भाषा

ENहिગુ
ग्रंथ पाठ

नरसिंहपुराण · अध्याय 49

49.1

गते ऽथ भरते तस्मिन् रामः कमललोचनः
लक्ष्मणेन सह भ्रात्रा भार्यया सीतया सह ॥

49.2

शाकमूलफलाहारो विचचार महावने
कदाचिल् लक्ष्मणम् ऋते रामदेवः प्रतापवान् ॥

49.3

चित्रकूटवनोद्देशे वैदेह्युत्सङ्गम् आश्रितः
सुष्वाप स मुहूर्तं तु ततः काको दुरात्मवान् ॥

49.4

सीताभिमुखम् अभ्येत्य विददार स्तनान्तरम्
विदार्य वृक्षम् आरुह्य स्थितो ऽसौ वायसाधमः ॥

49.5

ततः प्रबुद्धो रामो ऽसौ दृष्ट्वा रक्तं स्तनान्तरे
शोकाविष्टां तु सीतां ताम् उवाच कमलेक्षणः ॥

49.6

वद स्तनान्तरे भद्रे तव रक्तस्य कारणम्
इत्युक्ता सा च तं प्राह भर्तारं विनयान्विता ॥

49.7

पश्य राजेन्द्र वृक्षाग्रे वायसं दुष्टचेष्टितम्
अनेनैव कृतं कर्म सुप्ते त्वयि महामते ॥

49.8

रामो ऽपि दृष्टवान् काकं तस्मिन् क्रोधम् अथाकरोत्
इषीकास्त्रं समाधय ब्रह्मास्त्रेणाभिमन्त्रितम् ॥

49.9

काकम् उद्दिश्य चिक्षेप सो ऽप्य् अधावद् भयान्वितः
स त्व् इन्द्रस्य सुतो राजन्न् इन्द्रलोकं विवेश ह ॥

49.10

रामास्त्रं प्रज्वलद् दीप्तं तस्यानु प्रविवेश वै
विदितार्थश् च देवेन्द्रो देवैः सह समन्वितः ॥

49.11

निष्क्रामयच् च तं दुष्टं राघवस्यापकारिणम्
ततो ऽसौ सर्वदेवैस् तु देवलोकाद् बहिः कृतः ॥

49.12

पुनः सो ऽप्य् अपतद् रामं राजानं शरणं गतः
पाहि राम महाबाहो अज्ञानाद् अपकारिणम् ॥

49.13

इति ब्रुवन्तं तं प्राह रामः कमललोचनः
अमोघं च ममैवास्त्रम् अङ्गम् एकं प्रयच्छ वै ॥

49.14

ततो जीवसि दुष्ट त्वम् अपकारो महान् कृतः
इत्युक्तो ऽसौ स्वकं नेत्रम् एकम् अस्त्राय दत्तवान् ॥

49.15

अस्त्रं तन्नेत्रम् एकं तु भस्मीकृत्य समाययौ
ततः प्रभृति काकानां सर्वेषाम् एकनेत्रता ॥

49.16

चक्षुषैकेन पश्यन्ति हेतुना तेन पार्थिव
उषित्वा तत्र सुचिरं चित्रकूटे स राघवः ॥

49.17

जगाम दण्डकारण्यं नानामुनिनिषेवितम्
सभ्रातृकः सभार्यश् च तापसं वेषम् आस्थितः ॥

49.18

धनुःपर्वसुपाणिश्च सेषुधिश् च महाबलः
ततो ददर्श तत्रस्थान् अम्बुभक्षान् महामुनीन् ॥

49.19

अश्मकुट्टान् अनेकांश् च दन्तोलूखलिनस् तथा
पञ्चाग्निमध्यगान् अन्यान् अन्यान् उग्रतपश् चरान् ॥

49.20

तान् दृष्ट्वा प्रणिपत्योच्चै रामस् तैश् चाभिनन्दितः
ततो ऽखिलं वनं दृष्ट्वा रामः साक्षाज् जनार्दनः ॥

49.21

भ्रातृभार्यासहायश् च संप्रतस्थे महामतिः
दर्शयित्वा तु सीतायै वनं कुसुमितं शुभम् ॥

49.22

नानाश्चर्यसमायुक्तं शनैर् गच्छन् स दृष्टवान्
कृष्णाङ्गं रक्तनेत्रं तु स्थूलशैलसमानकम् ॥

49.23

शुभ्रदंष्ट्रं महाबाहुं संध्याघनशिरोरुहम्
मेघस्वनं सापराधं शरं संधाय राघवः ॥

49.24

विव्याध राक्षसं क्रोधाल् लक्ष्मणेन सह प्रभुः
अन्यैर् अवध्यं हत्वा तं गिरिगर्ते महातनुम् ॥

49.25

शिलाभिश् छाद्य गतवाञ् शरभङ्गाश्रमं ततः
तं नत्वा तत्र विश्रम्य तत्कथातुष्टमानसः ॥

49.26

तीक्ष्णाश्रमम् उपागम्य दृष्टवांस् तं महामुनिम्
तेनादिष्टेन मार्गेण गत्वागस्त्यं ददर्श ह ॥

49.27

खड्गं तु विमलं तस्माद् अवाप रघुनन्दनः
इषुधि चाक्षयशरं चापं चैव तु वैष्णवम् ॥

49.28

ततो ऽगस्त्याश्रमाद् रामो भ्रातृभार्यासमन्वितः
गोदावर्याः समीपे तु पञ्चवट्याम् उवास सः ॥

49.29

ततो जटायुर् अभ्येत्य रामं कमललोचनम्
नत्वा स्वकुलम् आख्याय स्थितवान् गृध्रनायकः ॥

49.30

रामो ऽपि तत्र तं दृष्ट्वा आत्मवृत्तं विशेषतः
कथयित्वा तु तं प्राह सीतां रक्ष महामते ॥

49.31

इत्युक्तो ऽसौ जटायुस् तु रामम् आलिङ्ग्य सादरम्
कार्यार्थं तु गते रामे भ्रात्रा सह वनान्तरम् ॥

49.32

अहं रक्ष्यामि ते भार्यां स्थीयताम् अत्र शोभन
इत्य् उक्त्वा गतवान् रामं गृध्रराजः स्वम् आश्रमम् ॥

49.33

समीपे दक्षिणे भागे नानापक्षिनिषेविते
वसन्तं राघवं तत्र सीतया सह सुन्दरम् ॥

49.34

मन्मथाकारसदृशं कथयन्तं महाकथाः
कृत्वा मायामयं रूपं लावण्यगुणसंयुतम् ॥

49.35

मदनाक्रान्तहृदया कदाचिद् रावणानुजा
गायन्ती सुस्वरं गीतं शनैर् आगत्य राक्षसी ॥

49.36

ददर्श रामम् आसीनं कानने सीतया सह
अथ शूर्पणखा घोरा मायारूपधरा शुभा ॥

49.37

निःशङ्का दुष्टचित्ता सा राघवं प्रत्यभाषत
भज मां कान्त कल्याणीं भजन्तीं कामिनीम् इह ॥

49.38

भजमानां त्यजेद् यस् तु तस्य दोषो महान् भवेत्
इत्युक्तः शूर्पणखया रामस् ताम् आह पार्थिवः ॥

49.39

कलत्रवान् अहं बाले कनीयांसं भजस्व मे
इति श्रुत्वा ततः प्राह राक्षसी कामरूपिणी ॥

49.40

अतीव निपुणा चाहं रतिकर्मणि राघव
त्यक्त्वैनाम् अनभिज्ञां त्वं सीतां मां भज शोभनम् ॥

49.41

इत्य् आकर्ण्य वचः प्राह रामस् तां धर्मतत्परः
परस्त्रियं न गच्छे ऽहं त्वम् इतो गच्छ लक्ष्मणम् ॥

49.42

तस्य नात्र वने भार्या त्वाम् असौ संग्रहीष्यति
इत्युक्ता सा पुनः प्राह रामं राजीवलोचनम् ॥

49.43

यथा स्याल् लक्ष्मणो भर्ता तथा त्वं देहि पत्रकम्
तथैवम् उक्त्वा मतिमान् रामः कमललोचनः ॥

49.44

छिन्ध्य् अस्या नासिकाम् इति मोक्तव्या नात्र संशयः
इति रामो महाराजो लिख्य पत्रं प्रदत्तवान् ॥

49.45

सा गृहीत्वा तु तत्पत्रं गत्वा तस्मान् मुदान्विता
गत्वा दत्तवती तद्वल् लक्ष्मणाय महात्मने ॥

49.46

तां दृष्ट्वा लक्ष्मणः प्राह राक्षसीं कामरूपिणीम्
न लङ्घ्यं रघववचो मया तिष्ठात्मकश्मले ॥

49.47

तां प्रगृह्य ततः खड्गम् उद्यम्य विमलं सुधीः
तेन तत्कर्णनासां तु विच्छेद तिलकाण्डवत् ॥

49.48

छिन्ननासा ततः सा तु रुरोद भृशदुःखिता
हा दशास्य मम भ्रातः सर्वदेवविमर्दक ॥

49.49

हा कष्टं कुम्भकर्णाद्या -याता मे चापदा परा
हा हा कष्टं गुणनिधे विभीषण महामते ॥

49.50

इत्य् एवम् आर्ता रुदती सा गत्वा खरदूषणौ
त्रिशिरसं च सा दृष्ट्वा निवेद्यात्मपराभवम् ॥

49.51

रामम् आह जनस्थाने भ्रात्रा सह महाबलम्
ज्ञात्वा ते राघवं क्रुद्धाः प्रेषयाम्_असुर् ऊर्जितान् ॥

49.52

चतुर्दशसहस्राणि राक्षसानां बलीयसाम्
अग्रे निजग्मुस् तेनैव रक्षसां नायकास् त्रयः ॥

49.53

रावणेन नियुक्तास् ते पुरैव तु महाबलाः
महाबलपरीवारा जनस्थानम् उपागताः ॥

49.54

क्रोधेन महताविष्टा दृष्ट्वा तां छिन्ननासिकाम्
रुदतीम् अश्रुदिग्धाङ्गीं भगिनीं रावणस्य तु ॥

49.55

रामो ऽपि तद्बलं दृष्ट्वा राक्षसानां बलीयसाम्
संस्थाप्य लक्ष्मणं तत्र सीताया रक्षणं प्रति ॥

49.56

गत्वा तु प्रहितैस् तत्र राक्षसैर् बलदर्पितैः
चतुर्दशसहस्रं तु राक्षसानां महाबलम् ॥

49.57

क्षणेन निहतं तेन शरैर् अग्निशिखोपमैः
खरश् च निहतस् तेन दूषणश् च महाबलः ॥

49.58

त्रिशिराश् च महारोषाद् रणे रामेण पातितः
हत्वा तान् राक्षसान् दुष्टान् रामश् चाश्रमम् आविशत् ॥

49.59

शूर्पणखा च रुदती रावणान्तिकम् आगता
छिन्ननासां च तां दृष्ट्वा रावणो भगिनीं तदा ॥

49.60

मारीचं प्राह दुर्बुद्धिः सीताहरणकर्मणि
पुष्पकेण विमानेन गत्वाहं त्वं च मातुल ॥

49.61

जनस्थानसमीपे तु स्थित्वा तत्र ममाज्ञया
सौवर्णमृगरूपं त्वम् आस्थाय तु शनैः शनैः ॥

49.62

गच्छ त्वं तत्र कार्यार्थं यत्र सीता व्यवस्थिता
दृष्ट्वा सा मृगपोतं त्वां सौवर्णं त्वयि मातुल ॥

49.63

स्पृहां करिष्यते रामं प्रेषयिष्यति बन्धने
तद्वाक्यात् तत्र गछन्तं धावस्व गहने वने ॥

49.64

लक्ष्मणस्यापकर्षार्थं वक्तव्यं वागुदीरणम्
ततः पुष्पकम् आरुह्य मायारूपेण चाप्य् अहम् ॥

49.65

तां सीताम् अहम् आनेष्ये तस्याम् आसक्तमानसः
त्वम् अपि स्वेच्छया पश्चाद् आगमिष्यसि शोभन ॥

49.66

इत्युक्ते रावणेनाथ मारीचो वाक्यम् अब्रवीत्
त्वम् एव गच्छ पापिष्ठ नाहं गच्छामि तत्र वै ॥

49.67

पुरैवानेन रामेण व्यथितो ऽहं मुनेर् मखे
इत्युक्तवति मारीचे रावणः क्रोधमूर्च्छितः ॥

49.68

मारीचं हन्तुम् आरेभे मारीचो ऽप्य् आह रावणम्
तव हस्तवधाद् वीर रामेण मरणं वरम् ॥

49.69

अहं गमिष्यामि तत्र यत्र त्वं नेतुम् इच्छसि
अथ पुष्पकम् आरुह्य जनस्थानम् उपागतः ॥

49.70

मारीचस् तत्र सौवर्णं मृगम् आस्थाय चाग्रतः
जगाम यत्र सा सीता वर्तते जनकात्मजा ॥

49.71

सौवर्णं मृगपोतं तु दृष्ट्वा सीता यशस्विनी
भाविकर्मवशाद् रामम् उवाच पतिम् आत्मनः ॥

49.72

गृहीत्वा देहि सौवर्णं मृगपोतं नृपात्मज
अयोधायां तु मद्गेहे क्रीडनार्थम् इदं मम ॥

49.73

तयैवम् उक्तो रामस् तु लक्ष्मणं स्थाप्य तत्र वै
रक्षणार्थं तु सीताया गतो ऽसौ मृगपृष्ठतह् ॥

49.74

रामेण चानुयातो ऽसौ अभ्यधावद् वने मृगः
ततः सरेण विव्याध रामस् तं मृगपोतकम् ॥

49.75

हा लक्ष्मणेति चोक्त्वासौ निपपात महीतले
मारीचः पर्वताकारस् तेन नष्टो बभूव सः ॥

49.76

आकर्ण्य रुदतः शब्दं सीता लक्ष्मणम् अब्रवीत्
गच्छ लक्ष्मण पुत्र त्वं यत्रायं शब्द उत्थितः ॥

49.77

भ्रातुर् ज्येष्ठस्य तत् त्वं वै रुदतः श्रूयते ध्वनिः
प्रायो रामस्य संदेहं लक्षये ऽहम् महात्मनः ॥

49.78

इत्युक्तः स तथा प्राह लक्ष्मणस् ताम् अनिन्दिताम्
न हि रामस्य संदेहो न भयं विद्यते क्वचित् ॥

49.79

इति ब्रुवानं तं सीता भाविकर्मबलाद् भृतम्
लक्ष्मणं प्राह वैदेही विरुद्धवचनं तदा ॥

49.80

मृते रामे तु माम् इच्छन्न् अतस् त्वं न गमिष्यसि
इत्युक्तः स विनीतात्मा असहन्न् अप्रियं वचः ॥

49.81

जगाम रामम् अन्वेष्टुं तदा पार्थिवनन्दनः
संन्यासवेषम् आस्थाय रावणो ऽपि दुरात्मवान् ॥

49.82

स सीतापार्श्वम् आसाद्य वचनं चेदम् उक्तवान्
आगतो भरतः श्रीमान् अयोध्याया महामतिः ॥

49.83

रामेण सह संभाष्य स्थितवांस् तत्र कानने
मां च प्रेषितवान् रामो विमानम् इदम् आरुह ॥

49.84

अयोध्यां याति रामस् तु भरतेन प्रसादितः
मृगबालं तु वैदेहि क्रीडार्थं ते गृहीतवान् ॥

49.85

क्लेशितासि महारण्ये बहुकालं त्वम् ईदृशम्
संप्राप्तराज्यस् ते भर्ता रामः स रुचिराननः ॥

49.86

लक्ष्मणश् च विनीतात्मा विमानम् इदम् आरुह
इत्युक्ता सा तथा गत्वा नीता तेन महात्मना ॥

49.87

आरुरोह विमानं तु छद्मना प्रेरिता सती
तज् जगाम ततः शीघ्रं विमानं दक्षिणां दिशम् ॥

49.88

ततः सीता सुदुःखार्ता विललाप सुदुःखिता
विमाने खे ऽपि रोदन्त्याश् चक्रे स्पर्शं न राक्षसः ॥

49.89

रावणः स्वेन रूपेण बभूवाथ महातनुः
दशग्रीवं महाकायं दृष्ट्वा सीता सुदुःखिता ॥

49.90

हा राम वञ्चिताद्याहं केनापि च्छद्मरूपिणा
रक्षसा घोररूपेण त्रायस्वेति भयार्दिता ॥

49.91

हे लक्ष्मण महाबाहो मां हि दुष्टेन रक्षसा
द्रुतम् आगत्य रक्षस्व नीयमानाम् अथाकुलाम् ॥

49.92

एवं प्रलपमानायाः सीतायास् तन् महत् स्वनम्
आकर्ण्य गृध्रराजस् तु जटायुस् तत्र चागतः ॥

49.93

तिष्ठ रावण दुष्टात्मन् मुञ्च मुञ्चात्र मैथिलीम्
इत्य् उक्त्वा युयुधे तेन जटायुस् तत्र वीर्यवान् ॥

49.94

पक्षाभ्यां ताडयाम्_अस जटायुस् तस्य वक्षसि
ताडयन्तं तु तं मत्वा बलवान् इति रावणः ॥

49.95

तुण्डचञ्चुप्रहारैस् तु भृशं तेन प्रपीडितः
तत उत्थाप्य वेगेन चन्द्रहासम् असिं महत् ॥

49.96

जघान तेन दुष्टात्मा जटायुं धर्मचारिणम्
निपपात महीपृष्ठे जटायुः क्षीणचेतनः ॥

49.97

उवाच च दशग्रीवं दुष्टात्मन् न त्वया हतः
चन्द्रहासस्य वीर्येण हतो ऽहं राक्षसाधम ॥

49.98

निरायुधं को हनेन् मूढ सायुधस् त्वाम् ऋते जनः
सीतापहरणं विद्धि मृत्युस् ते दुष्ट राक्षस ॥

49.99

दुष्ट रावण रामस् त्वां वधिष्यति न संशयः
रुदती दुःखशोकार्ता जटायुं प्राह मैथिली ॥

49.100

मत्कृते मरणम् यस्मात् त्वया प्राप्तं द्विजोत्तम
तस्माद् रामप्रसादेन विष्णुलोकम् अवाप्स्यसि ॥

49.101

यावद् रामेण सङ्गस् ते भविष्यति महाद्विज
तावत् तिष्ठन्तु ते प्राणा इत्य् उक्त्वा तु खगोत्तमम् ॥

49.102

ततस् तान्य् अर्पितान्य् अङ्गाद् भूषणानि विमुच्य सा
शीघ्रं निबध्य वस्त्रेण रामहस्तं गमिष्यथ ॥

49.103

इत्य् उक्त्वा पातयाम्_अस भूमौ सीता सुदुःखिता
एवं हृत्वा स सीतां तु जटायुं पात्य भूतले ॥

49.104

पुष्पकेण गतः शीघ्रं लङ्कां दुष्टनिशाचरः
अशोकवनिकामध्ये स्थापयित्वा स मैथिलीम् ॥

49.105

इमाम् अत्रैव रक्षध्वं राक्षस्यो विकृताननाः
इत्य् आदिश्य गृहं यातो रावणो राक्षसेश्वरः ॥

49.106

लङ्कानिवासिनश् चोचुर् एकान्तं च परस्परम्
अस्याः पुर्या विनाशार्थं स्थापितेयं दुरात्मना ॥

49.107

राक्षसीभिर् विरूपाभी रक्ष्यमाणा समन्ततः
सीता च दुःखिता तत्र स्मरन्ती रामम् एव सा ॥

49.108

उवास सा सुदुःखार्ता दुःखिता रुदती भृशम्
यथा ज्ञानखले देवी हंसयाना सरस्वती ॥

49.109

सुग्रीवभृत्या हरयश् चतुरश् च यदृच्छया
वस्त्रबद्धं तयोत्सृष्टं गृहीत्वा भूषणं द्रुतम् ॥

49.110

स्वभर्त्रे विनिवेद्योचुः सुग्रीवाय महात्मने
अरण्ये ऽभून् महायुद्धं जटायो रावणस्य च ॥

49.111

अथ रामश् च तं हत्वा मारीचं माययागतम्
निवृत्तो लक्षणं दृष्ट्वा तेन गत्वा स्वम् आश्रमम् ॥

49.112

सीताम् अपश्यन् दुःखार्तः प्ररुरोद स राघवः
लक्ष्मणश् च महातेजा रुरोद भृशदुःखितः ॥

49.113

बहुप्रकारम् अस्वस्थं रुदन्तं राघवं तदा
भूतले पतितं धीमान् उत्थाप्याश्वास्य लक्ष्मणः ॥

49.114

उवाच वचनं प्राप्तं तदा यत् तच् छृणुष्व मे
अतिवेलं महाराज न शोकं कर्तुम् अर्हसि ॥

49.115

उत्तिष्ठोत्तिष्ठ शीघ्रं त्वं सीतां मृगयितुं प्रभो
इत्य् एवं वदता तेन लक्ष्मणेन महात्मना ॥

49.116

उत्थापितो नरपतिर् दुःखितो दुःखितेन तु
भ्रात्रा सह जगामाथ सीतां मृगयितुं वनम् ॥

49.117

वनानि सर्वाणि विशोध्य राघवो गिरीन् समस्तान् गिरिसानुगोचरान्
तथा मुनीनाम् अपि चाश्रमान् बहूंस् तृणादिवल्लीगहनेषु भूमिषु ॥

49.118

नदीतटे भूविवरे गुहायां निरीक्षमाणो ऽपि महानुभावः
प्रियाम् अपश्यन् भृशदुःखितस् तदा जटायुषं वीक्ष्य च घातितं नृपः ॥

49.119

अहो भवान् केन हतस् त्वम् ईदृशीं दशाम् अवाप्तो ऽसि मृतो ऽसि जीवसि
ममाद्य सर्वं समदुःखितस्य भोः पत्नीवियोगाद् इह चागतस्य वै ॥

49.120

इत्युक्तमात्रे विहगो ऽथ कृच्छ्राद् उवाच वाचं मधुरां तदानीम्
शृणुष्व राजन् मम वृत्तम् अत्र वदामि दृष्टं च कृतं च सद्यः ॥

49.121

दशाननस् ताम् अपनीय मायया सीतां समारोप्य विमानम् उत्तमम्
जगाम खे दक्षिणदिङ्मुखो ऽसौ सीता च माता विललाप दुःखिता ॥

49.122

आकर्ण्य सीतास्वनम् आगतो ऽहं सीतां विमोक्तुं स्वबलेन राघव
युद्धं च तेनाहम् अतीव कृत्वा हतः पुनः खड्गबलेन रक्षसा ॥

49.123

वैदेहिवाक्याद् इह जीवता मया दृष्टो भवान् स्वर्गम् इतो गमिष्ये
मा राम शोकं कुरु भूमिपाल जह्य् अद्य दुष्टं सगणं तु नैरृतम् ॥

49.124

रामो जटायुषेत्युक्तः पुनस् तं चाह शोकतः
स्वस्त्य् अस्तु ते द्विजवर गतिस् तु परमास्तु ते ॥

49.125

ततो जटायुः स्वं देहं विहाय गतवान् दिवम्
विमानेन तु रम्येण सेव्यमानो ऽप्सरोगणैः ॥

49.126

रामो ऽपि दग्ध्वा तद्देहं स्नातो दत्त्वा जलाञ्जलिम्
भ्रात्रा स गच्छन् दुःखार्तो राक्षसीं पथि दृष्टवान् ॥

49.127

उद्वमन्तीं महोल्काभां विवृतास्यां भयंकरीम्
क्षयं नयन्तीं जन्तून् वै पातयित्वा गतो रुषा ॥

49.128

गच्छन् वनान्तरं रामः स कबन्धं ददर्श ह
विरूपं जठरमुखं दीर्घबाहुं घनस्तनम् ॥

49.129

रुन्धानं राममार्गं तु दृष्ट्वा तं दग्धवाञ् शनैः
दग्धो ऽसौ दिव्यरूपी तु खस्थो रामम् अभाषत ॥

49.130

राम राम महाबाहो त्वया मम महामते
विरूपं नाशितं विर मुनिशापाच् चिरागतम् ॥

49.131

त्रिदिवं यामि धन्यो ऽस्मि त्वत्प्रसादान् न संशयः
त्वं सीताप्राप्तये सख्यं कुरु सूर्यसुतेन भोः ॥

49.132

वानरेन्द्रेण गत्वा तु सुग्रीवे स्वं निवेद्य वै
भविष्यति नृपश्रेष्ठ ऋष्यमूकगिरिं व्रज ॥

49.133

इत्य् उक्वा तु गते तस्मिन् रामो लक्ष्मणसंयुतः
सिद्धैस् तु मुनिभिः शून्यम् आश्रमं प्रविवेश ह ॥

49.134

तत्रस्थां तापसीं दृष्ट्वा तया संलाप्य संस्थितः
शबरीं मुनिमुख्यानां स पर्याहतकल्मषाम् ॥

49.135

तया संपूजितो रामो बदरादिभिर् ईश्वरः
साप्य् एनं पूजयित्वा तु स्वाम् अवस्थां निवेद्य वै ॥

49.136

सीतां त्वं प्राप्स्यसीत्य् उक्त्वा प्रविश्याग्निं दिवंगता
दिवं प्रस्थाप्य तां चापि जगामान्यत्र राघवः ॥

49.137

ततो विनीतेन गुणान्वितेन भ्रात्रा समेतो जगदेकनाथः
प्रियावियोगेन सुदुःखितात्मा जगाम याम्यां स तु रामदेवः ॥

मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc