम् ॥
अस्य दुःखेन सततं लक्ष्मणो ऽयं सुदुःखितः
एतयोर् अत्र यावस्था तां श्रुत्वा भरतो ऽनुजः ॥
दुःखी भवति तद्दुःखाद् दुःखं प्राप्नोति तज्जनः
यत एवम् अतो राजन् सीतान्वेषनम् आचर ॥
इत्युक्ते वचने तत्र वायुपुत्रेण धीमता
जाम्बवान् अतितेजस्वी नत्वा रामं पुरःस्थितः ॥
स प्राह कपिराजं तं नीतिमान् नीतिमद् वचः
यद् उक्तं वायुपुत्रेण तत् तथेत्य् अवगच्छ भोः ॥
यत्र क्वापि स्थिता सीता रामभार्या यशस्विनी
पतिव्रता महाभागा वैदेही जनकात्मजा ॥
अद्यापि वृत्तसंपन्ना इति मे मनसि स्थितम्
न हि कल्याणचित्तायाः सीतायाः केनचिद् भुवि ॥
पराभवो ऽस्ति सुग्रीव प्रेषयाद्यैव वानरान्
इत्युक्तस् तेन सुग्रीवः प्रीतात्मा कपिनायकः ॥
पश्चिमायां दिशि तदा प्रेषयाम् अस तान् कपीन्
अन्वेष्टुं रामभार्यां तां महाबलपराक्रमः ॥
उत्तरस्यां दिशि तदा नियुतान् वानरान् असौ
प्रेषयाम्_अस धर्मात्मा सीतान्वेषणकर्मणि ॥
पूर्वास्यां दिशि कपींश् च कपिराजः प्रतापवान्
प्रेषयाम्_अस रामस्य सुभारान्वेषणाय वै ॥
इति तान् प्रेषयाम्_अस वानरान् वानराधिपः
सुग्रीवो वालिपुत्रं तम् अङ्गदं प्राह बुद्धिमान् ॥
त्वं गच्छ दक्षिणं देशं सीतान्वेषणकर्मणि
जाम्बवांश् च हनूमांश् च मैन्दो द्विविद एव च ॥
नीलाद्याश् चैव हरयो महाबलपराक्रमाः
अनुयास्यन्ति गच्छन्तं त्वाम् अद्य मम शासनात् ॥
अचिराद् एव यूयं तां दृष्ट्वा सीतां यशस्विनीम्
स्थानतो रूपतश् चैव शीलतश् च विशेषतः ॥
केन नीता च कुत्रास्ते ज्ञात्वात्रागच्छ पुत्रक
इत्युक्तः कपिराजेन पितृव्येण महात्मना ॥
अङ्गदस् तूर्णम् उत्थाय तस्याज्ञां शिरसा दधे
इत्युक्ते दूरतः स्थाप्य वानरान् अथ जाम्बवान् ॥
रामं च लक्ष्मणं चैव सुग्रीवं मारुतात्मजम्
एकतः स्थाप्य तान् आह नीतिमान् नीतिमद् वचः ॥
श्रूयतां वचनं मे ऽद्य सीतान्वेषणकर्मणि
श्रुत्वा च तद् गृहाण त्वं रोचते यन् नृपात्मज ॥
रावणेन जनस्थानान् नीयमाना तपस्विनी
जटायुषा तु सा दृष्ट्वा शक्त्या युद्धं प्रकुर्वता ॥
भूषणानि च दृष्टानि तया क्षिप्तानि तेन वै
तान्य् अस्माभिः प्रदृष्टानि सुग्रीवायार्पितानि च ॥
जटायुवाक्याद् राजेन्द्र सत्यम् इत्य् अवधारय
एतस्मात् कारणात् सीता नीता तेनैव रक्षसा ॥
रावणेन महाबाहो लङ्कायां वर्तते तु सा
त्वां स्मरन्ती तु तत्रस्था त्वद्दुःखेन सुदुःखिता ॥
रक्षन्ती यत्नतो वृत्तं तत्रापि जनकात्मजा
त्वद्ध्यानेनैव स्वान् प्राणान् धारयन्ती शुभानना ॥
स्थिता प्रायेण ते देवी सीता दुःखपरायणा
हितम् एव च ते राजन्न् उदधेर् लङ्घने क्षमम् ॥
वायुपुत्रं हनूमन्तं त्वम् अत्रादेष्टुम् अर्हसि
त्वं चाप्य् अर्हसि सुग्रीव प्रेषितुं मारुतात्मजम् ॥
तम् ऋते सागरं गन्तुं वानराणां न विद्यते
बलं कस्यापि वा वीर इति मे मनसि स्थितम् ॥
क्रियतां मद्वचः क्षिप्रं हितं पथ्यं च नः सदा
उक्ते जाम्बवतैवं तु नीतिस्वल्पाक्षरान्विते ॥
वाक्ये वानरराजो ऽसौ शीघ्रम् उत्थाय चासनात्
वायुपुत्रसमीपं तु तं गत्वा वाक्यम् अब्रवीत् ॥
शृणु मद्वचनं वीर हनुमन् मारुतात्मज
अयम् इक्ष्वाकुतिलको राजा रामः प्रतापवान् ॥
पितुर् आदेशम् आदाय भ्रातृभार्यासमन्वितः
प्रविष्टो दण्डकारण्यं साक्षाद् धर्मपरायणः ॥
सर्वात्मा सर्वलोकेशो विष्णुर् मानुषरूपवान्
अस्य भार्या हृता तेन दुष्टेनापि दुरात्मना ॥
तद्वियोगजदुःखार्तो विचिन्वंस् तां वने वने
त्वया दृष्टो नृपः पूर्वम् अयं वीरः प्रतापवान् ॥
एतेन सह संगम्य समयं चापि कारितम्
अनेन निहतः शत्रुर् मम वालिर् महाबलः ॥
अस्य प्रसादेन कपे राज्यं प्राप्तं मयाधुना
मया च तत् पर्तिज्ञातम् अस्य साहाय्यकर्मणि ॥
तत् सत्यं कर्तुम् इच्छामि त्वद्बलान् मारुतात्मज
उत्तीर्य सागरं वीर दृष्ट्वा सीताम् अनिन्दिताम् ॥
भूयस् तर्तुं बलं नास्ति वानराणां त्वया विना
अतस् त्वम् एव जानासि स्वामिकार्यं महामते ॥
बलवान् नीतिमांश् चैव दक्षस् त्वं दौत्यकर्मणि
तेनैवम् उक्तो हनुमान् सुग्रीवेण महात्मना ॥
स्वामिनो ऽर्थं न किं कुर्याम् ईदृशं किं नु भाषसे
इत्युक्तो वायुपुत्रेण रामस् तं पुरतः स्थितम् ॥
प्राह वाक्यं महाबाहुर् बाष्पसंपूर्णलोचनः
सीतां स्मृत्वा सुदुःखार्तः कालयुक्तम् अमित्रजित् ॥
त्वयि भारं समारोप्य समुद्रतरणादिकम्
सुग्रीवः स्थाप्यते ह्य् अत्र मया सार्धं महामते ॥
हनूमंस् तत्र गच्छ त्वं मत्प्रीत्यै कृतनिश्चयः
ज्ञातीनां च तथा प्रीत्यै सुग्रीवस्य विशेषतः ॥
प्रायेण रक्षसा नीता भार्या मे जनकात्मजा
तत्र गच्छ महावीर यत्र सीता व्यवस्थिता ॥
यदि पृच्छति सादृश्यं मदाकारम् अशेषतः
अतो निरीक्ष्य मां भूयो लक्ष्मणं च ममानुजम् ॥
ज्ञात्वा सर्वाङ्गगं लक्ष्म सकलं चावयोर् इह
नान्यथा विश्वसेत् सीता इति मे मनसि स्थितम् ॥
इत्युक्तो रामदेवेन प्रभञ्जनसुतो बली
उत्थाय तत्पुरः स्थित्वा कृताञ्जलिर् उवाच तम् ॥
जानामि लक्षणं सर्वं युवयोस् तु विशेषतः
गच्छामि कपिभिः सार्धं त्वं शोकं मा कुरुष्व वै ॥
अन्यच् च देह्य् अभिज्ञानं विश्वासो येन मे भवेत्
सीतायास् तव देव्यास् तु राजन् राजीवलोचन ॥
इत्युक्तो वायुपुत्रेण रामः कमललोचनः
अङ्गुलीयकम् उन्मुच्य दत्तवान् रामचिह्नितम् ॥
तद् गृहीत्वा तदा सो ऽपि हनूमान् मारुतात्मजः
रामं प्रदक्षिणीकृत्य लक्ष्मणं च कपीश्वरम् ॥
नत्वा ततो जगामाशु हनूमान् अञ्जनीसुतः
सुग्रीवो ऽपि च ताञ् छ्रुत्वा वानरान् गन्तुम् उद्यतान् ॥
आज्ञेयान् आज्ञापयति वानरान् बलदर्पितान्
शृण्वन्तु वानराः सर्वे शासनं मम भाषितम् ॥
विलम्बनं न कर्तव्यं युष्माभिः पर्वतादिषु
द्रुतं गत्वा तु तां वीक्ष्य आगन्तव्यम् अनिन्दिताम् ॥
रामपत्नीं महाभागां स्थास्ये ऽहं रामसंनिधौ
कर्तनं वा करिष्यामि अन्यथा कऋननासयोः ॥
एवं तान् प्रेषयित्वा तु आज्ञापूर्वं कपीश्वरः
अथ ते वानरा याताः पश्चिमादिषु दिक्षु वै ॥
ते सानुषु समस्तेषु गिरीणाम् अपि मूर्धसु
नदीतीरेषु सर्वेषु मुनीनाम् आश्रमेषु च ॥
कन्दरेषु च सर्वेषु वनेषूपवनेषु च
वृक्षेषु वृक्षगुल्मेषु गुहासु च शिलासु च ॥
सह्यपर्वतपार्श्वेषु विन्ध्यसागरपार्श्वयोः
हिमवत्य् अपि शैले च तथा किंपुरुषादिषु ॥
मनुदेशेषु सर्वेषु सप्तपातालकेषु च
मध्यदेशेषु सर्वेषु कश्मीरेषु महाबलाः ॥
पूर्वदेशेषु सर्वेषु कामरूपेषु कोशले
तीर्थस्थानेषु सर्वेषु सप्तकोङ्कणकेषु च ॥
यत्र तत्रैव ते सीताम् अदृष्ट्वा पुनर् आगताः
आगत्य ते नमस्कृत्य रामलक्ष्मणपादयोः ॥
सुग्रीवं च विशेषेण नास्माभिः कमलेक्षणा
दृष्टा सीता महाभागेत्य् उक्त्वा तांस् तत्र तस्थिरे ॥
ततस् तं दुःखितं प्राह रामदेवं कपीश्वरः
सीता दक्षिणदिग्भागे स्थिता द्रष्टुं वने नृप ॥
शक्या वानरसिंहेन वायुपुत्रेण धीमता
दृष्ट्वा सीताम् इहायाति हनूमान् नात्र संशयः ॥
स्थिरो भव महाबाहो राम सत्यम् इदं वचः
लक्ष्मणो ऽप्य् आह शकुनं तत्र वाक्यम् इदं तदा ॥
सर्वथा दृष्टसीतस् तु हनुमान् आगमिष्यति
इत्य् आश्वास्य स्थितौ तत्र रामं सुग्रीवलक्ष्मणौ ॥
अथाङ्गदं पुरस्कृत्य ये गता वानरोत्तमाः
यत्नाद् अन्वेषनार्थाय रामपत्नीं यशस्विनीम् ॥
अदृष्ट्वा श्रमम् आपन्नाः कृच्छ्रभूतास् तदा वने
भक्षणेन विहीनास् ते क्षुधया च प्रपीडिताः ॥
भ्रमद्भिर् गहने ऽरण्ये क्वापि दृष्टा च सुप्रभा
गुहानिवासिनी सिद्धा ऋसिपत्नी ह्य् अनिन्दिता ॥
सा च तान् आगतान् दृष्ट्वा स्वाश्रमं प्रति वानरान्
आगताः कस्य यूयं तु कुतः किं नु प्रयोजनम् ॥
इत्युक्ते जाम्बवान् आह तां सिद्धां सुमहामतिः
सुग्रीवस्य वयं भृत्या आगता ह्य् अत्र शोभने ॥
रामभार्यार्थम् अनघे सीतान्वेषणकर्मणि
कांदिग्भूता निराहारा अदृष्ट्वा जनकात्मजाम् ॥
इत्युक्ते जाम्बवत्य् अत्र पुनस् तान् आह सा शुभा
जानामि रामं सीतां च लक्ष्मणं च कपीश्वरम् ॥
भुञ्जीध्वम् अत्र मे दत्तम् आहारं च कपीश्वराः
रामकार्यागतास् त्व् अत्र यूयं रामसमा मम ॥
इत्य् उक्त्वा चामृतं तेषां योगाद् दत्त्वा तपस्विनी
भोजयित्वा यथाकामं भूयस् तान् आह तापसी ॥
सीतास्थानं तु जानाति संपातिर् नाम पक्षिराट्
आस्थितो वै वने सो ऽपि महेन्द्रे पर्वते द्विजः ॥
मार्गेणानेन हरयस् तत्र यूयं गमिष्यथ
स वक्ति सीतां संपातिर् दूरदर्शी तु यः खगः ॥
तेनादिष्टं तु पन्थानं पुनर् आसाद्य गच्छथ
अवश्यं जानकीं सीतां द्रक्ष्यते पवनात्मजः ॥
तयैवमुक्ताः कपयः परां प्रीतिम् उपागताः
हृष्टास् तेजनम् आपन्नास् तां प्रणम्य प्रतस्थिरे ॥
महेन्द्राद्रिं गता वीरा वानरास् तद्दिदृक्षया
तत्र सम्पातिम् आसीनं दृष्टवन्तः कपीश्वराः ॥
तान् उवाचाथ सम्पातिर् वानरान् आगतान् द्विजः
के यूयम् इति संप्राप्ताः कस्य वा ब्रूत मा चिरम् ॥
इत्युक्ते वानरा ऊचुर् यथावृत्तम् अनुक्रमात्
रामदूता वयं सर्वे सीतान्वेषणकर्मणि ॥
प्रेषिताः कपिराजेन सुग्रीवेण महात्मना
त्वां द्रष्टुम् इह संप्राप्ताः सिद्धाया वचनाद् द्विज ॥
सीतास्थानं महाभाग त्वं नो वद महामते
इत्युक्तो वानरैः श्येनो वीक्षां चक्रे सुदक्षिणाम् ॥
सीतां दृष्ट्वा स लङ्कायाम् अशोकाख्ये महावने
स्थितेति कथितं तेन जटायुस् तु मृतस् तव ॥
भ्रातेति चोचुः स स्नात्वा दत्त्वा तस्योदकाञ्जलिम्
योगम् आस्थाय स्वं देहं विससर्ज महामतिः ॥
ततस् तं वानरा दग्ध्वा दत्त्वा तस्योदकाञ्जलिम्
गत्वा महेन्द्रशृङ्गं ते तम् आरुह्य क्षणं स्थिताः ॥
सागरं वीक्ष्य ते सर्वे परस्परम् अथाब्रुवन्
रावणेनैव भार्या सा नीता रामस्य निश्चितम् ॥
सम्पातिवचनाद् अद्य संज्ञातं सकलं हि तत्
वानराणां तु कश् चात्र उत्तीर्य लवणोदधिम् ॥
लङ्कां प्रविष्य दृष्ट्वा तां रामपत्नीं यशस्विनीम्
पुनस् चोदधितरणे शक्तिं ब्रूत हि शोभनाः ॥
इत्युक्तो जाम्बव्वन् प्राह सर्वे शक्तास् तु वानराः
सागरोत्तरणे किंतु कार्यम् अन्यस्य संभवेत् ॥
तत्र दक्षो ऽयम् एवात्र हनूमान् इति मे मतिः
कालक्षेपो न कर्तव्यो मासार्धम् अधिकं गतम् ॥
यद्य् अदृष्ट्वा तु गच्छामो वैदेहीं वानरर्षभाः
कर्णनासादि नः स्वाङ्गं निकृन्तति कपीश्वरः ॥
तस्मात् प्रार्थ्यः स चास्माभिर् वायुपुत्रस् तु मे मतिः
इत्युक्तास् ते तथेत्य् ऊचुर् वानरा वृद्धवानरम् ॥
ततस् ते प्रार्थयाम्_असुर् वानराः पवनात्मजम्
हनूमन्तं महाप्राज्ञं दक्षं कार्येषु चाधिकम् ॥
गच्छ त्वं रामभृत्यस् त्वं रावणस्य भयाय च
रक्षस्व वानरकुलम् अस्माकम् अञ्जनीसुत
इत्युक्तस् तांस् तथेत्य् आह वानरान् पवनात्मजः ॥
रामप्रयुक्तश् च पुनः स्वभर्तृणा पुनर् महेन्द्रं कपिभिश् च नोदितः
गन्तुं प्रचक्रे मतिम् अञ्जनीसुतः समुद्रम् उत्तीर्य निशाचरालयम् ॥
मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0