नरसिंहपुराण · अध्याय 47
शृणु राजन् प्रवक्ष्यामि प्रादुर्भावं हरेः शुभम्
निहतो रावणो येन सगणो देवकण्टकः ॥
ब्रह्मणो मानसः पुत्रः पुलस्त्यो ऽभून् महामुनिः
तस्य वै विश्रवा नाम पुत्रो ऽभूत् तस्य राक्षसः ॥
तस्माज् जातो महावीरो रावणो लोकरावणः
तपसा महता युक्तः स तु लोकान् उपाद्रवत् ॥
सेन्द्रा देवा जितास्तेन गन्धर्वाः किंनरास् तथा
यक्षाश् च दानवाश् चैव तेन राजन् विनिर्जिताः ॥
स्त्रियश् चैव सुरूपिण्यो हृतास् तेन दुरात्मना
देवादीनां नृपश्रेष्ठ रत्नानि विविधनि च ॥
रणे कुबेरं निजित्य रावणो बलदर्पितः
तत्पुरीं जगृहे लङ्कां विमानं चापि पुष्पकम् ॥
तस्यां पुर्यां दशग्रीवो रक्षसाम् अधिपो ऽभवत्
पुत्राश् च बहवस् तस्य बभूवुर् अमितौजसः ॥
राक्षसाश् च तम् आश्रित्य महाबलपराक्रमाः
अनेककोटयो राजन् लङ्कायां निवसन्ति ये ॥
देवान् पितॄन् मनुष्यांश् च विद्याधरगणान् अपि
यक्षांश् चैव ततः सर्वे घातयन्ति दिवानिशम् ॥
संत्रस्तं तद्भयाद् एव जगद् आसीच् चराचरम्
दुःखाभिभूतम् अत्यर्थं संबभूव नराधिप ॥
एतस्मिन्न् एव काले तु देवाः सेन्द्रा महर्षयः
सिद्धा विद्याधराश् चैव गन्धर्वाः किंनरास् तथा ॥
गुह्यका भुजगा यक्षा ये चान्ये स्वर्गवासिनः
ब्रह्माणम् अग्रतः कृत्वा शंकरं च नराधिप ॥
ते ययुर् हतविक्रान्ताः क्षीराब्धेस् तटम् उत्तमम्
तत्राराध्य हरिं देवास् तस्थुः प्राञ्जलयस् तदा ॥
ब्रह्मा च विष्णुम् आराध्य गन्धपुष्पादिभिः शुभैः
प्राञ्जलिः प्रणतो भूत्वा वासुदेवम् अथास्तुवन् ॥
नमः क्षीराब्धिवासाय नागपर्यङ्कशायिने
नमः श्रीकरसंस्पृष्ट दिव्यपादाय विष्णवे ॥
नमस् ते योगनिद्राय योगान्तर्भाविताय च
तार्क्ष्यासनाय देवाय गोविन्दाय नमो नमः ॥
नमः क्षीराब्धिकल्लोल स्पृष्टमात्राय शार्ङ्गिणे
नमो ऽरविन्दपादाय पद्मनाभाय विष्णवे ॥
भक्तार्चितसुपादाय नमो योगप्रियाय वै
शुभाङ्गाय सुनेत्राय माधवाय नमो नमः ॥
सुकेशाय सुनेत्राय सुललाटाय चक्रिणे
सुवक्त्राय सुकर्णाय श्रीधराय नमो नमः ॥
सुवक्षसे सुनाभाय पद्मनाभाय वै नमः
सुभ्रुवे चारुदेहाय चारुदन्ताय शार्ङ्गिणे ॥
चारुजङ्घाय दिव्याय केशवाय नमो नमः
सुनखाय सुशान्ताय सुविद्याय गदाभृते ॥
धर्मप्रियाय देवाय वामनाय नमो नमः
असुरघ्नाय चोग्राय रक्षोघ्नाय नमो नमः ॥
देवानाम् आर्तिनाशाय भीमकर्मकृते नमः
नमस् ते लोकनाथाय रावणान्तकृते नमः ॥
इति स्तुतो हृषीकेशस् तुतोष परमेष्ठिना
स्वरूपं दर्शयित्वा तु पितामहम् उवाच ह ॥
किमर्थं तु सुरैः सार्धम् आगतस् त्वं पितामह
यत् कार्यं ब्रूहि मे ब्रह्मन् यदर्थं संस्तुतस् त्वया ॥
इत्युक्तो देवदेवेन विष्णुना प्रभविष्णुना
सर्वदेवगणैः सार्धं ब्रह्मा प्राह जनार्दनम् ॥
नाशितं तु जगत् सर्वं रावणेन दुरात्मना
सेन्द्राः पराजितास् तेन बहुशो रक्षसा विभो ॥
राक्षसैर् भक्षिता मर्त्या यज्ञाश् चापि विदूषिताः
देवकन्या हृतास् तेन बलाच् छतसहस्रशः ॥
त्वाम् ऋते पुण्डरीकाक्ष रावणस्य वधं प्रति
न समर्था यतो देवास् त्वम् अतस् तद्वधं कुरु ॥
इत्युक्तो ब्रह्मणा विष्णुर् ब्रह्माणम् इदम् अब्रवीत्
शृणुष्वावहितो ब्रह्मन् यद् वदामि हितं वचः ॥
सूर्यवंशोद्भवः श्रीमान् राजासीद् भुवि वीर्यवान्
नाम्ना दशरथख्यातस् तस्य पुत्रो भवाम्य् अहम् ॥
रावणस्य वधार्थाय चतुर्धांशेन सत्तम
स्वांशैर् वानररूपेण सकला देवतागणाः ॥
वर्तायन्तां विश्वकर्तः स्याद् एवं रावणक्षयः
इत्युक्तो देवदेवेन ब्रह्मा लोकपितामहः ॥
देवाश् च ते प्रणम्याथ मेरुपृष्ठं तदा ययुः
स्वांशैर् वानररूपेण अवतेरुश् च भूतले ॥
अथापुत्रो दशरथो मुनिभिर् वेदपारगैः
इष्टिं तु कारयाम्_अस पुत्रप्राप्तिकरीं नृपः ॥
ततः सौवर्णपात्रस्थं हविर् आदाय पायसम्
वह्निः कुण्डात् समुत्तस्थौ नूनं देवेन नोदितः ॥
आदाय मुनयो मन्त्राच् चक्रुः पिण्डद्वयं शुभम्
दत्ते कौशल्यकैकेय्योर् द्वे पिण्डे_2
ते पिण्डप्राशने काले सुमित्राया महामते
पिण्डाभ्याम् अल्पम् अल्पं तु सुभागिन्याः प्रयच्छतः ॥
ततस् ताः प्राशयाम्_असू राजपत्न्यो यथाविधि
पिण्डान् देवकृतान् प्राश्य प्रापुर् गर्भान् अनिन्दितान् ॥
एवं विष्णुर् दशरथाज् जातस् तत्पत्निषु त्रिषु
स्वांशैर् लोकहितायैव चतुर्धा जगतीपते ॥
रामश् च लक्ष्मणश् चैव भरतः शत्रुघ्नैव च
जातकर्मादिकं प्राप्य संस्कारं मुनिसंस्कृतम् ॥
मन्त्रपिण्डवशाद् योगं प्राप्य चेरुर् यथार्भकाः
रामश् च लक्ष्मणश् चैव सह नित्यं विचेरतुः ॥
जन्मादिकृतसंस्कारौ पितुः प्रीतिकरौ नृप
ववृधाते महावीर्यौ श्रुतिशब्दातिलक्षणौ ॥
भरतः कैकयो राजन् भ्रात्रा सह गृहे ऽवसत्
वेदशास्त्राणि बुबुधे शस्त्रशास्त्रं नृपोत्तम ॥
एतस्मिन्न् एव काले तु विश्वामित्रो महातपा
यागेन यष्टुम् आरेभे विधिना मधुसूदनम् ॥
स तु विघ्नेन यागो ऽभूद् राक्षसैर् बहुशः पुरा
नेतुं स यागराक्षार्थं संप्राप्तो रामलक्ष्मणौ ॥
विश्वामित्रो नृपश्रेष्ठ तत्पितुर् मन्दिरं शुभम्
दशरथस् तु तं दृष्ट्वा प्रत्युत्थाय महामतिः ॥
अर्घ्यपाद्यादिविधिन विश्वामित्रम् अपूजयत्
स पूजितो मुनिः प्राह राजानं राजसंम्निधौ ॥
शृणु राजन् दशरथ यदर्थम् अहम् आगतः
तत् कार्यं नृपशार्दूल कथयामि तवाग्रतः ॥
राक्षसैर् नाशितो यागो बहुशो मे दुरासदैः
यज्ञस्य रक्षणार्थं मे देहि त्वं रामलक्ष्मणौ ॥
राजा दशरथः श्रुत्वा विश्वामित्रवचो नृप
विषण्णवदनो भूत्व विश्वामित्रम् उवाच ह ॥
बालाभ्यां मम पुत्राभ्यां किं ते कार्यं भविष्यति
अहं त्वया सहागत्य शक्त्या रक्षामि ते मखम् ॥
राज्ञस् तु वचनं श्रुत्वा राजानं मुनिर् अब्रवीत्
रामो ऽपि शक्नुते नूनं सर्वान् नाशयितुं नृप ॥
रामेणैव हि ते शक्या न त्वया राक्षसा नृप
अतो मे देहि रामं च न चिन्तां कर्तुम् अर्हसि ॥
इत्युक्तो मुनिना तेन विश्वामित्रेण धीमता
तुष्णीं स्थित्वा क्षणं राजा मुनिवर्यम् उवाच ह ॥
यद् ब्रवीमि मुनिश्रेष्ठ प्रसन्नस् त्वं निबोध मे
राजीवलोचनं रामम् अहं दास्ये सहानुजम् ॥
किं त्व् अस्य जननी ब्रह्मन् अदृष्ट्वैनं मरिष्यति
अतो ऽहं चतुरङ्गेण बलेन सहितो मुने ॥
आगत्य राक्षसान् हन्मीत्य् एवं मे मनसि स्थितम्
विश्वामित्रः पुनः प्राह राजानम् अमितौजसम् ॥
नाज्ञो रामो नृपश्रेष्ठ स सर्वज्ञः समः क्षमः
शेषनारायणाव् एतौ तव पुत्रौ न संशयः ॥
दुष्टानां निग्रहार्थाय शिष्टानां पालनाय च
अवतीर्णौ न संदेहो गृहे तव नराधिप ॥
न मात्रा न त्वया राजन् शोकः कार्यो ऽत्र चाण्व् अपि
निःक्षेपे च महाराज अर्पयिष्यामि ते सुतौ ॥
इत्युक्तो दशरथस् तेन विश्वामित्रेण धीमता
तच्छापभीतो मनसा नीयताम् इत्य् अभाषत ॥
कृच्छ्रात् पित्रा विनिर्मुक्तं रामम् आदाय सानुजम्
ततः सिद्धाश्रमं राजन् संप्रतस्थे स कौशिकः ॥
तं प्रस्थितम् अथालोक्य राजा दशरथस् तदा
अनुव्रज्याब्रवीद् एतद् वचो दशरथस् तदा ॥
अपुत्रो ऽहं पुरा ब्रह्मन् बहुभिः काम्यकर्मभिः
मुनिप्रसादाद् अधुना पुत्रवान् अस्मि सत्तम ॥
मनसा तद्वियोगं तु न शक्ष्यामि विशेषतः
त्वम् एव जानासि मुने नीत्वा शीघ्रं प्रयच्छ मे ॥
इत्य् एवम् उक्तो राजानं विश्वामित्रो ऽब्रवीत् पुनः
समाप्तयज्ञश् च पुनर् नेष्ये रामं च लक्ष्मणम् ॥
सत्यपूर्वं तु दास्यामि न चिन्तां कर्तुम् अर्हसि
इत्युक्तः प्रेषयाम्_अस रामं लक्ष्मणसंयुतम् ॥
अनिच्छन्न् अपि राजासौ मुनिशापभयान् नृपः
विश्वामित्रस् तु तौ गृह्य अयोध्याया ययौ शनैः ॥
सरय्वास् तीरम् आसाद्य गच्छन्न् एव स कौशिकः
तयोः प्रीत्या स राजेन्द्र द्वे विद्ये प्रथमं ददौ ॥
वलाम् अतिवलां चैव समन्त्रे च ससंग्रहे
क्षुत्पिपासापनयने पुनश् चैव महामतिः ॥
अस्त्रग्रामम् अशेषं तु शिक्षयित्वा तु तौ तदा
आश्रमानि च दिव्यानि मुनीनां भावितात्मनाम् ॥
दर्शयित्वा उषित्वा च पुण्यस्थानेषु सत्तमः
गङ्गाम् उत्तीर्य शोणस्य तीरम् आसाद्य पश्चिमम् ॥
मुनिधार्मिकसिद्धांश् च पश्यन्तौ रामलक्ष्मणौ
ऋषिभ्यश् च वरान् प्राप्य तेन नीतौ नृपात्मजौ ॥
ताटकाया वनं घोरं मृत्योर् मुखम् इवापरम्
गते तत्र नृपश्रेष्ठ विश्वामित्रो महातपाः ॥
रामम् अक्लिष्टकर्माणम् इदं वचनम् अब्रवीत् राम राम महाबाहो ताटका नाम राक्षसी
रावणस्य नियोगेन वसत्य् अस्मिन् महावने तया मनुष्या बहवो मुनिपुत्रा मृगास् तथा ॥
निहता भक्षिताश् चैव तस्मात् तां वध सत्तम
इत्य् एवमुक्तो मुनिना रामस् तं मुनिम् अब्रवीत् ॥
कथं हि स्त्रीवधं कुर्याम् अहम् अद्य महामुने
स्त्रीवधे तु महापापं प्रवदन्ति मनीषिणः ॥
इति रामवचः श्रुत्वा विश्वामित्र उवाच तम्
तस्यास् तु निधनाद् राम जनाः सर्वे निराकुलाः ॥
भवन्ति सततं तस्मात् तस्याः पुण्यप्रदो वधः
इत्य् एवं वादिनि मुनौ विश्वामित्रे निशाचरी ॥
आगता सुमहाघोरा ताटका विवृतानना
मुनिना प्रेरितो रामस् तां दृष्ट्वा विवृताननाम् ॥
उद्यतैकभुजयष्टिम् आयतीं श्रोणिलम्बिपुरुषान्त्रमेखलाम्
तां विलोक्य वनितावधे घृणां पत्रिणा सह मुमोच राघवः ॥
शरं संधाय वेगेन तेन तस्या उरःस्थलम्
विपाटितं द्विधा राजन् सा पपात ममार च ॥
घातयित्वा तु ताम् एवं ताव् आनीय मुनिस् तु तौ
प्रापयाम्_अस तं तत्र नानाऋषिनिषेवितम् ॥
नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम्
नानानिर्झरतोयाढ्यं विन्ध्यशैलान्तरस्थितम् ॥
शाकमूलफलोपेतं दिव्यं सिद्धाश्रमं स्वकम्
रक्षार्थं ताव् उभौ स्थाप्य शिक्षयित्वा विशेषतः ॥
ततश् चारब्धवान् यागं विश्वामित्रो महातपाः
दीक्षां प्रविष्टे च मुनौ विश्वामित्रे महात्मनि ॥
यज्ञे तु वितते तत्र कर्म कुर्वन्ति ऋत्विजः
मारीचश् च सुबाहुश् च बहवश् चान्यराक्षसाः ॥
आगता यागनाशाय रावणेन नियोजिताः
तान् आगतान् स विज्ञाय रामः कमललोचनः ॥
शरेण पातयाम्_अस सुबाहुं धरणीतले
असृक्प्रवाहं वर्षन्तं मारीचं भल्लकेन तु ॥
प्रताड्य नीतवान् अब्धिं यथा पर्णं तु वायुना
शेषांस् तु हतवान् रामो लक्ष्मणाश् च निशाचरान् ॥
रामेण रक्षितमखो विश्वामित्रो महायशाः
समाप्य यागं विधिवत् पूजयाम्_अस ऋत्विजान् ॥
सदस्यान् अपि संपूज्य यथार्हं च ह्य् अरिंदम
रामं च लक्ष्मणं चैव पूजयाम्_अस भक्तितः ॥
ततो देवगणस् तुष्टो यज्ञभागेन सत्तम
ववर्ष पुष्पवर्षं तु रामदेवस्य मूर्धनि ॥
निवार्य राक्षसभयं कारयित्वा तु तन्मखम्
श्रुत्वा नानाकथाः पुण्या रामो भ्रातृसमन्वितः ॥
तेन नीतो विनीतात्मा अहल्या यत्र तिष्ठति
व्यभिचारान् महेन्द्रेण भर्त्रा शप्ता हि सा पुरा ॥
पाषाणभूता राजेन्द्र तस्य रामस्य दर्शनात्
अहल्या मुक्तशापा च जगाम गौतमं प्रति ॥
विश्वामित्रस् ततस् तत्र चिन्तयाम्_अस वै क्षणम्
कृतदारो मया नेयो रामः कमललोचनः ॥
इति संचिन्त्य तौ गृह्य विश्वामित्रो महातपाः
शिष्यैः परिवृतो ऽनेकैर् जगाम मिथिलां प्रति ॥
नानादेशाद् अथायाता जनकस्य निवेशनम्
राजपुत्रा महावीर्याः पूर्वं सीताभिकाङ्क्षिणः ॥
तान् दृष्ट्वा पूजयित्वा तु जनकश् च यथार्हतः
यत् सीतायाः समुत्पन्नं धनुर् माहेश्वरं महत् ॥
अर्चितं गन्धमालाभी रम्यशोभासमन्विते
रङ्गे महति विस्तीर्णे स्थापयाम्_अस तद् धनुः ॥
उवाच च नृपान् सर्वांस् तदोच्चैर् जनको नृपः
आकर्षणाद् इदं येन धनुर् भग्नं नृपात्मजाः ॥
तस्येयं धर्मतो भार्या सीता सर्वाङ्गशोभना
इत्य् एवं श्राविते तेन जनकेन महात्मना ॥
क्रमाद् आदाय ते तत् तु सज्यीकर्तुम् अथाभवन्
धनुषा ताडिताः सर्वे क्रमात् तेन महीपते ॥
विधूय पतिता राजन् विलज्जास् तत्र पार्थिवाः
तेषु भग्नेषु जनकस् तद् धनुस् त्र्यम्बकं नृप ॥
संस्थाप्य स्थितवान् वीरो रामागमनकाङ्क्षया
विश्वामित्रस् ततः प्राप्तो मिथिलाधिपतेर् गृहम् ॥
जनको ऽपि च तं दृष्ट्वा विश्वामित्रं गृहागतम्
रामलक्ष्मणसंयुक्तं शिष्यैश् चाभिगतं तदा ॥
तं पूजयित्वा विधिवत् प्राज्ञं विप्रानुयायिनम्
रामं रघुपतिं चापि लावण्यादिगुणैर् युतम् ॥
शीलाचारगुणोपेतं लक्ष्मणं च महामतिम्
पूजयित्वा यथान्यायं जनकः प्रीतमानसः ॥
हेमपीठे सुखासीनं शिष्यैः पूर्वापरैर् वृतम्
विश्वामित्रम् उवाचाथ किं कर्तव्यं मयेति सः ॥
इति श्रुत्वा वचस् तस्य मुनिः प्राह महीपतिम्
एष रामो महाराज विष्णुः साक्षान् महीपतिः ॥
रक्षार्थं विष्टपानां तु जातो दशरथात्मजः
अस्मै सीतां प्रयच्छ त्वं देवकन्याम् इव स्थिताम् ॥
अस्या विवाहे राजेन्द्र धनुर्भङ्गम् ऊदीरितम्
तद् आनय भवधनुर् अर्चयस्व जनाधिप ॥
तथेत्य् उक्त्वा च राजा हि भवचापं तद् अद्भुतम्
अनेकभूभुजां भङ्गि स्थापयाम्_अस पूर्ववत् ॥
ततो दशरथसुतो विश्वामित्रेण चोदितः
तेषां मध्यात् समुत्थाय रामः कमललोचनः ॥
प्रणम्य विप्रान् देवांश् च धनुर् आदाय तत् तदा
सज्यं कृत्वा महाबाहुर् ज्याघोषम् अकरोत् तदा ॥
आकृष्यमाणं तु बलात् तेन भग्नं महद् धनुः
सीता च मालम् आदाय शुभां रामस्य मूर्धनि ॥
क्षिप्त्वा संवरयाम्_अस सर्वक्षत्रियसंनिधौ
ततस् ते क्षत्रियाः क्रुद्धा रामम् आसाद्य सर्वतः ॥
मुमुचुः शरजालानि गर्जयन्तो महाबलाः
तान् निरीक्ष्य ततो रामो धनुर् आदाय वेगवान् ॥
ज्याघोषतलघोषेण कम्पयाम्_अस तान् नृपान्
चिच्छेद शरजालानि तेषां स्वास्त्रै रथांस् ततः ॥
धनूंषि च पताकाश् च रामश् चिच्छेद लीलया
संनह्य स्वबलं सर्वं मिथिलाधिपतिस् ततः ॥
जामातरं रणे रक्षन् पार्ष्णिग्राहो बभूव ह
लक्ष्मणस् च महावीरो विद्राव्य युधि तान् नृपान् ॥
हस्त्यश्वाञ् जगृहे तेषां स्यन्दनानि बहूनि च
वाहनानि परित्यज्य पलायनपरान् नृपान् ॥
तान् निहन्तुं च धावत् स पृष्ठतो लक्ष्मणस् तदा
मिथिलाधिपतिस् तं च वारयाम्_अस कौशिकः ॥
जितसेनं महावीरं रामं भ्रात्रा समन्वितम्
आदाय प्रतिवेशाथ जनकः स्वगृहं शुभम् ॥
दूतं च प्रेषयाम्_अस तदा दशरथाय सः
श्रुत्वा दूतमुखात् सर्वं विदितार्थः सः पार्थिवः ॥
सभार्यः ससुतः श्रीमान् हस्त्यश्वरथवाहनः
मिथिलाम् आजगामाशु स्वबलेन समन्वितः ॥
जनको ऽप्य् अस्य सत्कारं कृत्वा स्वां च सुतां ततः
विधिवत् कृतशुल्कां तां ददौ रामाय पार्थिव ॥
अपराश् च सुतास् तिस्रो रूपवत्यः स्वलंकृताः
त्रिभ्यस् तु लक्ष्मणादिभ्यः स्वकन्या विधिवद् ददौ ॥
एवं कृतविवाहो ऽसौ रामः कमललोचनः
भ्रातृभिर् मातृभिः सार्धं पित्रा बलवता सह ॥
दिनानि कतिचित् तत्र स्थितो विविधभोजनैः
ततो ऽयोध्यापुरीं गन्तुम् उत्सुकं ससुतं नृपम्
दृष्ट्वा दशरथं राजा सीतायाः प्रददौ वसु ॥
रत्नानि दिव्यानि बहूनि दत्त्वा रामाय वस्त्राण्य् अतिशोभनानि
हस्त्यश्वदासान् अपि कर्मयोग्यान् दासीजनांश् च प्रवराः स्त्रियश् च ॥
सीतां सुशीलां बहुरत्नभूषितां रथं समारोप्य सुतां सुरूपाम्
वेदादिघोषैर् बहुमङ्गलैश् च संप्रेषयां आस स पार्थिवो बली ॥
प्रेषयित्वा सुतां दियां नत्वा दशरथं नृपम्
विश्वामित्रं नमस्कृत्य जनकः संनिवृत्तवान् ॥
तस्य पत्न्यो महाभागाः शिक्षयित्वा सुतां तदा
भर्तृभक्तिं कुरु शुभे श्वश्रूणां श्वशुरस्य च ॥
श्वश्रूणाम् अर्पयित्वा तां निवृत्ता विविशुः पुरम्
ततस् तु रामं गच्छन्तम् अयोध्यां प्रबलान्वितम् ॥
श्रुत्वा परशुरामो वै पन्थानं संरुरोध ह
तं दृष्ट्वा राजपुरुषाः सर्वे ते दीनमानसाः ॥
आसीद् दशरथश् चापि दुःखशोकपरिप्लुतः
सभार्यः सपरीवारो भार्गवस्य भयान् नृप ॥
ततो ऽब्रवीज् जनान् सर्वान् राजानं च सुदुःखितम्
वसिष्ठश् चोर्जिततपा ब्रह्मचारी महामुनिः ॥
युष्माभिर् अत्र रामार्थं न कार्यं दुःखम् अण्व् अपि ॥
पित्रा वा मातृभिर् वापि अन्यैर् भृत्यजनैर् अपि
अयं हि नृपते राम साक्षाद् विष्णुस् तु ते गृहे ॥
जगतः पालनार्थाय जन्मप्राप्तो न संशयः
यस्य संकीर्त्यं नामापि भवभीतिः प्रणश्यति ॥
ब्रह्म मूर्तं स्वयं यत्र भयादेस् तत्र का कथा
यत्र संकीर्त्यते राम कथामात्रम् अपि प्रभो ॥
नोपसर्गभयं तत्र नाकालमरणं नृणाम्
इत्युक्ते भार्गवो रामो रामम् आहाग्रतः स्थितम् ॥
त्यज त्वं रामसंज्ञां तु मया वा संगरं कुरु
इत्युक्ते राघवः प्राह भार्गवं तं पथि स्थितम् ॥
रामसंज्ञां कुतस् त्यक्ष्ये त्वया योत्स्ये स्थिरो भव
इत्य् उक्त्वा तं पृथक् स्थित्वा रामो राजीवलोचनः ॥
ज्याघोषम् अकरोद् वीरो वीरस्यैवाग्रतस् तदा
ततः परशुरामस्य देहान् निष्क्रम्य वैष्णवम् ॥
पश्यतां सर्वभूतानां तेजो राममुखे ऽविशत्
दृष्ट्वा तं भार्गवो रामः प्रसन्नवदनो ऽब्रवीत् ॥
राम राम महाबाहो रामस् त्वं नात्र संशयः
विष्णुर् एव भवाञ् जातो ज्ञातो ऽस्य् अद्य मया विभो ॥
गच्छ वीर यथाकामं देवकार्यं च वै कुरु
दुष्टानां निधनं कृत्वा शिष्टांश् च परिपालय ॥
याहि त्वं स्वेच्छया राम अहं गच्छे तपोवनम्
इत्य् उक्त्वा पूजितस् तैस् तु मुनिभावेन भार्गवः ॥
महेन्द्राद्रिं जगामाथ तपसे धृतमानसः
ततस् तु जातहर्षास् ते जना दशरथश् च ह ॥
पुरीम् अयोध्यां संप्राप्य रामेण सह पार्थिवः
दिव्यशोभां पुरीं कृत्वा सर्वतो भद्रशालिनीम् ॥
प्रत्युत्थाय ततः पौराः शङ्खतूर्यादिभिः स्वनैः
विशन्तं रामम् आगत्य कृतदारं रणे ऽजितम् ॥
तं वीक्ष्य हर्षिताः सन्तो विविशुस् तेन वै पुरीम्
तौ दृष्ट्वा स मुनिः प्राप्तौ रामं लक्ष्मणम् अन्तिके ॥
दशरथाय तत्पित्रे मातृभ्यश् च विशेषतः
तौ समर्प्य मुनिश्रेष्ठस् तेन राज्ञा च पूजितः
विश्वामित्रश् च सहसा प्रतिगन्तुं मनो दधे ॥
समर्प्य रामं स मुनिः सहानुजं सभार्यम् अग्रे पितुर् एकवल्लभम्
पुनः पुनः श्राव्य हसन् महामतिर् जगाम सिद्धाश्रमम् एवम् आत्मनः ॥
मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0