नरसिंहपुराण · अध्याय 43
अथ स गुरुगृहे ऽपि वर्तमानः सकलविदच्युतसक्तपुण्यचेताः
जड इव विचचार बाह्यकृत्ये सततम् अनन्तमयम् जगत् प्रपश्यन् ॥
सहगुरुकुलवासिनः कदाचिच् छ्रुतिविरता ह्य् अवदन् समेत्य बालाः
तव चरितम् अहो विचित्रम् एतत् क्षितिपतिपुत्र यतो ऽस्य् अभोगलुब्धः
हृदि किम् अपि विचिन्त्य हृष्टरोमा भवसि सदा च वदाङ्ग यद्य् अगुह्यम् ॥
इति गदितवतः स मन्त्रिपुत्रान् अवदद् इदं नृप सर्ववत्सलत्वात्
शृणुत सुमनसः सुरारिपुत्रा यद् अहम् अनन्यरतिर् वदामि पृष्टः ॥
धनजनतरुणीविलासरम्यो भवविभवः किल भाति यस् तम् एनम्
विमृशत सुबुधैर् उतैष सेव्यो द्रुतम् अथ वा परिवर्ज्य एव दूरात् ॥
प्रथमम् इह विचार्यतां यद् अम्बा जठरगतैर् अनुभूयते सुदुःखम्
सुकुटिलतनुभिस् तदग्नितप्तैर् विविधपुराजननानि संस्मरद्भिः ॥
कारागृहे दस्युर् इवास्मि बद्धो जरायुणा विट्कृमिमूत्रगेहे
पश्यामि गर्भे ऽपि सकृन् मुकुन्द पादाब्जयोर् अस्मरणेन कष्टम् ॥
तस्मात् सुखं गर्भशयस्य नास्ति बाल्ये तथा यौवनवार्द्धके वा
एवं भवो दुःखमयः सदैव सेव्यः कथं दैत्यसुताः प्रबुद्धैः
एवं भवे ऽस्मिन् परिमृग्यमाणा वीक्षामहे नैव सुखांशलेशम् ॥
यथा यथा साधु विचारयामस् तथा तथा दुःखतरं च विद्मः
तस्माद् भवे ऽस्मिन् किल चारुरूपे दुःखाकरे नैव पतन्ति सन्तः ॥
पतन्त्य् अथो ऽतत्त्वविदः सुमूढा वह्नौ पतंगा इव दर्शनीये
यद्य् अस्ति नान्यच् छरणं सुखाय युक्तं तदैतत् पतनं सुखाभे ॥
अविन्दताम् अन्नम् अहो कृशानां युक्तं हि पिण्याकतुषादिभक्षणम्
अस्ति त्व् अजं श्रीपतिपादपद्म द्वंद्वार्चनप्राप्यम् अनन्तम् आद्यम् ॥
अक्लेशतः प्राप्यम् इदं विसृज्य महासुखं यो ऽन्यसुखानि वाञ्छेत्
राज्यं करस्थं स्वम् असौ विसृज्य भिक्षाम् अटेद् दीनमनाः सुमूढः ॥
तच् चार्च्यते श्रीपतिपादपद्म द्वंद्वं न वस्त्रैर् न धनैः श्रमैर् न
अनन्यचित्तेन नरेण किंतु उच्चार्यते केशव माधवेति ॥
एवं भवं दुःखमयं विदित्वा दैत्यात्मजाः साधु हरिं भजध्वम्
एवं जनो जन्मफलं लभेत नो चेद् भवाब्धौ प्रपतेद् अधो ऽधः ॥
तस्माद् भवे ऽस्मिन् हृदि शङ्कचक्र गदाधरं देवम् अनन्तम् ईड्यम्
स्मरन्तु नित्यं वरदं मुकुन्दं सद्भक्तियोगेन निवृत्तकामाः ॥
अनास्तिकत्वात् कृपया भवद्भ्यो वदामि गुह्यं भवसिन्धुसंस्थाः
सर्वेषु भूतेषु च मित्रभावं भजन्त्व् अयं सर्वगतो हि विष्णुः ॥
प्रह्लाद त्वं वयं चापि बालभावान् महामते
षण्डामर्कात् परं मित्रं गुरुं चान्यं न विद्महे ॥
त्वयैतच् छिक्षितं कुत्र तथ्यं नो वद निस्तुषम् ॥
यदा तातः प्रयातो मे तपोर्थं काननं महत् ॥
तदा चेन्द्रः समागत्य पुरं तस्य रुरोध ह
मृतं विज्ञाय दैत्येन्द्रं हिरण्यकशिपुं तदा ॥
इन्द्रो मे जननीं गृह्य प्रयातो मन्मथाग्निना
दह्यमानो महाभागां मार्गे गच्छति सत्वरम् ॥
तदा मां गर्भगं ज्ञात्वा नारदो देवदर्शनः
आगत्येन्द्रं जगादोच्चैर् मूढ मुञ्च पतिव्रताम् ॥
अस्या गर्भे स्थितो यो ऽसौ स वै भागवतोत्तमः
तच् छ्रुत्वा नारदवचो मातरं प्रणिपत्य मे ॥
विष्णुभक्त्या प्रमुच्याथ गतः स्वं भुवनं हरिः
नारदस् तां समानीय आश्रमं स्वं शुभव्रतः ॥
माम् उद्दिश्य महाभागाम् एतद् वै कथितं तदा
तथा मे विस्मृतं नैव बालाभ्यासाद् दनोः सुताः ॥
विष्णोश् चानुग्रहेणैव नारदस्योपदेशतः
एकदा गुप्तचर्यायां गतो ऽसौ राक्षसाधिपः ॥
शृणोति रात्रौ नगरे जय रामेति कीर्तनम्
अवैत् पुत्रकृतं सर्वं बलवान् दानवेश्वरः ॥
अथाहूयाह दैत्येन्द्रः क्रोधान्धः स पुरोहितान्
रे रे क्षुद्रद्विजा यूयम् अतिमुमूर्षतां गताः ॥
प्रह्लादो ऽयं मृषालापान् वक्त्य् अन्यान् पाठयत्य् अपि
इति निर्भर्त्स्य तान् विप्रान् श्वसन् राजाविशद् गृहम् ॥
न च पुत्रवधे चिन्तां जहौ स्ववधकारिणीम्
आसन्नमरणो ऽमर्षात् कृत्यम् एकं विमृश्य सः ॥
अकृत्यम् एव दैत्यादीन् आहूयोपादिशद् रहः
अद्य क्षपायां प्रह्लादं प्रसुप्तं दुष्टम् उल्बणैः ॥
नागपाशैर् दृढं बद्ध्वा मध्ये निक्षिपताम्बुधेः
तदाज्ञां शिरसादाय ददृशुस् तम् उपेत्य ते ॥
रात्रिप्रियं समाधिस्थं प्रबुद्धं सुप्तवत् स्थितम्
संछिन्नरागलोभादि महाबन्धं क्षपाचराः ॥
बबन्धुस् तं महात्मानं फल्गुभिः सर्परज्जुभिः
गरुडध्वजभक्तं तं बुद्ध्वाहिभिर् अबुद्धयः ॥
जलशायिप्रियं नीत्वा जलराशौ निचिक्षिपुः
बलिनस् ते ऽचलान् दैत्या तस्योपरि निधाय च ॥
शशंसुस् तं प्रियं राज्ञे द्रुतं तान् सो ऽप्य् अमानयत्
प्रह्लादं चाब्धिमध्यस्थं तम् और्वाग्निम् इवापरम् ॥
ज्वलन्तं तेजसा विष्णोर् ग्राहा भूरिभियात्यजन्
स चाभिन्नचिदानन्द सिन्धुमध्ये समाहितः ॥
न वेद बद्धम् आत्मानं लवणाम्बुधिमध्यगम्
अथ ब्रह्मामृताम्भोधि, मये स्वस्मिन् स्थिते मुनौ ॥
ययौ क्षोभं द्वितीयाब्धि प्रवेशाद् इव सागरः
क्लेशात् क्लेशान् इवोद्धूय प्रह्लादम् अथ वीचयः ॥
निन्युस् तीरे ऽप्लवाम्भोधेः गुरूक्तय इवाम्बुधेः
ध्यानेन विष्णुभूतं तं भगवान् वरुणालयः ॥
विन्यस्य तीरे रत्नानि गृहीत्वा द्रष्टुम् आययौ
तावद् भगवतादिष्टः प्रहृष्टः पन्नगाशनः ॥
बन्धनाहीन् समभ्येत्य भक्षयित्वा पुनर् ययौ
अथाबभाषे प्रह्लादं गम्भीरध्वनिर् अर्णवः ॥
प्रणम्य दिव्यरूपः सन् समाधिस्थं हरेः प्रियम्
प्रह्लाद भगवद्भक्त पुण्यात्मन्न् अर्णवो ऽस्म्य् अहम् ॥
चक्षुर्भ्याम् अथ मां दृष्ट्वा पावयार्थिनम् आगतम्
इत्य् अम्बुधिगिरः श्रुत्वा स महात्मा हरेः प्रियः ॥
उद्वीक्ष्य सहसा देवं तं नत्वाहासुरात्मजः
कदागतं भगवता तम् अथाम्बुधिर् अब्रवीत् ॥
योगिन्न् अज्ञातवृत्तस् त्वम् अपराद्धं तवासुरैः
बद्धस् त्वम् अहिभिर् दैत्यैर् मयि क्षिप्तो ऽद्य वैष्णव ॥
ततस् तूर्णं मया तीरे न्यस्तस् त्वं फणिनश् च तान्
इदानीम् एव गरुडो भक्षयित्वा गतो महान् ॥
महात्मन्न् अनुगृह्णीष्व त्वं मां सत्सङ्गम् आर्थिनम्
गृहाणेमानि रत्नानि पूज्यस् त्वं मे हरिर् यथा ॥
यद्य् अप्य् एतैर् न ते कृत्यं रत्नैर् दास्याम्य् अथाप्य् अहम्
दीपान् निवेदयत्य् एव भास्करस्यापि भक्तिमान् ॥
त्वम् आपत्स्व् अपि घोरासु विष्णुनैव हि रक्षितः
त्वादृशा निर्मलात्मानो न सन्ति बहवो ऽर्कवत् ॥
बहुना किं कृतार्थो ऽस्मि यत् तिष्ठामि त्वया सह
आलपामि क्षणम् अपि नेक्षे ह्य् एतत् फलोपमाम् ॥
इत्य् अब्धिना स्तुतः श्रीश माहात्म्यवचनैः स्वयम्
ययौ लज्जां प्रहर्षं च प्रह्लादो भगवत्प्रियः ॥
प्रतिगृह्य स रत्नानि वत्सलः प्राह वारिधिम्
महात्मन् सुतरां धन्यः शेते त्वयि हि स प्रभुः ॥
कल्पान्ते ऽपि जगत् कृत्स्नं ग्रसित्वा स जगन्मयः
त्वय्य् एवैकार्णवीभूते शेते किल महात्मनि ॥
लोचनाभ्यां जगन्नाथं द्रष्टुम् इच्छामि वारिधे
त्वं पश्यसि सदा धन्यस् तत्रोपायं प्रयच्छ मे ॥
उक्त्वेति पादावनतं तूर्णम् उत्थाप्य सागरः
प्रह्लादं प्राह योगीन्द्र त्वं पश्यसि सदा हृदि ॥
द्रष्टुम् इच्छस्य् अथाक्षिभ्यां स्तुहि तं भक्तवत्सलम्
उक्त्वेति सिन्धुः प्रह्लादम् आत्मनः स जले ऽविशत् ॥
गते नदीन्द्रे स्थित्वैको हरिं रात्रौ स दैत्यजः
भक्त्यास्तौद् इति मन्वानस् तद्दर्शनम् असंभवम् ॥
वेदान्तवाक्यशतमारुतसंप्रवृद्ध वैराग्यवह्निशिखया परिताप्य चित्तम्
संशोधयन्ति यदवेक्षणयोग्यतायै धीराः सदैव स कथं मम गोचरः स्यात् ॥
मात्सर्यरोषस्मरलोभमोह मदादिभिर् वा सुदृढैः सुषड्भिः
उपर्युपर्यावरणैः सुबद्धम् अन्धं मनो मे क्व हरिः क्व वाहम् ॥
यं धातृमुख्या विबुधा भयेषु शान्त्यर्थिनः क्षीरनिधेर् उपान्तम्
गत्वोत्तमस्तोत्रकृतः कथंचित् पश्यन्ति तं द्रष्टुम् अहो ममाशा ॥
अयोग्यम् आत्मानम् इतीशदर्शने स मन्यमानस् तदनाप्तिकातरः
उद्वेगदुःखार्णवमग्नमानसः स्रुताश्रुधारो नृप मूर्च्छितो ऽपतत् ॥
अथ क्षणात् सर्वगतश् चतुर्भुजः शुभाकृतिर् भक्तजनैकवल्लभः
दुःस्थं तम् आश्लिष्य सुधामयैर् भुजैस् तत्रैव भूपाविर् अभूद् दयानिधिः ॥
स लब्धसंज्ञो ऽथ तदङ्गसङ्गाद् उन्मीलिताक्षः सहसा ददर्श
प्रसन्नवक्त्रं कमलायताक्षं सुदीर्घबाहुं यमुनासवर्णम् ॥
उदारतेजोमयम् अप्रमेयं गदारिशङ्खाम्बुजचारुचिह्नितम्
स्थितं समालिङ्ग्य विभुं स दृष्ट्वा प्रकम्पितो विस्मयभीतिहर्षैः ॥
तत् स्वप्नम् एवाथ स मन्यमानः स्वप्ने ऽपि पश्यामि हरिं कृतार्थम्
इति प्रहर्षार्णवमग्नचेताः स्वानन्दमूर्छां स पुनश् च भेजे ॥
ततः क्षिताव् एव निविश्य नाथः कृत्वा तम् अङ्के स्वजनैकबन्धुः
शनैर् विधुन्वन् करपल्लवेन स्पृशन् मुहुर् मातृवद् आलिलिङ्ग ॥
ततश् चिरेण प्रह्लादः संमुखोन्मीलितेक्षणः
आलुलोके जगन्नाथं विस्मयाविष्टचेतसा ॥
ततश् चिरात् तं संभाव्य धीरः श्रीशाङ्कशायिनम्
आत्मानं सहसोत्तस्थौ सद्यः सभयसंभ्रमः ॥
प्रणामायापतच् चोर्व्यां प्रसीदेति वदन् मुहुः
संभ्रमात् स बहुज्ञो ऽपि नान्यां पूजोक्तिम् अस्मरत् ॥
तम् अथाभयहस्तेन गदाशङ्खारिधृक् प्रभुः
गृहीत्वा स्थापयाम्_अस प्रह्लादं स दयानिधिः ॥
कराब्जस्पर्शनाह्लाद गलदश्रुं सवेपथुम्
भूयो ऽथाह्लादयन् स्वामी तं जगादेति सान्त्वयन् ॥
सभयं संभ्रमं वत्स मद्गौरवकृतं त्यज
नैवं प्रियो मे भक्तेषु स्वाधीनप्रणयी भव ॥
नित्यं संपूर्णकामस्य जन्मानि विविधानि मे
भक्तसर्वेष्टदानाय तस्मात् किं ते प्रियं वद ॥
अथ व्यजिज्ञपद् विष्णुं प्रह्लादः प्राञ्जलिर् नमन्
सलौल्यम् उत्फुल्लदृशा पश्यन्न् एवं च तन्मुखम् ॥
नाप्य् अयं वरदानाय कालो नैष प्रसीद मे
त्वद्दर्शनामृतास्वादाद् अन्तरात्मा न तृप्यति ॥
ब्रह्मादिदेवैर् दुर्लक्ष्यं त्वाम् एव पश्यतः प्रभो
तृप्तिं नेष्यति मे चित्तं कल्पायुतशतैर् अपि ॥
नैवम् एतद् ध्य् अतृप्तस्य त्वां दृष्ट्वान्यद् वृणोति किम्
ततः स्मितसुधापूरैः पूरयन् स प्रियं प्रियात् ॥
योजयन् मोक्षलक्ष्म्यैव तं जगाद जगत्पतिः
सत्यं मद्दर्शनाद् अन्यद् वत्स नैवास्ति ते प्रियम् ॥
किंचित् ते दातुम् इष्टं मे मत्प्रियार्थं वृणीष्व तत्
प्रह्लादो ऽथाब्रवीद् धीमान् देव जन्मान्तरेष्व् अपि ॥
दासस् तवाहं भूयासं गरुत्मान् इव भक्तिमान्
अथाह नाथः प्रह्लादं संकटं खल्व् इदं कृतम् ॥
अहं तवात्मदानेच्छुस् त्वं तु भृत्यत्वम् इच्छसि
वरान् अन्यांश् च वरय धीमन् दैत्येश्वरात्मज ॥
प्रह्लादो ऽपि पुनः प्राह भक्तकामप्रदं हरिम्
प्रसीद सास्तु मे नाथ त्वद्भक्तिः सात्त्विकी स्थिरा ॥
अनयाथ च त्वां नौमि नृत्यामि त्वत्परः सदा
अथाभितुष्टो भगवान् प्रियम् आह प्रियंवदम् ॥
वत्स यद् यद् अभीष्टं ते तत् तद् अस्तु सुखी भव
अन्तर्हिते च मय्य् अत्र मा खिद त्वं महामते ॥
त्वच्चित्तान् नापयास्यामि क्षीराब्धेर् इव सुप्रियात्
पुनर् द्वित्रिदिनैस् त्वं मां द्रष्टा दुष्टवधोद्यतम् ॥
अपूर्वाविष्कृताकारं नृसिंहं पापभीषणम्
उक्त्वेत्य् अतः प्रणमतः पश्यतश् चातिलालसम् ॥
अतुष्टस्यैव तस्येशो माययान्तर् दधे हरिः
ततो हठाद् अदृष्ट्वा तं सर्वतो भक्तवत्सलम् ॥
हाहेत्य् अश्रुप्लुतः प्रोच्य ववन्दे स चिराद् इति
श्रूयमाणे ऽथ परितः प्रतिबुद्धजनस्वने ॥
उत्थायाब्धितटाद् धीमान् प्रह्लादः स्वपुरं ययौ ॥
अथ दितिजसुतश् चिरं प्रहृष्टः स्मृतिबलतः परितस् तम् एव पश्यन्
हरिमनुजगतिं त्व् अलं च पश्यन् गुरुगृहम् उत्पुलकः शनैर् अवाप ॥
मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0