भाषा

ENहिગુ
ग्रंथ पाठ

नरसिंहपुराण · अध्याय 48

48.1

कृतदारो महातेजा रामः कमललोचनः
पित्रे सुमहतीं प्रीतिं जनानाम् उपपादयन् ॥

48.2

अयोध्यायां स्थितो रामः सर्वभोगसमन्वितः
प्रीत्या नन्दत्य् अयोध्यायां रामे रघुपतौ नृप ॥

48.3

भ्राता शत्रुघ्नसहितो भरतो मातुलं ययौ
ततो दशरथो राजा प्रसमीक्ष्य सुशोभनम् ॥

48.4

युवानं बलिनं योग्यं भूपसिद्ध्यै सुतं कविम्
अभिषिच्य राज्यभारं रामे संस्थाप्य वैष्णवम् ॥

48.5

पदं प्राप्तुं महद् यत्नं करिष्यामीत्य् अचिन्तयत्
संचिन्त्य तत्परो राजा सर्वदिक्षु समादिशत् ॥

48.6

प्राज्ञान् भृत्यान् महीपालान् मन्त्रिगणश् च त्वरान्वितः
रामाभिषेकद्रव्याणि ऋषिप्रोक्तानि यानि वै ॥

48.7

तानि भृत्याः समाहृत्य शीघ्रम् आगन्तुम् अर्हथ
दूतामात्याः समादेशात् सर्वदिक्षु नराधिपान् ॥

48.8

आहूय तान् समाहृत्य शीघ्रम् आगन्तुम् अर्हथ
अयोध्यापुरम् अत्यर्थं सर्वशोभासमन्वितम् ॥

48.9

जनाः कुरुत सर्वत्र नृत्यगीतादिनन्दितम्
पुरवासिजनानन्दं देशवासिमनःप्रियम् ॥

48.10

रामाभिषेकं विपुलं श्वो भविष्यति जानथ
श्रुत्वेत्थं मन्त्रिणः प्राहुस् तं नृपं प्रणिपत्य च ॥

48.11

शोभनं ते मतं राजन् यद् इदं परिभाषितम्
रामाभिषेकम् अस्माकं सर्वेषां च प्रियंकरम् ॥

48.12

इत्युक्तो दशरथस् तैस् तान् सर्वान् पुनर् अब्रवीत्
आनीयन्तां द्रुतं सर्वे संभारा मम शासनात् ॥

48.13

सर्वतः सारभूता च पुरी चेयं समन्ततः
अद्य शोभान्विता कार्या कर्तव्यं यागमण्डलम् ॥

48.14

इत्य् एवमुक्ता राज्ञा ते मन्त्रिणः शीघ्रकारिणः
तथैव चक्रुस् ते सर्वे पुनः पुनर् उदीरिताः ॥

48.15

प्राप्तहर्षः स राजा च शुभं दिनम् उदीक्षयन्
कौशल्या लक्ष्मणश् चैव सुमित्रा नागरो जनः ॥

48.16

रामाभिषेकम् आकर्ण्य मुदं प्राप्यातिहर्षितः
श्वश्रुश्वशुरयोः सम्यक् शुश्रूषणपरा तु सा ॥

48.17

मुदान्विता सिता सीता भर्तुर् आकर्ण्य शोभनम्
श्वोभाविन्य् अभिषेके तु रामस्य विदितात्मनः ॥

48.18

दासी तु मन्थरानाम्नी कैकेय्याः कुब्जरूपिणी
स्वां स्वामिनीं तु कैकेयीम् इदं वचनम् अब्रवीत् ॥

48.19

शृणु राज्ञि मभाभागे वचनं मम शोभनम्
त्वत्पतिस् तु महाराजस् तव नाशाय चोद्यतः ॥

48.20

रामो ऽसौ कौशलीपुत्रः श्वो भविष्यति भूपतिः
वसुवाहनकोशादि राज्यं च सकलं शुभे ॥

48.21

भविष्यत्य् अद्य रामस्य भरतस्य न किंचन
भरतो ऽपि गतो दूरं मातुलस्य गृहं प्रति ॥

48.22

हा कष्टं मन्दभाग्यासि सापत्न्याद् दुःखिता भृशम्
सैवम् आकर्ण्य कैकेयी कुब्जाम् इदम् अथाब्रवीत् ॥

48.23

पश्य मे दक्षतां कुब्जे अद्यैव त्वं विचक्षणे
यथा तु सकलं राज्यं भरतस्य भविष्यति ॥

48.24

रामस्य वनवासश् च तथा यत्नं करोम्य् अहम्
इत्य् उक्त्वा मन्थरां सा तु उन्मुच्य स्वाङ्गभूषणम् ॥

48.25

वस्त्रं पुष्पाणि चोन्मुच्य स्थूलवासोधराभवत्
निर्माल्यपुष्पधृक् कष्टा कश्मलाङ्गी विरूपिणी ॥

48.26

भस्मधूल्यादिनिर्दिग्धा भस्मधूल्या तथा श्रिते
भूभागे शान्तदीपे सा संध्याकाले सुदुःखिता ॥

48.27

ललाटे श्वेतचैलं तु बद्ध्वा सुष्वाप भामिनी
मन्त्रिभिः सह कार्याणि संमन्त्र्य सकलानि तु ॥

48.28

पुण्याहःस्वस्तिमाङ्गल्यैः स्थाप्य रामं तु मण्डले
ऋषिभिस् तु वसिष्ठाद्यैः सार्धं संभारमण्डपे ॥

48.29

वृद्धिजागरणीयैश् च सर्वतस् तूर्यनादिते
गीतनृत्यसमकीर्णे शङ्खकाहलनिःस्वनैः ॥

48.30

स्वयं दशरथस् तत्र स्थित्वा प्रत्यागतः पुनः
कैकेय्या वेश्मनो द्वारं जरद्भिः परिरक्षितम् ॥

48.31

रामाभिषेकं कैकेयीं वक्तुकामः स पार्थिवः
कैकेयीभवनं वीक्ष्य सान्धकारम् अथाब्रवीत् ॥

48.32

अन्धकारम् इदं कस्माद् अद्य ते मन्दिरे प्रिये
रामाभिषेकं हर्षाय अन्त्यजा अपि मेनिरे ॥

48.33

गृहालंकरणं कुर्वन्त्य् अद्य लोका मनोहरम्
त्वयाद्य न कृतं कस्माद् इत्य् उक्त्वा च महीपतिः ॥

48.34

ज्वालयित्वा गृहे दीपान् प्रविवेश गृहं नृपः
अशोभनाङ्गीं कैकेयीं स्वपत्नीं पतितां भुवि ॥

48.35

दृष्ट्वा दशरथः प्राह तस्याः प्रियम् इदं त्व् इति
आश्लिष्योत्थाय तां राजा शृणु मे परमं वचः ॥

48.36

स्वमातुर् अधिकां नित्यं यस् ते भक्तिं करोति वै
तस्याभिषेकं रामस्य श्वो भविष्यति शोभने ॥

48.37

इत्युक्ता पार्थिवेनापि किंचिन् नोवाच सा शुभा
मुञ्चन्ती दीर्घम् उष्णं च रोषोच्छ्वासं मुहुर् मुहुः ॥

48.38

तस्थाव् आश्लिष्य हस्ताभ्यां पार्थिवः प्राह रोषिताम्
किं ते कैकेयि दुःखस्य कारणं वद शोभने ॥

48.39

वस्त्राभरणरत्नादि यद् यद् इच्छसि शोभने
तत् त्वं गृह्णीष्व निःशङ्कं भाण्डारात् सुखिनी भव ॥

48.40

भाण्डारेण मम शुभे श्वो ऽर्थसिद्धिर् भविष्यति
यदाभिषेकं संप्राप्ते रामे राजीवलोचने ॥

48.41

भाण्डागारस्य मे द्वारं मया मुक्तं निरर्गलम्
भविष्यति पुनः पूर्णं रामे राज्यं प्रशासति ॥

48.42

बहु मानय रामस्य अभिषेकं महात्मनः
इत्युक्ता राजवर्येण कैकेयी पापलक्षणा ॥

48.43

कुमतिर् निर्घृणा दुष्टा कुब्जया शिक्षिताब्रवीत्
राजानं स्वपतिं वाक्यं क्रूरम् अत्यन्तनिष्ठुरम् ॥

48.44

रत्नादि सकलं यत् ते तन् ममैव न संशयः
देवासुरमहायुद्धे प्रीत्या यन् मे वरद्वयम् ॥

48.45

पुरा दत्तं त्वया राजंस् तद् इदानीं प्रयच्छ मे
इत्युक्तः पार्थिवः प्राह कैकेयीम् अशुभां तदा ॥

48.46

अदत्तम् अप्य् अहं दास्ये तव नान्यस्य वा शुभे
किं मे प्रतिश्रुतं पूर्वं दत्तम् एव मया तव ॥

48.47

शुभाङ्गी भव कल्याणि त्यज कोपम् अनर्थकम्
रामाभिषेकजं हर्षं भजोत्तिष्ठ सुखी भव ॥

48.48

इत्युक्ता राजवर्येण कैकेयी कलहप्रिया
उवाच परुषं वाक्यं राज्ञो मरणकारणम् ॥

48.49

वरद्वयं पूर्वदत्तं यदि दास्यसि मे विभो
श्वोभूते गच्छतु वनं रामो ऽयं कोशलात्मजः ॥

48.50

द्वादशाब्दं निवसतु त्वद्वाक्याद् दण्डके वने
अभिषेकं च राज्यं च भरतस्य भविष्यति ॥

48.51

इत्य् आकर्ण्य स कैकेय्या वचनं घोरम् अप्रियम्
पपात भुवि निःसंज्ञो राजा सापि विभूषिता ॥

48.52

रात्रिशेषं नयित्वा तु प्रभाते सा मुदावती
दूतं सुमन्त्रम् आहैवं राम आनीयताम् इति ॥

48.53

रामस् तु कृतपुण्याहः कृतस्वस्त्ययनो द्विजैः
यागमण्डपमध्यस्थः शङ्खतूर्यरवान्वितः ॥

48.54

तम् आसाद्य ततो दूतः प्रणिपत्य पुरःस्थितः
राम राम महाबाहो आज्ञापयति ते पिता ॥

48.55

द्रुतम् उत्तिष्ठ गच्छ त्वं यत्र तिष्ठति ते पिता
इत्युक्तस् तेन दूतेन शीघ्रम् उत्थाय राघवः ॥

48.56

अनुज्ञाप्य द्विजान् प्राप्तः कैकेय्या भवनं प्रति
प्रविशन्तं गृहं रामं कैकेयी प्राह निर्घृणा ॥

48.57

पितुस् तव मतं वत्स इदं ते प्रब्रवीम्य् अहम्
वने वस महाबाहो गत्वा त्वं द्वादशाब्दकम् ॥

48.58

अद्यैव गम्यतां वीर तपसे धृतमानसः
न चिन्त्यम् अन्यथा वत्स आदरात् कुरु मे वचः ॥

48.59

एतच् छ्रुत्वा पितुर् वाक्यं रामः कमललोचनः
तथेत्य् आज्ञां गृहीत्वासौ नमस्कृत्य च ताव् उभौ ॥

48.60

निष्क्रम्य तद्गृहाद् रामो धनुर् आदाय वेश्मतः
कौशल्यां च नमस्कृत्य सुमित्रां गन्तुम् उद्यतः ॥

48.61

तच् छ्रुत्वा तु ततः पौरा दुःखशोकपरिप्लुताः
विव्यथुश् चाथ सौमित्रिः कैकेयीं प्रति रोषितः ॥

48.62

ततस् तं राघवो दृष्ट्वा लक्ष्मणं रक्तलोचनम्
वारयाम्_अस धर्मज्ञो धर्मवाग्भिर् महामतिः ॥

48.63

ततस् तु तत्र ये वृद्धास् तान् प्रणम्य मुनींश् च सः
रामो रथं खिन्नसूतं प्रस्थानायारुरोह वै ॥

48.64

आत्मीयं सकलं द्रव्यं ब्राह्मणेभ्यो नृपात्मजः
श्रद्धया परया दत्त्वा वस्त्राणि विविधानि च ॥

48.65

तिस्रः श्वश्रूः समामन्त्र्य श्वशुरं च विसंज्ञितम्
मुञ्चन्तम् अश्रुधाराणि नेत्रयोः शोकजानि च ॥

48.66

पश्यती सर्वतः सीता चारुरोह तथा रथम्
रथम् आरुह्य गच्छन्तं सीतया सह राघवम् ॥

48.67

दृष्ट्वा सुमित्रा वचनं लक्ष्मणं चाह दुःखिता
रामं दशरथं विद्धि मां विद्धि जनकात्मजाम् ॥

48.68

अयोध्याम् अटवीं विद्धि व्रज ताभ्यां गुणाकर
मात्रैवमुक्तो धर्मात्मा स्तनक्षीरार्द्रदेहया ॥

48.69

तां नत्वा चारुयानं तम् आरुरोह स लक्ष्मणः
गच्छतो लक्ष्मणो भ्राता सीता चैव पतिव्रता ॥

48.70

रामस्य पृष्ठतो यातौ पुराद् धीरौ महामते
विधिच्छिन्नाभिषेकं तं रामं राजीवलोचनम् ॥

48.71

अयोध्याया विनिष्क्रान्तम् अनुयाताः पुरोहिताः
मन्त्रिणः पौरमुख्याश् च दुःखेन महतान्विताः ॥

48.72

तं च प्राप्य हि गच्छन्तं रामम् ऊचुर् इदं वचः
राम राम महाबाहो गन्तुं नार्हसि शोभन ॥

48.73

राजन्न् अत्र निवर्तस्व विहायास्मान् क्व गच्छसि
इत्युक्तो राघवस् तैस् तु तान् उवाच दृढव्रतः ॥

48.74

गच्छध्वं मन्त्रिणः पौरा गच्छध्वं च पुरोधसः
पित्रादेशं मया कार्यम् अभियास्यामि वै वनम् ॥

48.75

द्वादशाब्दं व्रतं चैतन् नीत्वाहं दण्डके वने
आगच्छामि पितुः पादं मातॄणां द्रष्टुम् अञ्जसा ॥

48.76

इत्य् उक्त्वा ताञ् जगामाथ रामः सत्यपरायणः
तं गच्छन्तं पुनर् याताः पृष्ठतो दुःखिता जनाः ॥

48.77

पुनः प्राह स काकुत्स्थो गच्छध्वं नगरीम् इमाम्
मातॄश् च पितरं चैव शत्रुघ्नं नगरीम् इमाम् ॥

48.78

प्रजाः समस्तास् तत्रस्था राज्यं भरतम् एव च
पालयध्वं महाभागास् तपसे याम्य् अहं वनम् ॥

48.79

अथ लक्ष्मणम् आहेदं वचनं राघवस् तदा
सीताम् अर्पय राजानं जनकं मिथिलेश्वरम् ॥

48.80

पितृमातृवशे तिष्ठ गच्छ लक्ष्मण याम्य् अहम्
इत्युक्तः प्राह धर्मात्मा लक्ष्मणो भ्रातृवत्सलः ॥

48.81

मैवम् आज्ञापय विभो माम् अद्य करुणाकर
गन्तुम् इच्छसि यत्र त्वम् अवश्यं तत्र याम्य् अहम् ॥

48.82

इत्युक्तो लक्ष्मणेनासौ सीतां ताम् आह राघवः
सीते गच्छ ममादेशात् पितरं प्रति शोभने ॥

48.83

सुमित्राया गृहे चापि कौशल्यायाः सुमध्यमे
निवर्तस्व हि तावत् त्वं यावद् आगमनं मम ॥

48.84

इत्युक्ता राघवेनापि सीता प्राह कृताञ्जलिः
यत्र गत्वा वने वासं त्वं करोषि महाभुज ॥

48.85

तत्र गत्वा त्वया सार्धं वसाम्य् अहम् अरिंदम
वियोगं नो सहे राजंस् त्वया सत्यवता क्वचित् ॥

48.86

अतस् त्वां प्रार्थयिष्यामि दयां कुरु मम प्रभो
गन्तुम् इच्छसि यत्र त्वम् अवश्यं तत्र याम्य् अहम् ॥

48.87

नानायानैर् उपगताञ् जनान् वीक्ष्य स पृष्ठतः
योषितां च गणान् रामो वारयाम्_अस धर्मवित् ॥

48.88

निवृत्त्य स्थीयतां स्वैरम् अयोध्यायां जनाः स्त्रियः
गत्वाहं दण्डकारण्यं तपसे धृतमानसः ॥

48.89

कतिपयाब्दाद् आयास्ये नान्यथा सत्यम् ईरितम्
लक्ष्मणेन सह भ्रात्रा वैदेह्या च स्वभार्यया ॥

48.90

जनान् निवर्त्य रामो ऽसौ जगाम च गुहाश्रमम्
गुहस् तु रामभक्तो ऽसौ स्वभावाद् एव वैष्णवः ॥

48.91

कृताञ्जलिपुटो भूत्वा किं कर्तव्यम् इति स्थितः
महता तपसआनीता गुरुणा या हि वः पुरा ॥

48.92

भागीरथेन या भूमिं सर्वपापहरा शुभा
नानामुनिजनैर् जुष्टा कूर्ममत्स्यसमाकुला ॥

48.93

गङ्गा तुङ्गोर्मिमालाढ्या स्फटिकाभजलावहा
गुहोपनीतनावा तु तां गङ्गां स महाद्युतिः ॥

48.94

उत्तीर्य भगवान् रामो भरद्वाजाश्रमं सुभम्
प्रयागे तु ततस् तस्मिन् स्नात्वा तीर्थे यथाविधि ॥

48.95

लक्ष्मणेन सह भ्रात्रा राघवः सीतया सह
भरद्वाजाश्रमे तत्र विश्रान्तस् तेन पूजितः ॥

48.96

ततः प्रभाते विमले तम् अनुज्ञाप्य राघवः
भरद्वाजोक्तमार्गेण चित्रकूटं शनैर् ययौ ॥

48.97

नानाद्रुमलताकीर्णं पुण्यतीर्थम् अनुत्तमम्
तापसं वेषम् आस्थाय जह्नुकन्याम् अतीत्य वै ॥

48.98

गते रामे सभार्ये तु सह भ्रात्रा ससारथौ
अयोध्याम् अवसन् भूप नष्टसोभां सुदुःखिताः ॥

48.99

नष्टसंज्ञो दशरथः श्रुत्वा वचनम् अप्रियम्
रामप्रवासजननं कैकेय्या मुखनिःसृतम् ॥

48.100

लब्धसंज्ञः क्षणाद् राजा राम रामेति चुक्रुशे
कैकेय्य् उवाच भूपालं भरतं चाभिषेचय ॥

48.101

सीतालक्ष्मणसंयुक्तो रामचन्द्रो वनं गतः
पुत्रशोकाभिसंतप्तो राजा दशरथस् तदा ॥

48.102

विहाय देहं दुःखेन देवलोकं गतस् तदा
ततस् तस्य महापुर्य्याम् अयोध्यायाम् अरिंदम ॥

48.103

रुरुदुर् दुःखशोकार्ता जनाः सर्वे च योषितः
कौशल्या च सुमित्रा च कैकेयी कष्टकारिणी ॥

48.104

परिवार्य मृतं तत्र रुरुदुस् ताः पतिं ततः
ततः पुरोहितस् तत्र वसिष्ठः सर्वधर्मवित् ॥

48.105

तैलद्रोण्यां विनिक्षिप्य मृतं रजकलेवरम्
दूतं वै प्रेषयाम्_अस सहमन्त्रिगणैः स्थितः ॥

48.106

स गत्वा यत्र भरतः शत्रुघ्नेन सह स्थितः
तत्र प्राप्य तथा वार्ता संनिवर्त्य नृपात्मजौ ॥

48.107

ताव् आनीय ततः शीघ्रम् अयोध्यां पुनर् आगतः
क्रूराणि दृष्ट्वा भरतो निमित्तानि च वै पथि ॥

48.108

विपरीतं त्व् अयोध्यायाम् इति मेने स पार्थिवः
निःशोभां निर्गतश्रीकां दुःखशोकान्वितां पुरीम् ॥

48.109

कैकेय्यग्निविनिर्दग्धाम् अयोध्यां प्रविवेश सः
दुःखान्विता जनाः सर्वे तौ दृष्ट्वा रुरुदुर् भृशम् ॥

48.110

हा तात राम हा सीते लक्ष्मणेति पुनः पुनः
रुरोद भरतस् तत्र शत्रुघ्नश् च सुदुःखितः ॥

48.111

कैकेय्यास् तत्क्षणाच् छ्रुत्वा चुक्रोध भरतस् तदा
दुष्टा त्वं दुष्टचित्ता च यया रामः प्रवासितः ॥

48.112

लक्ष्मणेन सह भ्रात्रा राघवः सीतया वनम्
साहसं किं कृतं दुष्टे त्वया सद्यो ऽल्पभाग्यया ॥

48.113

उद्वास्य सीतया रामं लक्ष्मणेन महात्मना
ममैव पुत्रं राजानं करोत्व् इति मतिस् तव ॥

48.114

दुष्टाया नष्टभाग्यायाः पुत्रो ऽहं भाग्यवर्जितः
भ्रात्रा रामेण रहितो नाहं राज्यं करोमि वै ॥

48.115

यत्र रामो नरव्याघ्रः पद्मपत्रायतेक्षणः
धर्मज्ञो सर्वशास्त्रज्ञो मतिमान् बन्धुवत्सलः ॥

48.116

सीता च यत्र वैदेही नियमव्रतचारिणी
पतिव्रता महाभागा सर्वलक्षणसंयुता ॥

48.117

लक्ष्मणश् च महावीर्यो गुणवान् भ्रातृवत्सलः
तत्र यास्यामि कैकेयि महत् पापं त्वया कृतम् ॥

48.118

राम एव मम भ्राता ज्येष्ठो मतिमतां वरः
स एव राजा दुष्टात्मे भृत्यो ऽहं तस्य वै सदा ॥

48.119

इत्य् उक्त्वा मातरं तत्र रुरोद भृशदुःखितः
हा राजन् पृथिवीपाल मां विहाय सुदुःखितम् ॥

48.120

क्व गतो ऽस्य् अद्य वै तात किं करोमीह तद् वद
भ्राता पित्रा समः क्वास्ते ज्येष्ठो मे करुनाकरः ॥

48.121

सीता च मातृतुल्या मे क्व गतो लक्ष्मणश् च ह
इत्य् एवं विलपन्तं तं भरतं मन्त्रिभिः सह ॥

48.122

वसिष्ठो भगवान् आह कालकर्मविभागवित्
उत्तिष्ठोत्तिष्ठ वत्स त्वं न शोकं कर्तुम् अर्हसि ॥

48.123

कर्मकालवशाद् एव पिता ते स्वर्गम् आस्थितः
तस्य संस्कारकार्याणि कर्माणि कुरु शोभन ॥

48.124

रामो ऽपि दुष्टनाशाय शिष्टानां पालनाय च
अवतीर्णो जगत्स्वामी स्वांशेन भुवि माधवः ॥

48.125

प्रायस् तत्रास्ति रामेण कर्तव्यं लक्ष्मणेन च
यत्रासौ भगवान् वीरः कर्मणा तेन चोदितः ॥

48.126

तत् कृत्वा पुनर् आयाति रामः कमललोचनः
इत्युक्तो भरतस् तेन वसिष्ठेन महात्मना ॥

48.127

संस्कारं लम्भयाम्_अस विधिदृष्टेन कर्मणा
अग्निहोत्राग्निना दग्ध्वा पितुर् देहं विधानतः ॥

48.128

स्नात्वा सरय्वाः सलिले कृत्वा तस्योदकक्रियाम्
शत्रुघ्नेन सह श्रीमान् मातृभिर् बान्धवैः सह ॥

48.129

तस्यौर्ध्वदेहिकं कृत्वा मन्त्रिणा मन्त्रिनायकः
हस्त्यश्वरथपत्तीभिः सह प्रायान् महामतिः ॥

48.130

भरतो रामम् अन्वेष्टुं राममार्गेण सत्तमः
तम् आयान्तं महासेनं रामस्यानुविरोधिनम् ॥

48.131

मत्वा तं भरतं शत्रुं रामभक्तो गुहस् तदा
स्वं सैन्यं वर्तुलं कृत्वा संनद्धः कवची रथी ॥

48.132

महाबलपरीवारो रुरोध भरतं पथि ॥

48.133

सभ्रातृकं सभार्यं मे रामं स्वामिनम् उत्तमम्
प्रापयस् त्वं वनं दुष्ट सांप्रतं हन्तुम् इच्छसि ॥

48.134

गमिष्यसि दुरात्मंस् त्वं सेनया सह दुर्मते
इत्युक्तो भरतस् तत्र गुहेन नृपनन्दनः ॥

48.135

तम् उवाच विनीतात्मा रामायाथ कृताञ्जलिः
यथा त्वं रामभक्तो ऽसि तथाहम् अपि भक्तिमान् ॥

48.136

प्रोषिते मयि कैकेय्या कृतम् एतन् महामते
रामस्यानयनार्थाय व्रजाम्य् अद्य महामते ॥

48.137

सत्यपूर्वं गमिष्यामि पन्थानं देहि मे गुह
इति विश्वासम् आनीय जाह्नवीं तेन तारितः ॥

48.138

नौकावृन्दैर् अनेकैस् तु स्नात्वासौ जाह्नवीजले
भरद्वाजाश्रमं प्राप्तो भरतस् तं महामुनिम् ॥

48.139

प्रणम्य शिरसा तस्मै यथावृत्तम् उवाच ह
भरद्वाजो ऽपि तं प्राह कालेन कृतम् ईदृशम् ॥

48.140

दुःखं न तावत् कर्तव्यं रामार्थे ऽपि त्वयाधुना
वर्तते चित्रकूटे ऽसौ रामः सत्यपराक्रमः ॥

48.141

त्वयि तत्र गते वापि प्रायो ऽसौ नागमिष्यति
तथापि तत्र गच्छ त्वं यस् असौ वक्ति तत् कुरु ॥

48.142

रामस् तु सीतया सार्धं वनखण्डे स्थितः शुभे
लक्ष्मणस् तु महावीर्यो दुष्टालोकनतत्परः ॥

48.143

इत्युक्तो भरतस् तत्र भारद्वाजेन धीमता
उत्तीर्य यमुनां यातश् चित्रकूटं महान् अगम् ॥

48.144

स्थितो ऽसौ दृष्टवान् दूरात् सधूलीं चोत्तरां दिशम्
रामाय कथयित्वास तदादेशात् तु लक्ष्मणः ॥

48.145

वृक्षम् आरुह्य मेधावी वीक्षमाणः प्रयत्नतः
स ततो दृष्टवान् हृष्टाम् आयान्तीं महतीं चमूम् ॥

48.146

हस्त्यश्वरथसंयुक्तां दृष्ट्वा रामम् अथाब्रवीत्
हे भ्रातस् त्वं महाबाहो सीतापार्श्वे स्थिरो भव ॥

48.147

भूपो ऽस्ति बलवान् कश्चिद् *धस्त्यश्वरथपत्तिभिः
इत्य् आकर्ण्य वचस् तस्य लक्ष्मणस्य महात्मनः ॥

48.148

रामस् तम् अब्रवीद् वीरो वीरं सत्यपराक्रमः
प्रायेण भरतो ऽस्माकं द्रष्टुम् आयाति लक्ष्मण ॥

48.149

इत्य् एवं वदतस् तस्य रामस्य विदितात्मनः
आरात् संस्थाप्य सेनां तां भरतो विनयान्वितः ॥

48.150

ब्राह्मणैर् मन्त्रिभिः सार्धं रुदन्न् आगत्य पादयोः
रामस्य निपपाताथ वैदेह्या लक्ष्मणस्य च ॥

48.151

मन्त्रिणो मातृवर्गश् च स्निग्धबन्धुसुहृज्जनाः
परिवार्य ततो रामं रुरुदुः शोककातराः ॥

48.152

स्वर्यातं पितरं ज्ञात्वा ततो रामो महामतिः
लक्ष्मणेन सह भ्रात्रा वैदेह्याथ समन्वितः ॥

48.153

स्नात्वा मलापहे तीर्थे दत्त्वा च सलिलाञ् जलिम्
मात्रादीन् अभिवाद्याथ रामो दुःखसमन्वितः ॥

48.154

उवाच भरतं राजन् दुःखेन महतान्वितम्
अयोध्यां गच्छ भरत इतः शीघ्रं महामते ॥

48.155

राज्ञा विहीनां नगरीं अनाथां परिपालय
इत्युक्तो भरतो प्राह रामं राजीवलोचनम् ॥

48.156

त्वाम् ऋते पुरुषव्याघ्र न यास्ये ऽहम् इतो ध्रुवम्
यत्र त्वं तत्र यास्यामि वैदेही लक्ष्मणो यथा ॥

48.157

इत्य् आकर्ण्य पुनः प्राह भरतं पुरतः स्थितम्
नृणां पितृसमो ज्येष्ठः स्वधर्मम् अनुवर्तिनाम् ॥

48.158

यथा न लङ्घ्यं वचनं मया पितृमुखेरितम्
तथा त्वया न लङ्घ्यं स्याद् वचनं मम सत्तम ॥

48.159

मत्समीपाद् इतो गत्वा प्रजास् त्वं परिपालय
द्वादशाब्दिकम् एतन् मे व्रतं पितृमुखेरितम् ॥

48.160

तद् अरण्ये चरित्वा तु आगमिस्यामि ते ऽन्तिकम्
गच्छ तिष्ठ ममादेशे न दुःखं कर्तुम् अर्हसि ॥

48.161

इत्युक्तो भरतः प्राह बाष्पपर्याकुलेक्षणः
यथा पिता तथा त्वं मे नात्र कर्या विचारणा ॥

48.162

तवादेशान् मया कार्यं देहि त्वं पादुके_2 मम
नन्दिग्रामे वसिष्ये ऽहं पादुके_2 द्वादशाब्दिकम् ॥

48.163

त्वद्वेषम् एव मद्वेषं त्वद्व्रतं मे महाव्रतम्
त्वं द्वादशाब्दिकाद् ऊर्ध्वं यदि नायासि सत्तम ॥

48.164

ततो हविर् यथा चाग्नौ प्रधक्ष्यामि कलेवरम्
इत्य् एवं शपथं कृत्वा भरतो हि सुदुःखितः ॥

48.165

बहु प्रदक्षिणं कृत्वा नमस्कृत्य च राघवम्
पादुके_2 शिरसा स्थाप्य भरतः प्रस्थितः शनैः ॥

48.166

स कुर्वन् भ्रातुर् आदेशं नन्दिग्रामे स्थितो वशी
तपस्वी नियताहारः शाकमूलफलाशनः ॥

48.167

जटाकलापं शिरसा च बिभ्रत् त्वचश् च वार्क्षीः किल वन्यभोजी
रामस्य वाक्यादरतो हृदि स्थितं बभार भूभारम् अनिन्दितात्मा ॥

मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc