भाषा

ENहिગુ
ग्रंथ पाठ

नरसिंहपुराण · अध्याय 4

4.1

नवधा सृष्टिर् उत्पन्ना ब्रह्मणो ऽव्यक्तजन्मनः
कथं सा ववृधे सूत एतत् कथय मे ऽधुना ॥

4.2

प्रथमं ब्रह्मणा सृष्टा मरीच्यादय एव च
मरीचिर् अत्रिश् च तथा अङ्गिराः पुलहः क्रतुः ॥

4.3

पुलस्त्यश् च महातेजाः प्रचेता भृगुर् एव च
नारदो दशमश् चैव वसिष्ठश् च महामतिः ॥

4.4

सनकादयो निवृत्ताख्ये ते च धर्मे नियोजिताः
प्रवृत्ताख्ये मरीच्याद्या मुक्त्वैकं नारदं मुनिम् ॥

4.5

यो ऽसौ प्रजापतिस् त्व् अन्यो दक्षनामाङ्गसंभवः
तस्य दौहित्रवंशेन जगद् एतच् चराचरम् ॥

4.6

देवाश् च दानवाश् चैव गन्धर्वोरगपक्षिणः
सर्वे दक्षस्य कन्यासु जाताः परमधार्मिकाः ॥

4.7

चतुर्विधानि भूतानि ह्य् अचरानि चराणि च
वृद्धिं गतानि तान्य् एवम् अनुसर्गोद्भवानि तु ॥

4.8

अनुसर्गस्य कर्तारो मरीच्याद्या महर्षयः
वसिष्ठान्ता महाभाग ब्रह्मणो मानसोद्भवाः ॥

4.9

सर्गे तु भुतानि धियश् च खानि ख्यातानि सर्वं सृजते महात्मा
स एव पश्चाच् चतुरास्यरूपी मुनिस्वरूपी च सृजत्य् अनन्तः ॥

मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc