भाषा

ENहिગુ
ग्रंथ पाठ

नरसिंहपुराण · अध्याय 5

5.1

रुद्रसर्गं तु मे ब्रूहि विस्तरेण महामते
पुनः सर्वे मरीच्याद्याः ससृजुस् ते कथं पुनः ॥

5.2

मित्रावरुणपुत्रत्वं वसिष्ठस्य कथं भवेत्
ब्रह्मणो मनसः पूर्वम् उत्पन्नस्य महामते ॥

5.3

रुद्रसृष्टिं प्रवक्ष्यामि तत्सर्गाश् चैव सत्तम
प्रतिसर्गं मुनीनां तु विस्तराद् वदतः शृणु ॥

5.4

कल्पादाव् आत्मनस् तुल्यं सुतं प्रध्यायतस् ततः
प्रादुरासीत् प्रभोर् अङ्के कुमारो नीललोहितः ॥

5.5

अर्धनारीनरवपुः प्रचण्डो ऽतिशरीरवान्
तेजसा भासयन् सर्वा दिशश् च प्रदिशश् च सः ॥

5.6

तं दृष्ट्वा तेजसा दीप्तं प्रत्युवाच प्रजापतिः
विभजात्मानम् अद्य त्वं मम वाक्यान् महामते ॥

5.7

इत्युक्तो ब्रह्मणा विप्र रुद्रस् तेन प्रतापवान्
स्त्रीभावं पुरुषत्वं च पृथक् पृथग् अथाकरोत् ॥

5.8

बिभेद पुरुषत्वं च दशधा चैकधा च सः
तेषां नामानि वक्ष्यामि शृणु मे द्विजसत्तम ॥

5.9

अजैकपाद् अहिर्बुध्न्यः कपाली रुद्र एव च
हरश् च बहुरूपश् च त्र्यम्बकश् चापराजितः ॥

5.10

वृषाकपिश् च शंभुश् च कपर्दी रैवतस् तथा
एकादशैते कथिता रुद्रास् त्रिभुवनेश्वराः ॥

5.11

स्त्रीत्वं चैव तथा रुद्रो बिभेद दशधैकधा
उमैव बहुरूपेण पत्नी सैव व्यवस्थिता ॥

5.12

तपः कृत्वा जले घोरम् उत्तीर्णः स यदा पुरा
तदा स सृष्टवान् देवो रुद्रस् तत्र प्रतापवान् ॥

5.13

तपोबलेन विप्रेन्द्र भूतानि विविधानि च
पिशाचान् राक्षसांश् चैव सिंहोष्ट्रमकराननान् ॥

5.14

वेतालप्रमुखान् भूतान् अन्यांश् चैव सहस्रशः
विनायकानाम् उग्राणां त्रिंशत्कोट्य् अर्धम् एव च ॥

5.15

अन्यकार्यं समुद्दिश्य सृष्टवान् स्कन्दम् एव च
एवंप्रकारो रुद्रो ऽसौ मया ते कीर्तितः प्रभुः ॥

5.16

अनुसर्गं मरीच्यादेः कथयामि निबोद्ध मे
देवादिस्थावरान्ताश् च प्रजाः सृष्टाः स्वयंभुवा ॥

5.17

यदास्य च प्रजाः सर्वा न व्यवर्धन्त धीमतः
तदा मानसपुत्रान् स सदृशान् आत्मनो ऽसृजत् ॥

5.18

मरीचिम् अत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुम्
प्रचेतसं वसिष्ठं च भृगुं चैव महामतिम् ॥

5.19

नव ब्रह्माण इत्य् एते पुराणे निश्चयं गताः
अग्निश् च पितरश् चैव ब्रह्मपुत्रौ तु मानसौ ॥

5.20

सृष्टिकाले महाभागौ ब्रह्मन् स्वायंभुवोद्गतौ
शतरूपां च सृष्ट्वा तु कन्यां स मनवे ददौ ॥

5.21

तस्माच् च पुरुषाद् देवी शतरूपा व्यजायत
प्रियव्रतोत्तानपादौ प्रसूतिं चैव कन्यकाम् ॥

5.22

ददौ प्रसूतिं दक्षाय मनुः स्वायंभुवः सुताम्
प्रसूत्यां च तदा दक्षश् चतुर्विंशतिकं तथा ॥

5.23

ससर्ज कन्यकास् तासां शृणु नामानि मे ऽधुना
श्रद्धा लक्ष्मीर् धृतिस् तुष्टिः पुष्टिर् मेधा तथा क्रिया ॥

5.24

बुद्धिर् लज्जा वपुः शान्तिः सिद्धिः कीर्तिस् त्रयोदशी
अपत्यार्थं प्रजग्राह धर्मो दाक्षायणीः प्रभुः ॥

5.25

श्रद्धादीनां तु पत्नीनां जाताः कामादयः सुताः
धर्मस्य पुत्रपौत्राद्यैर् धर्मवंशो विवर्धितः ॥

5.26

ताभ्यः शिष्टा यवीयस्यस् तासां नामानि कीर्तये
संभूतिश् चानसूया च स्मृतिः प्रीतिः क्षमाः तथा ॥

5.27

संनतिश् चाथ सत्या च ऊर्जा ख्यातिर् द्विजोत्तम
तद्वत् पुत्रौ महाभागौ मातरिश्वाथ सत्यवान् ॥

5.28

स्वाहाथ दशमी ज्ञेया स्वधा चैकादशी स्मृता
एताश् च दत्ता दक्षेण ऋषीणां भावितात्मनाम् ॥

5.29

मरीच्यादीनां तु ये पुत्रास् तान् अहं कथयामि ते
पत्नी मरीचेः संभूतिर् जज्ञे सा कश्यपं मुनिम् ॥

5.30

स्मृतिश् चाङ्गिरसः पत्नी प्रसूता कन्यकास् तथा
सिनीवाली कुहूस् चैव राका चानुमतिस् तथा ॥

5.31

अनसूया तथा चात्रेर् जज्ञे पुत्रान् अकल्मषान्
सोमं दुर्वाससं चैव दत्तात्रेयं च योगिनम् ॥

5.32

यो ऽसाव् अग्नेर् अभीमानी ब्रह्मणस् तनयो ऽग्रजः
तस्मात् स्वाहा सुतांल् लेभे त्रीन् उदारौजसो द्विज ॥

5.33

पावकं पवमानं च शुचिं चापि जलाशिनम्
तेषां तु संतताव् अन्ये चत्वारिंशच् च पञ्च च ॥

5.34

कथयन्ते वह्नयश् चैते पिता पुत्रत्रयं च यत्
एवम् एकोनपञ्चाशद् वह्नयः परिकीर्तिताः ॥

5.35

पितरो ब्रह्मणा सृष्टा व्याख्याता ये मया तव
तेभ्यः स्वधा सुते जज्ञे मेनां वै धारिणीं तथा ॥

5.36

प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयंभुवा
यथा ससर्ज भूतानि तथा मे शृणु सत्तम ॥

5.37

मनसैव हि भूतानि पूर्वं दक्षो ऽसृजन् मुनिः
देवान् ऋषींश् च गन्धर्वान् असुरान् पन्नगांस् तथा ॥

5.38

यदास्य मनसा जाता नाभ्यवर्धन्त ते द्विज
तदा संचिन्त्य स मुनिः सृष्टिहेतोः प्रजापतिः ॥

5.39

मैथुनेनैव धर्मेण सिसृक्षुर् विविधाः प्रजाः
असिक्नीम् उद्वहन् कन्यां वीरणस्य प्रजापतेः ॥

5.40

षष्टिं दक्षो ऽसृजत् कन्या वीरण्याम् इति नः श्रुतम्
ददौ स दश धर्माय कश्यपाय त्रयोदश ॥

5.41

सप्तविंशति सोमाय चतस्रो ऽरिष्टनेमिने
द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे तथा ॥

5.42

द्वे कृशाश्वाय विदुषे तदपत्यानि मे शृणु
विश्वेदेवांस् तु विश्वा या साध्या साध्यान् असूयत ॥

5.43

मरुत्वत्यां मरुत्वन्तो वसोस् तु वसवः स्मृताः
भानोस् तु भानवो देवा मुहूर्तायां मुहूर्तजाः ॥

5.44

लम्बायाश् चैव घोषाख्यो नागवीथिश् च जामिजा
पृथिवीविषयं सर्वम् अरुन्धत्याम् अजायत ॥

5.45

संकल्पायाश् च संकल्पः पुत्रो जज्ञे महामते
ये त्व् अनेकवसुप्राणा देवा ज्योतिःपुरोगमाः ॥

5.46

वसवो ऽष्टौ समाख्यातास् तेषां नामानि मे शृणु
आपो ध्रुवश् च सोमश् च धर्मश् चैवानिलो ऽनलः ॥

5.47

प्रत्यूषश् च प्रभासश् च वसवो ऽष्टौ प्रकीर्तिताः
तेषां पुत्राश् च पौत्राश् च शतशो ऽथ सहस्रशा ॥

5.48

साध्याश् च बहवः प्रोक्तास् तत्पुत्राश् च सहस्रशः
कश्यपस्य तु भार्यां यास् तासां नामानि मे शृणु
अदितिर् दितिर् दनुश् चैव अरिष्टा सुरसा खसा ॥

5.49

सुरभिर् विनता चैव ताम्रा क्रोधवशा इरा
कद्रुर् मुनिश् च धर्मज्ञ तदपत्यानि मे शृणु ॥

5.50

अदित्यां कश्यपाज् जाताः पुत्रा द्वादश शोभनाः
तान् अहं नामतो वक्ष्ये शृणुष्व गदतो मम ॥

5.51

भर्गो ऽंशुश् चार्यमा चैव मित्रो ऽथ वरुणस् तथा
सविता चैव धाता च विवस्वांश् च महामते ॥

5.52

त्वष्टा पूषा तथा चेन्द्रो द्वादशो विष्णुर् उच्यते
दित्याः पुत्रद्वयं जज्ञे कश्यपाद् इति नः श्रुतं ॥

5.53

हिरण्याक्षो महाकायो वाराहेण तु यो हतः
हिरण्यकशिपुश् चैव नरसिंहेन यो हतः ॥

5.54

अन्ये च बहवो दैत्या दनुपुत्राश् च दानवाः
अरिष्टायां तु गन्धर्वा जज्ञिरे कश्यपात् तथा ॥

5.55

सुरसायाम् अथोत्पन्ना विद्याधरगणा बहु
गा वै स जनयाम्_अस सुरभ्यां कश्यपो मुनिः ॥

5.56

विनतायां तु द्वौ पुत्रौ प्रख्यातौ गरुडारुणौ
गरुडो देवदेवस्य विष्णोर् अमिततेजसः ॥

5.57

वाहनत्वम् इयात् प्रीत्या अरुणः सूर्यसारथिः
ताम्रायां कश्यपाज् जाताः षट् पुत्रास् तान् निबोध मे ॥

5.58

अश्वा उष्ट्रा गर्दभाश् च हस्तिनो गवया मृगाः
क्रोधायां जज्ञिरे तद्वद् ये भूम्यां दुष्टजातयः ॥

5.59

इरा वृक्षलतावल्ली शणजातीश् च जज्ञिरे
खसा तु यक्षरक्षांसि मुनिर् अप्सरसस् तथा ॥

5.60

कद्रुपुत्रा महानागा दंदशूका विषोल्बणाः
सप्तविंशति याः प्रोक्ताः सोमपत्न्यो ऽथ सव्रताः ॥

5.61

तासां पुत्रा महासत्त्वा बुधाद्यास् त्व् अभवन् द्विज
अरिष्टनेमिपत्नीनाम् अपत्यानीह षोडश ॥

5.62

बहुपुत्रस्य विदुषश् चतस्रो विद्युतः स्मृताः
प्रत्यङ्गिरस्सुताः श्रेष्ठा ऋषयश् चर्षिसत्कृताः ॥

5.63

कृशाश्वस्य तु देवर्षेर् देवाश् च ऋषयः सुताः
एते युगसहस्रान्ते जायन्ते पुनर् एव हि ॥

5.64

एते कश्यपदायादाः कीर्तिताः स्थाणुजङ्गमाः
स्थितौ स्थितस्य देवस्य नरसिंहस्य धर्मतः ॥

5.65

एता विभूतयो विप्र मया ते परिकीर्तिताः
कथिता दक्षकन्यानां मया ते ऽपत्यसंततिः ॥

5.66

श्रद्धावान् संस्मरेद् एतां स सुसंतानवान् भवेत् ॥

5.67

सर्गानुसर्गौ कथितौ मया ते समासतः सृष्टिविवृद्धिहेतोः
पठन्ति ये विष्णुपराः सदा नरा इदं द्विजास् ते विमला भवन्ति ॥

मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc