भाषा

ENहिગુ
ग्रंथ पाठ

नरसिंहपुराण · अध्याय 42

42.1

सो ऽप्य् आशु नीतो गुरुवेश्म दैत्यैर् दैत्येन्द्रसूनुर् हरिभक्तिभूषणः
अशेषविद्यानिवहेन साकं कालेन कौमारम् अवाप योगी ॥

42.2

प्रायेण कौमारम् अवाप्य लोकः पुष्णाति नास्तिक्यम् असद्गतिं च
तस्मिन् वयःस्थस्य बहिर्विरक्तिर् भवत्य् अभूच् चित्रम् अजे च भक्तिः ॥

42.3

अथ संपूर्णविद्यं तं कदाचिद् दितिजेश्वरः
आनाय्य प्रणतं प्राह प्रह्लादं विदितेश्वरम् ॥

42.4

साध्व् अज्ञाननिधेर् बाल्यान् मुक्तो ऽसि सुरसूदन
इदानीं भ्राजसे भास्वान् नीहाराद् इव निर्गतः ॥

42.5

बाल्ये वयं च त्वम् इव द्विजैर् जाड्याय मोहिताः
वयसा वर्धमानेन पुत्रकैवं सुशिक्षिताः ॥

42.6

तद् अद्य त्वयि धुर्ये ऽहं संसकण्टकताधुरम्
विन्यस्य स्वां चिरधृतां सुखी पश्यन् श्रियं तव ॥

42.7

यदा यदा हि नैपुण्यं पिता पुत्रस्य पश्यति
तदा तदाधिं त्यक्त्वा नु महत् सौख्यम् अवाप्नुयात् ॥

42.8

गुरुश् चातीव नैपुण्यं ममाग्रे ऽवर्णयत् तव
न चित्रं पुत्र तच् छ्रोतुं किं नु मे वाञ्छतः श्रुती ॥

42.9

नेत्रयोः शत्रुदारिद्र्यं श्रोत्रयोः सुतसूक्तयः
युद्धव्रणं च गात्रेषु मायिनां च महोत्सवः ॥

42.10

श्रुत्वेति निकृतिप्रज्ञं दैत्याधिपवचस् ततः
जगाद योगी निश्शङ्कं प्रह्लादः प्रणतो गुरुम् ॥

42.11

सूक्तयः श्रोत्रयोः सत्यं महाराज महोत्सवः
किंतु ता वैष्णवीर् वाचो मुक्त्वा नान्या विचारयेत् ॥

42.12

नीतिः सूक्तिः कथाः श्राव्याः श्राव्यं काव्यं च तद् वचः
यत्र संसृतिदुःखौघ कक्षाग्निर् गीयते हरिः ॥

42.13

अचिन्त्यः स्तूयते यत्र भक्त्या भक्तेप्सितप्रदः
अर्थशात्रेण किं तात यत्र संसृतिसंततिः ॥

42.14

शास्त्रश्रमेण किं तात येनात्मैव विहंस्यते
वैष्णवं वाङ्मयं तस्माच् *छ्राव्यं सेव्यं च सर्वदा ॥

42.15

मुमुक्षुभिर् भवक्लेशान् नो चेन् नैव सुखी भवेत्
इति तस्य वचः शृण्वन् हिरण्यकशिपुस् तदा ॥

42.16

जज्वाल दैत्यराट् तप्त सर्पिर् अद्भिर् इवाधिकम्
प्रह्लादस्य गिरं पुण्यां जनसंसृतिनाशिनीम् ॥

42.17

नामृस्यतासुरः क्षुद्रो घूको भानुप्रभाम् इव
परितो वीक्ष्य संप्राह क्रुद्धो दैत्यभटान् इदम् ॥

42.18

हन्यताम् एष कुटिलः शस्त्रपातैः सुभीषणैः
उत्कृत्त्योत्कृत्त्य मर्माणि रक्षितास्तु हरिः स्वयम् ॥

42.19

पश्यत्व् इदानीम् एवैष हरिसंस्तवजं फलम्
काकोलकङ्कगृध्रेभ्यो ह्य् अस्याङ्गं संविभज्यताम् ॥

42.20

अथोद्धृतास्त्रा दैतेयस् तर्जयन्तः प्रगर्जितैः
अच्युतस्य प्रियं भक्तं तं जग्नुः पतिनोदिताः ॥

42.21

प्रह्लादो ऽपि प्रभुं नत्वा ध्यानवज्रं समाददे
अकृत्रिमरसम् भक्तं तम् इत्थं ध्याननिश्चलम् ॥

42.22

ररक्ष भगवान् विष्णुः प्रह्लादं भक्तदुःखहृत्
अथालब्धपदान्य् अस्य गात्रे शस्त्राणि रक्षसाम् ॥

42.23

नीलाब्जशकलानीव पेतुश् छिन्नान्य् अनेकधा
किं प्राकृतानि शस्त्राणि करिष्यन्ति हरिप्रिये ॥

42.24

तापत्रयमहास्त्रौघः सर्वो ऽप्य् अस्माद् बिभेति वै
पीडयन्ति जनांस् तावद् व्याधयो राक्षसा ग्रहाः ॥

42.25

यावद् गुहाशयं विष्णुं सूक्ष्मं चेतो न विन्दति
ते तु भग्नास्त्रशकलैः प्रतीपोत्थैर् इतस् ततः ॥

42.26

हन्यमाना न्यवर्तन्त सद्यः फलददैर् इव
न चित्रं विबुधानां तद् अज्ञानां विस्मयावहम् ॥

42.27

वैष्णवं बलम् आलोक्य राजा नूनं भयं दधौ
पुनस् तस्य वधोपायं चिन्तयन् स सुदुर्मतिः ॥

42.28

समादिशत् समाहूय दंदशूकान् सुदुर्विषान्
अशस्त्रवधयोग्यो ऽयम् अस्मयो हरितोषकृत् ॥

42.29

तस्माद् भवदिभिर् अचिराद् हन्यतां गरलायुधाः
हिरण्यकशिपोः श्रुत्वा वचनं ते भुजंगमाः
तस्याज्ञां जगृहुर् मूर्ध्ना प्रहर्षाद् देशवर्तिनः ॥

42.30

अथ ज्वलद्दशनकरालदंष्ट्रिण स्फुटस्फुरद्दशनसहस्रभीषणाः
अकर्षका हरिमहिस्वकर्षका हरिप्रियं द्रुततरम् आपतन् रुषा ॥

42.31

गरायुधास् त्वचम् अपि भेत्तुम् अल्पिकां वपुष्यजस्मृतिबलदुर्भिदाकृतेः
अलं न ते हरिवपुषं तु केवलं विदश्य तं निजदशनैर् विना कृताः ॥

42.32

ततः स्रवत्क्षतजविषण्णमूर्तयो द्विधाकृताद्भुतदशना भुजंगमाः
समेत्य ते दितिजपतिं व्यजिज्ञपन् विनिःश्वसत्प्रचलफणा भुजंगमाः ॥

42.33

प्रभो महीध्रान् अपि भस्मशेषांस् तस्मिन्न् अशक्तास् तु तदैव वध्याः
महानुभावस्य तवात्मजस्य वधे नियुक्त्वा दशनैर् विना कृताः ॥

42.34

इत्थं द्विजिह्वाः कठिनं निवेद्य ययुर् विसृष्टाः प्रभुणाकृतार्थाः
विचिन्तयन्तः पृथुविस्मयेन प्रह्लादसामर्थ्यनिदानम् एव ॥

42.35

अथासुरेशः सचिवैर् विचार्य निश्चित्य सूनुं तम् अदण्डसाध्यम्
आहूय साम्ना प्रणतं जगाद वाक्यं सदा निर्मलपुण्यचित्तम्
प्रह्लाद दुष्टो ऽपि निजाङ्गजातो न वध्य इत्य् अद्य कृपा ममाभूत् ॥

42.36

ततस् तूर्णं समागत्य दैत्यराजपुरोहिताः
मूढाः प्राञ्जलयः प्राहुर् द्विजाः शास्त्रविशारदाः ॥

42.37

त्रैलोक्यं कम्पते देव भृशं त्वय्य् अभिकाङ्क्षिणि
प्रह्लादस् त्वां न जानाति क्रुद्धं स्वल्पो महाबलम् ॥

42.38

तद् अलं देव रोषेण दयां कर्तुं त्वम् अर्हसि
पुत्रः कुपुत्रताम् एति न मातापितरौ कदा ॥

42.39

उक्त्वेति कुटिलप्रज्ञं दैत्यं दैत्यपुरोहिताः
आदाय तदनुज्ञातं प्रह्लादं धीधनं ययुः ॥

मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc