नरसिंहपुराण · अध्याय 45
शृणु राजन् समासेन वामनस्य पराक्रमम्
बलियागे हता येन पुरा दैत्याः सहस्रशः ॥
विरोचनसुतः पूर्वं महाबलपराक्रमः
त्रैलोक्यं बुभुजे जित्वा देवान् इन्द्रपुरोगमान् ॥
ततः कृशतरा देवा बभूवुस् तेन खण्डिताः
इन्द्रं कृशतरं दृष्ट्वा नष्टराज्यं नृपोत्तम ॥
अदितिर् देवमाता या सातप्यत् परमं तपः
तुष्टाव वाग्भिर् इष्टाभिः प्रणिपत्य जनार्दनम् ॥
ततः स्तुत्याभिसंतुष्टो देवदेवो जनार्दनः
स्थित्वा तत्पुरतो वाचम् उवाच मधुसूदनः ॥
तव पुत्रो भविष्यामि सुभगे बलिबन्धनः
इत्य् उक्त्वा तां गतो विष्णुः स्वगृहं सा समाययौ ॥
ततः कालेन सा गर्भम् अवाप नृप कश्यपात्
अजायत स विश्वेशो भगवान् वामनाकृतिः ॥
तस्मिञ् जाते समागत्य ब्रह्मा लोकपितामहः
जातकर्मादिकाः सर्वाः क्रियास् तत्र चकार वै ॥
कृतोपनयनो देवो ब्रह्मचारी सनातनः
अदितिं चप्य् अनुज्ञाप्य यज्ञशालां बलेर् ययौ ॥
गच्छतः पादविक्षेपाच् चचाल सकला मही
यज्ञभागान् न गृह्णन्ति दानवाश् च बलेर् मखात् ॥
प्रशान्ताश् चाग्नयस् तत्र ऋत्विजो मन्त्रतश् च्युताः
विपरीतम् इदं दृष्ट्वा शुक्रम् आह महाबलः ॥
न गृह्णन्ति मुने कस्माद् *धविर्भागं महासुराः
कस्माच् च वह्नयः शान्ताः कस्माद् भूश् चलति द्विज ॥
कस्माच् च मन्त्रतो भ्रष्टा ऋत्विजः सकला अमी
इत्युक्तो बलिना शुक्रो दानवेन्द्रं वचो ऽब्रवीत् ॥
हे बले शृणु मे वाक्यं त्वया देवा निराकृताः
तेषां राज्यप्रदानाय अदित्याम् अच्युतो ऽसुर ॥
देवदेवो जगद्योनिः संजातो वामनाकृतिः
स त्व् आगच्छति ते यज्ञं तद्पदन्यासकम्पिता ॥
चलतीयं मही सर्वा तेनाद्यासुरभूपते
तत्संनिधानाद् असुरा न गृह्णन्ति हविर् मखे ॥
तवाग्नयो ऽपि वै शान्ता वामनागमनाद् धि भोः
ऋत्विजश् च न भासन्ते होममन्त्रो बले ऽधुना ॥
असुराणां श्रियो हन्ति सुराणां भूतिर् उत्तमा
इत्युक्तः स बलिः प्राह शुक्रं नीतिमतां वरम् ॥
शृणु ब्रह्मन् वचो मे त्वम् आगते वामने मखे
यन् मया चाद्य कर्तव्यं वामनस्यास्य धीमतः ॥
तन् मे वद महाभाग त्वं हि नः परमो गुरुः ॥
इति संचोदितः शुक्रः स राज्ञा बलिना नृप ॥
तम् उवाच बलिं वाक्यं ममापि शृणु सांप्रतम्
देवानाम् उपकाराय भवतां संक्षयाय च ॥
स नूनम् आयाति बले तव यज्ञे न शंशयः
आगते वामने देवे त्वया तस्य महात्मनः ॥
प्रतिज्ञा नैव कर्तव्या ददाम्य् एतत् तवेति वै
इति श्रुत्वा वचस् तस्य बलिर् बलवतां वरः ॥
उवाच तां शुभां वाणीं शुक्रम् आत्मपुरोहितम्
आगते वामने शुक्र यज्ञे मे मधुसूदने ॥
न शक्यते प्रतिख्यातुं दानं प्रति मया गुरो
अन्येषाम् अपि जन्तूनाम् इत्य् उक्तं ते मयाधुना ॥
किं पुनर् वासुदेवस्य आगतस्य तु शार्ङ्गिणः
त्वया विघ्नो न कर्तव्यो वामने ऽत्रागते द्विज ॥
यद् यद् द्रव्यं प्रार्थयते तत् तद् द्रव्यं ददाम्य् अहम्
कृतार्थो ऽहं मुनिश्रेष्ठ यद्य् आगच्छति वामनः ॥
इत्य् एवं वदतस् तस्य यज्ञशालां स वामनः
आगत्य प्रविवेशाथ प्रशशंस बलेर् मखम् ॥
तं दृष्ट्वा सहसा राजन् राजा दैत्याधिपो बलिः
उपचारेण संपूज्य वाक्यम् एतद् उवाच ह ॥
यद् यत् प्रार्थयसे मां त्वं देवदेव धनादिकम्
तत् सर्वं तव दास्यामि मां याचस्वाद्य वामन ॥
इत्युक्तो वामनस् तत्र नृपेन्द्र बलिना तदा
याचयाम्_अस देवेशो भूमेर् देहि पदत्रयम् ॥
ममाग्निशरणार्थाय न मे ऽर्थे ऽस्ति प्रयोजनम्
इत्युक्तो वामनेनाथ बलिः प्राह च वामनम् ॥
पदत्रयेण चेत् तृप्तिर् मया दत्तं पदत्रयम्
एवम् उक्ते तु बलिना वामनो बलिम् अब्रवीत् ॥
दीयतां मे करे तोयं यदि दत्तं पदत्रयम्
इत्युक्तो देवदेवेन तदा तत्र स्वयं बलिः ॥
सजलं हेमकलशं गृहीत्वोत्थाय भक्तितः
यावत् स वामनकरे तोयं दातुम् उपस्थितः ॥
तावच् छुक्रः कलशगो जलधारां रोरोध ह
ततश् च वामनः क्रुद्धः पवित्राग्रेण सत्तम ॥
उदके कलशद्वारि तच्छुक्राक्षिम् अवेधयत्
ततो व्यपगतः शुक्रो विद्धैकाक्षो नरोत्तम ॥
तोयधारा निपतिता वामनस्य करे पुनः
करे निपतिते तोये वामनो ववृधे क्षणात् ॥
पादेनैकेन विक्रान्ता तेनैव सकला मही
अन्तरिक्षं द्वितीयेन द्यौस् तृतीयेन सत्तम ॥
अनेकान् दानवान् हत्वा हृत्वा त्रिभुवनं बलेः
पुरंदराय त्रैलोक्यं दत्त्वा बलिम् उवाच ह ॥
यस्मात् ते भक्तितो दत्तं तोयम् अद्य करे मम
तस्मात् ते सांप्रतं दत्तं पातालतलम् उत्तमम् ॥
तत्र गत्वा महाभाग भुङ्क्ष्व त्वं मत्प्रसादतः
वैवस्वते ऽन्तरे ऽतीते पुनर् इन्द्रो भविष्यसि ॥
प्रणम्य च ततो गत्वा तलं भोगम् अवाप्तवान् ॥
शुक्रो ऽपि स्वर्गम् आरुह्य प्रसादाद् वामनस्य वै
समागतास् त्रिभुवनं राजन् देवसमन्वितः ॥
यः स्मरेत् प्रातर् उत्थाय वामनस्य कथाम् इमाम्
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥
इत्थं पुरा वामनरूपम् आस्थितो हरिर् बलेर् हृत्य जगत्त्रयं नृप
कृत्वा प्रसादं च दिवौकसां पतेर् दत्त्वा त्रिलोकं स ययौ महोदधिम् ॥
मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0