भाषा

ENहिગુ
ग्रंथ पाठ

नरसिंहपुराण · अध्याय 44

44.1

अथागतं ते प्रह्लादं दृष्ट्वा दैत्याः सुविस्मिताः
शशंसुर् दैत्यपतये यैः क्षिप्तः स महार्णवे ॥

44.2

स्वस्थं तम् आगतं श्रुत्वा दैत्यराड् विस्मयाकुलः
आहूयतां च इत्य् आह क्रोधान् मृत्युवशे स्थितः ॥

44.3

तथासुरैर् दुरानीतः समासीनं स दिव्यदृक्
आसन्नमृत्युं दैत्येन्द्रं ददर्शात्यूर्जितश्रियम् ॥

44.4

नीलांशुमिश्रमाणिक्य द्युतिच्छन्नविभूषणम्
सधूमाग्निम् इव व्याप्तम् उच्चासनचितिस्थितम् ॥

44.5

दंष्ट्रोत्कटैर् घोरतरैर् घनच्छविभिर् उद्भटैः
कुमार्गदर्शिभिर् दैत्यैर् यमदूतैर् इवावृतम् ॥

44.6

दूरात् प्रणम्य पितरं प्राञ्जलिस् तु व्यवस्थितः
अथाहाकरणक्रोधः स खलो भर्त्सयन् सुतम् ॥

44.7

भगवत्प्रियम् अत्युच्चैर् मृत्युम् एवाश्रयन्न् इव
मूढ रे शृणु मद्वाक्यम् एतद् एवान्तिमं ध्रुवम् ॥

44.8

इतो न त्वां प्रवक्ष्यामि श्रुत्वा कुरु यथेप्सितम्
उक्त्वेति द्रूतम् आकृष्य चन्द्रहासासिम् अद्भुतम् ॥

44.9

संभ्रमाद् वीक्षितः सर्वैश् चालयन्न् आह तं पुनः
क्व चास्ति मूढ ते विष्णुः स त्वाम् अद्य प्ररक्षतु ॥

44.10

त्वयोक्तं स हि सर्वत्र कस्मात् स्तम्भे न दृश्यते
यदि पश्यामि तं विष्णुम् अधुना स्तम्भमध्यगम् ॥

44.11

तर्हि त्वां न वधिष्यामि भविष्यसि द्विधान्यथा
प्रह्लादो ऽपि तथा दृष्ट्वा दध्यौ तं परमेश्वरम् ॥

44.12

पुरोक्तं तद्वचः स्मृत्वा प्रणनाम कृताञ्जलिः
तावत्प्रस्फुटितस्तम्भो वीक्षितो दैत्यसूनुना ॥

44.13

आदर्शरूपे दैत्यस्य खड्गजो यः प्रतिष्ठितः
तन्मध्ये दृश्यते रूपं बहुयोजनम् आयतम् ॥

44.14

अतिरौद्रं महाकायं दानवानां भयंकरम्
महानेत्रं महावक्त्रं महादंष्ट्रं महाभुजम् ॥

44.15

महानखं महापादं कालाग्निसदृशाननम्
कर्णान्तकृतविस्तार वदनं चातिभीषणम् ॥

44.16

कृत्वेत्थं नारसिंहं तु ययौ विष्णुस् त्रिविक्रमः
नरसिंहः स्तम्भमध्याद् निर्गत्य प्रणनाद च ॥

44.17

निनादश्रवणाद् दैत्या नरसिंहम् अवेष्टयन्
तान् हत्वा सकलांस् तत्र स्वपौरुषपराक्रमात् ॥

44.18

बभञ्ज च सभां दिव्यां हिरण्यकशिपोर् नृप
वारयाम्_असुर् अभ्येत्य नरसिंहं महाभटाः ॥

44.19

ते तु राजन् क्षणाद् एव नरसिंहेन वै हताः
ततः शस्त्राणि वर्षन्ति नरसिंहे प्रतापिनि ॥

44.20

स तु क्षणेन भगवान् हत्वा तद् बलम् ओजसा
ननाद च महानादं दिशः शब्देन पूरयन् ॥

44.21

तान् मृतान् अपि विज्ञाय पुनर् अन्यान् महासुरः
अष्टाशीतिसहस्राणि हेतिहस्तान् समादिशत् ॥

44.22

ते ऽप्य् आगत्य वै तं देवं रुरुधुः सर्वतो दिशम्
हत्वा तान् अखिलान् युद्धे युध्यमानो ननाद सः ॥

44.23

पुनः सभां बभञ्जासौ हिरण्यकशिपोः शुभाम्
तान् हतान् अपि विज्ञाय क्रोधसंरक्तलोचनः ॥

44.24

ततो हिरण्यकशिपुर् निश्चक्राम महाबलः
उवाच च महीपाल दानवान् बलदर्पितान् ॥

44.25

हन्यतां हन्यताम् एव गृह्यतां गृह्यताम् अयम्
इत्य् एवं वदतस् तस्य प्रमुखे तु महासुरान् ॥

44.26

युध्यमानान् रणे हत्वा नरसिंहो ननाद च
ततो ऽतिदुद्रुवुर् दैत्या हतशेषा दिशो दिशः ॥

44.27

यावद् धता युध्यमाना दैत्याः कोटिसहस्रशः
नरसिंहेन तावच् च नभोभागं गतो रविः ॥

44.28

शस्त्रास्त्रवर्षचतुरं हिरण्यकशिपुं जवात्
प्रगृह्य तु बलाद् राजन् नरसिंहो महाबलः ॥

44.29

संध्याकाले गृहद्वारि स्थित्वोरौ स्थाप्य तं रिपुम्
वज्रतुल्यमहोरस्कं हिरण्यकशिपुं रुषा
नखैर् किसलयम् इव दारयत्य् आह सो ऽसुरः ॥

44.30

यत्राखण्डलदन्तिदन्तमुसलान्य् आखण्डितान्य् आहवे धारा यत्र पिनाकपाणिपरशोर् आकुण्ठताम् आगमत्
तन् मे तावद् उरो नृसिंहकरजैर् व्यादीर्यते सांप्रतं दैवे दुर्जनतां गते तृणम् अपि प्रायो ऽप्य् अवज्ञायते ॥

44.31

एवं वदति दैत्येन्द्रे ददार नरकेसरी
हृदयं दैत्यराजस्य पद्मपत्रम् इव द्विपः ॥

44.32

शकले द्वे तिरोभूते नखरन्ध्रे महात्मने
ततः क्व यातो दुष्टो ऽसाव् इति देवो ऽतिविस्मितः ॥

44.33

निरीक्ष्य सर्वतो राजन् वृथैतत् कर्म मे ऽभवत्
इति संचिन्त्य राजेन्द्र नरसिंहो महाबलः ॥

44.34

व्यधूनयत् कराव् उच्चैस् ततस् ते शकले नृप
नखरन्ध्रान् निपतिते भूमौ रेणुसमे हरेः ॥

44.35

दृष्ट्वा व्यतीतसंरोषो जहास परमेश्वरः
पुष्पवर्षं च वर्षन्तो नरसिंहस्य मूर्धनि ॥

44.36

देवा सब्रह्मकाः सर्वे आगताः प्रीतिसंयुताः
आगत्य पूजयाम्_असुर् नरसिंहं परं प्रभुम् ॥

44.37

ब्रह्मा च दैत्यराजानं प्रह्लादम् अभिषेचयत्
धर्मे रतिः समस्तानां जनानाम् अभवत् तदा ॥

44.38

इन्द्रो ऽपि सर्वदेवैस् तु हरिणा स्थापितो दिवि
नरसिंहो ऽपि भगवान् सर्वलोकहिताय वै ॥

44.39

श्रीशैलशिखरं प्राप्य विश्रुतः सुरपूजितः
स्थितो भक्तहितार्थाय अभक्तानां क्षमाय च ॥

44.40

इत्य् एतन् नरसिंहस्य माहात्म्यं यः पठेन् नरः
शृणोति वा नृपश्रेष्ठ मुच्यते सर्वपातकैः ॥

44.41

नरो वा यदि वा नारी शृणोत्य् आख्यानम् उत्तमम्
वैधव्याद् दुःखशोकाच् च दुष्टसङ्गात् प्रमुच्यते ॥

44.42

दुश्शीलो ऽपि दुराचारो दुष्प्रजो दोषकर्मकृत्
अधर्मिष्ठो ऽनभोगी च शृण्वन् शुद्धो भवेन् नरः ॥

44.43

हरिः सुरेशो नरलोकपूजितो हिताय लोकस्य चराचरस्य
कृत्वा विरूपं च पुरात्ममायया हिरण्यकं दुःखकरं नखैश् छिनत् ॥

मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc