नरसिंहपुराण · अध्याय 46
अतः परं प्रवक्ष्यामि प्रादुर्भावं हरेः शुभम्
जामदग्न्यं पुरा येन क्षत्रम् उत्सादितं शृणु ॥
पुरा देवगणैर् विष्णुः स्तुतः क्षीरोदधौ नृप
ऋषिभिश् च महाभागैर् जमदग्नेः सुतो ऽभवत् ॥
पर्शुराम इति ख्यातः सर्वलोकेषु स प्रभुः
दुष्टानां निग्रहं कर्तुम् अवतीर्णो महीतले ॥
कृतवीर्यसुतः श्रीमान् कार्तवीर्यो ऽभवत् पुरा
दत्तात्रेयं समाराध्य चक्रवर्तित्वम् आप्तवान् ॥
स कदाचिन् महाभागो जमदग्न्याश्रमं ययौ
जमदग्निस् तु तं दृष्ट्वा चतुरङ्गबलान्वितम् ॥
उवाच मधुरं वाक्यं कार्तवीर्यं नृपोत्तमम्
मुच्यताम् अत्र ते सेना अतिथिस् त्वं समागतः
वन्यादिकं मया दत्तं भुक्त्वा गच्छ महामते ॥
प्रमुच्य सेनां मुनिवाक्यगौरवात् स्थितो नृपस् तत्र महानुभावः
आमन्त्र्य राजानम् अलङ्घ्यकीर्तिर् मुनिः स धेनुं च दुदोह दोग्ध्रीम् ॥
हस्त्यश्वशाला विविधा नराणां गृहाणि चित्राणि च तोरणानि
सामन्तयोग्यानि शुभानि राजन् समिच्छतां यानि सुकाननानि ॥
गृहं वरिष्ठं बहुभूमिकं पुनः समन्वितं साधुगुणैर् उपस्करैः
दुग्ध्वा प्रकल्पन् मुनिर् आह पार्थिवं गृहं कृतं ते प्रविशेह राजन् ॥
इमे च मन्त्रिप्रवरा जनास् ते गृहेषु दिव्येषु विशन्तु शीघ्रम्
हस्त्यश्वजात्यश् च विशन्तु शालां भृत्याश् च नीचेषु गृहेषु सन्तु ॥
इत्युक्तमात्रे मुनिना नृपो ऽसौ गृहं वरिष्ठं प्रविवेश राजा
अन्येषु चान्येषु गृहेषु सत्सु मुनिः पुनः पार्थिवम् आबभाषे ॥
स्नानप्रदानार्थम् इदं मया ते प्रकल्पितं स्त्रीशतम् उत्तमं नृप
स्नाहि त्वम् अद्यात्र यथाप्रकामं यथा सुरेन्द्रो दिवि नृत्यगीतैः ॥
स स्नातवांस् तत्र सुरेन्द्रवन् नृपो गीत्यादिशब्दैर् मधुरैश् च वाद्यैः
स्नातस्य तस्याशु शुभे_2 च वस्त्रे_2 ददौ मुनिर् भूप विभूषिते_2 द्वे ॥
परिधाय वस्त्रं च कृतोत्तरीयः कृतक्रियो विष्णुपूजां चकार
मुनिश् च दुग्ध्वान्नमयं महागिरिं नृपाय भृत्याय च दत्तवान् असौ ॥
यावत् स राजा बुभुजे सभृत्यस् तावच् च सूर्यो गतवान् नृपास्तम्
रात्रौ च गीतादिविनोदयुक्तः शेते स राजा मुनिनिर्मिते गृहे ॥
ततः प्रभाते विमले स्वप्नलब्धम् इवाभवत्
भूमिभागं ततः कंचिद् दृष्ट्वासौ चिन्तयन् नृपः ॥
किम् इयं तपसः शक्तिर् मुनेर् अस्य महात्मनः
सुरभ्या वा महाभाग ब्रूहि मे त्वं पुरोहित ॥
इत्युक्तः कार्तवीर्येण तम् उवाच पुरोहितः
मुनेः सामर्थ्यम् अप्य् अस्ति सिद्धिश् चेयं हि गोर् नृप ॥
तथापि सा न हर्तव्या त्वया लोभान् नराधिप
यस् त्व् एतां हर्तुम् इच्छेद् वै तस्य नाशो ध्रुवं भवेत् ॥
अथ मन्त्रिवरः प्राह ब्राह्मणो ब्राह्मणप्रियः
राजकार्यं ने पश्येद् वै स्वपक्षस्यैव पोषणात् ॥
हे राजंस् त्वयि तिष्ठन्ति गृहाणि विविधानि च
तथा सुवर्णपात्राणि शयनादीनि च स्त्रियः ॥
तां धेनुं प्राप्य राजेन्द्र लीयमानानि तत्क्षणात्
अस्माभिस् तत्र दृष्टानि नीयतां धेनुर् उत्तमा ॥
तवैव योग्या राजेन्द्र यदीच्छसि महामते
गतवाहम् आनयिष्यामि आज्ञां मे देहि भूभुज ॥
इत्युक्तो मन्त्रिणा राजा तथेत्य् आह नृपोत्तम
सचिवस् तत्र गत्वाथ सुरभिं हर्तुम् आरभत् ॥
वारयाम्_अस सचिवं जमदग्निः समन्ततः
राजयोग्याम् इमां ब्रह्मन् देहि राज्ञे महामते ॥
त्वं तु शाकफलाहारी किं धेन्वा ते प्रयोजनम्
इत्य् उक्त्वा तां बलाद् धृत्वा नेतुं मन्त्री प्रचक्रमे ॥
पुनः सभार्यः स मुनिर् वारयाम्_अस तं नृपम्
ततो मन्त्री सुदुष्टात्मा मुनिं हत्वा तु तं नृप ॥
ब्रह्महा नेतुम् आरेभे वायुमार्गेण सा गता
राजा च क्षुब्धहृदयो ययौ माहिष्मतीं पुरीम् ॥
मुनिपत्नी सुदुःखार्ता रोदयन्ती भृशं तदा
त्रिसप्तकृत्वः स्वां कुक्षिं ताडयाम्_अस पार्थिव ॥
तच् छृण्वन्न् आगतो रामो गृहीतपरशुस् तदा
पुष्पादीनि गृहीत्वा तु वनान् मातरम् अब्रवीत् ॥
अलम् अम्ब प्रहारेण निमित्ताद् विदितं मया
हनिष्यामि दुराचारम् अर्जुनं दुष्टमन्त्रिणम् ॥
त्वयैकविंशवारेण यस्मात् कुक्षिश् च ताडिता
त्रिःसप्तकृत्वस् तस्मात् तु हनिष्ये भुवि पार्थिवान् ॥
इति कृत्वा प्रतिज्ञां स गृहीत्वा परशुं ययौ
माहिष्मतीं पुरीं प्राप्य कार्तवीर्यम् अथाह्वयत् ॥
युद्धार्थम् आगतः सो ऽथ अनेकाक्षौहिणीयुतः
तयोर् युद्धम् अभूत् तत्र भैरवं लोमहर्षणम् ॥
पिशिताशिजनानन्दं शस्त्रास्त्रशतसंकुलम्
ततः परशुरामो ऽभून् महाबलपराक्रमः ॥
परं ज्योतिर् अचिन्त्यात्मा विष्णुः कारणमूर्तिमान्
कार्तवीर्यबलं सर्वम् अनेकैः क्षत्रियैः सह ॥
हत्वा निपात्य भूमौ तु परमाद्भुतविक्रमः
कार्तवीर्यस्य बाहूनां वनं चिच्छेद रोषवान्
छिन्ने बाहुवने तस्य शिरश् चिच्छेद भार्गवः ॥
विष्णुहस्ताद् वधं प्राप्य चक्रवर्ती स पार्थिवः
दिव्यरूपधरः श्रीमान् दिव्यगन्धानुलेपनः ॥
दिव्यं विमानम् आरुह्य विष्णुलोकम् अवाप्तवान्
क्रोधात् परशुरामो ऽपि महाबलपराक्रमः ॥
त्रिःसप्तकृत्वो भूम्यां वै पार्थिवान् निजघान सः
क्षत्रियाणां वधात् तेन भूमेर् भारो ऽवतारितः ॥
भूमिश् च सकला दत्ता कश्यपाय महात्मने
इत्य् एष जामदग्न्याख्यः प्रादुर्भावो मयोदितः ॥
यश् च तच् छृणुयाद् भक्त्या सर्वपापैः प्रमुच्यते ॥
अवतीर्य भूमौ हरिर् एष साक्षात् त्रिःसप्तकृत्वः क्षितिपान् निहत्य स
क्षात्रं च तेजो प्रविभज्य राजन् रामः स्थितो ऽद्यापि गिरौ महेन्द्रे ॥
मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0