भाषा

ENहिગુ
ग्रंथ पाठ

नरसिंहपुराण · अध्याय 41

41.1

मार्कण्डेय महाप्राज्ञ सर्वशास्त्रविशारद
प्रादुर्भावं नृसिंहस्य यथावद् वक्तुम् अर्हसि ॥

41.2

वद प्रह्लादचरितं विस्तरेण ममानघ
धन्या वयं महायोगिंस् त्वत्प्रसादान् महामुने ॥

41.3ab

सुधां पिबामो दुर्लभ्यां धन्याः श्रीशकथाभिधाम् ॥

41.3cd

पुरा हिरण्यकशिपोस् तपोर्थं गच्छतो वनम् ॥

41.4

दिग्दाहो भुमिकम्पश् च जातस् तस्य महात्मनः
वारितो बन्धुभिर् भृत्यैर् मित्रैश् च हितकारिभिः ॥

41.5

शकुना विगुणा राजञ् जातास् तच् च न शोभनम्
त्रैलोक्याधिपतिस् त्वं हि सर्वे देवाः पराजिताः ॥

41.6

तवास्ति न भयं सौम्य किमर्थं तप्यते तपः
प्रयोजनं न पश्यामो वयं बुद्ध्या समन्विताः ॥

41.7

यो भवेन् न्यूनकामो हि तपस्चर्यां करोति सः
एवं तैर् वार्यमाणो ऽपि दुर्मदो मदमोहितः ॥

41.8

यातः कैलासशिखरं द्वित्रैर् मित्रैः परीवृतः
तस्य संतप्यमानस्य तपः परमदुष्करम् ॥

41.9

चिन्ता जाता महीपाल विरिञ्चेः पद्मजन्मनः
किं करोमि कथं दैत्यस् तपसो विनिवर्तते ॥

41.10

इति चिन्ताकुलस्यैव ब्रह्मणो ऽन्गसमुद्भवः
प्रणम्य प्राह भूपाल नारदो मुनिसत्तमः ॥

41.11

किमर्थं खिद्यते तात नारायणपरायण
येषाम् मनसि गोविन्दस् ते वै नार्हन्ति शोचितुम् ॥

41.12

अहं तं वारयिष्यामि तप्यन्तं दितिनन्दनम्
नारायणो जगत्स्वामी मतिं मे संप्रदास्यति ॥

41.13

इत्य् उक्त्वानम्य पितरं वासुदेवं हृदि स्मरन्
प्रयातः पर्वतेनैव सार्धं स मुनिपुंगवः ॥

41.14

कलविङ्कौ तु तौ भूत्वा कैलाशं पर्वतोत्तमम्
यत्रास्ते दितिजश्रेष्ठो द्वित्रैर् मित्रैः परीवृतः ॥

41.15

कृतस्नानो मुनिस् तत्र वृक्षशाखासमाश्रितः
शृण्वतस् तस्य दैत्यस्य प्राह गम्भीरया गिरा ॥

41.16

नमो नारायणायेति पुनः पुनर् उदारधीः
त्रिवारं प्रजपित्वा वै नारदो मौनम् आश्रितः ॥

41.17

तच् छ्रुत्वा वचनं तस्य कलविङ्कस्य सादरम्
हिरण्यकशिपुर् दैत्यः क्रुद्धश् चापं समाददे ॥

41.18

बाणं धनुषि संधाय यावन् मुञ्चति तौ प्रति
तावद् उड्डीय तौ भूप गतौ नारदपर्वतौ ॥

41.19

सो ऽपि क्रोधपरीताङ्गो हिरण्यकशिपुस् तदा
त्यक्त्वा तम् आश्रमं भूयो नगरं स्वं महीपते ॥

41.20

तस्यापि भार्या सुश्रोणी कयाधूर् नाम नामतः
तदा रजस्वला भूत्वा स्नाताभूद् दैवयोगतः ॥

41.21

रात्राव् एकान्तसमये तया पृष्टः स दैत्यराट्
स्वामिन् यदा तपश्चर्यां कर्तुं गेहाद् वनं गतः ॥

41.22

तदा त्वयोक्तं वर्षाणाम् अयुतं मे तपस् त्व् इदम्
तत् किमर्थं महाराज सांप्रतं त्यक्तवान् व्रतम् ॥

41.23ab

तथ्यं कथय मे नाथ स्नेहात् पृच्छामि दैत्यप ॥

41.23cd

शृणु चार्वङ्गि मे तथ्यां वाचं व्रतविनाशिनीम् ॥

41.24

क्रोधस्यातीव जननीं देवानां मुदवर्धनीम्
कैलासशिखरे देवि महदानन्दकानने ॥

41.25

व्याहरन्तौ शुभां वाणीं नमो नारायणेति च
वारद्वयं त्रयं चेति व्याहृतं वचनं शुभे ॥

41.26

तेन मे मनसि क्रोधो जातो ऽतीव वरानने
कोदण्डे शरम् आधाय यावन् मुञ्चामि भामिनि ॥

41.27

तावत् तौ पक्षिणौ भीतौ गतौ देशान्तरं त्व् अहम्
त्यक्त्वा व्रतं समायातो भाविकार्यबलेन वै ॥

41.28

इत्य् उच्यमाने वचने वीर्यद्रावो ऽभवत् तदा
ऋतुकाले तु संप्राप्ते जातो गर्भस् तदैव हि ॥

41.29

पुनः प्रवर्धमानस्य गर्भे गर्भस्य धीमतः
नारदस्योपदेशेन वैष्णवः समजायत ॥

41.30

तद् अग्रे कथयिष्यामि भूप श्रद्धापरो भव
तस्य सूनुर् अभुद् भक्तः प्रह्लादो जन्मवैष्णवः ॥

41.31

सो ऽवर्धतासुरकुले निर्मलो मलिनाश्रये
यथा कलौ हरेर् भक्तिः पाशसंसारमोचनी ॥

41.32

स वर्धमानो विरराज बालैः सह त्रयीनाथपदेषु भक्त्या
बालो ऽल्पदेहो महतीं महात्मा विस्तारयन् भाति स विष्णुभक्तिम् ॥

41.33

यथा चतुर्थं युगम् आप्तधर्म कामार्थमोक्षं किल कीर्तिदं हि
स बाललीलासु सहान्यडिम्भैः प्रहेलिकाक्रीडनकेषु नित्यम् ॥

41.34

कथाप्रसङ्गेषु च कृष्णम् एव प्रोवाच यस्मात् स हि तत्स्वभावः
इत्थं शिशुत्वे ऽपि विचित्रकारी व्यवर्धतेशस्मरणामृताशः ॥

41.35

तं पद्मवक्त्रं दैत्येन्द्रः कदाचित् स्त्रीवृतः खलः
बालं गुरुगृहायातं ददर्श स्वायतेक्षणम् ॥

41.36

गृहीत्वा तु करे पुत्रं पट्टिका या सुशोभना
मूर्ध्नि चक्राङ्किता पट्टी कृष्णनामाङ्कितादरात् ॥

41.37

तम् आहूय मुदाविष्टो लालयन् प्राह पुत्रकम्
पुत्र ते जननी नित्यं सुधीर् मे त्वा प्रशंसति ॥

41.38

अथ तद् वद यत् किंचिद् गुरुवेश्मनि शिक्षितम्
विचार्यानन्दजननं सम्यग् आयाति तद् वद ॥

41.39

अथाह पितरं हर्षात् प्रह्लादो जन्मवैष्णवः
गोविन्दं त्रिजगद्वन्द्यं प्रभुं नत्वा ब्रवीमि ते ॥

41.40

इति शत्रोः स्तवं श्रुत्वा पुत्रोक्तं स्त्रीवृतः खलः
क्रुद्धो ऽपि तं वञ्चयितुं जहासोच्चैः प्रहृष्टवत् ॥

41.41

आलिङ्ग्य तनयं प्राह शृणु बाल हितं वचः
राम गोविन्द कृष्णेति विष्णो माधव श्रीपते ॥

41.42

एवं वदन्ति ये सर्वे ते पुत्र मम वैरिणः
शासितास् तु मयेदानीं त्वयेदं क्व श्रुतं वचः ॥

41.43

पितुर् वचनम् आकर्ण्य धीमान् अभयसंयुतः
प्रह्लादः प्राह हे आर्य मैवं ब्रूयाः कदाचन ॥

41.44

सर्वैश्वर्यप्रदं मन्त्रं धर्मादिपरिवर्धनम्
कृष्णेति यो नरो ब्रूयात् सो ऽभयं विन्दते पदम् ॥

41.45

कृष्णनिन्दासमुत्थस्य अघस्यान्तो न विद्यते
राम माधव कृष्णेति स्मर भक्त्यात्मशुद्धये ॥

41.46

गुरवे ऽपि ब्रवीम्य् एतद् यतो हितकरं परम्
शरणं व्रज सर्वेशं सर्वपापक्षयंकरम् ॥

41.47

अथाह प्रकटक्रोधः सुरारिर् भर्त्सयन् सुतम्
केनायं बालको नीतो दशाम् एतां सुमध्यमाम् ॥

41.48

धिग् धिग् हाहेति दुष्पुत्र किं मे कृतम् अघं महत्
याहि याहि दुराचार पापिष्ठ पुरुषाधम
उक्त्वेति परितो वीक्ष्य पुनर् आह शिशोर् गुरुम् ॥

41.49

बुद्ध्वा चानीयतां दैत्यैः क्रूरैः क्रूरपराक्रमैः
इति श्रुत्वा ततो दैत्यास् तम् आनीय न्यवेदयन्
धीमान् ऊचे खलं भूपं देवान्तक परीक्षताम् ॥

41.50

लीलयैव जितं देव त्रैलोक्यं निखिलं त्वया
असकृन् न हि रोषेण किं क्रुद्धस्याल्पके मयि ॥

41.51

इति सामवचः श्रुत्वा द्विजोक्तं प्राह दैत्यराट्
विष्णुस्तवं मम सुतं पाप बालम् अपीपठः ॥

41.52

उक्त्वेति तनयं प्राह राजा साम्नामलं सुतम्
ममात्मजस्य किं जाड्यां तव चैतद् द्विजैः कृतम् ॥

41.53

विष्णुपक्षैर् ध्रुवं धूर्तैर् मूढ नित्यं परित्यज
त्यज द्विजप्रसङ्गं हि द्विजसङ्गो ह्य् अशोभनः ॥

41.54

अस्मत्कुलोचितं तेजो यैर् द्विजैस् तु तिरोहितम्
यस्य यत् संगतिः पुंसो मणिवत् स्यात् स तद्गुणः ॥

41.55

स्वकुलर्द्ध्यै ततो धीमान् स्वयूथान् एव संश्रयेत्
मत्सुतस्योचितं त्यक्त्वा विष्णुपक्षीयनाशनम् ॥

41.56

स्वयम् एव भजन् विष्णुं मन्द किं त्वं न लज्जसे
विश्वनाथस्य मे सूनुर् भूत्वान्यं नाथम् इच्छसि ॥

41.57

शृणु वत्स जगत्तत्त्वं कश्चिन् नास्ति निजः प्रभुः
यः शूरः स श्रियं भुङ्क्ते स प्रभुः स महेश्वरः ॥

41.58

स देवः सकलाध्यक्षो यथाहं त्रिजगज्जयी
त्यज जाड्यम् अतः शौर्यं भजस्व स्वकुलोचितम् ॥

41.59

अन्ये ऽपि त्वां हनिष्यन्ति वदिष्यन्ति जनास् त्व् इदम्
असुरो ऽयं सुरान् स्तौति मार्जार इव मूषकान् ॥

41.60

द्वेष्यान् शिखीव फणिनो दुर्निमित्तम् इदं ध्रुवम्
लब्ध्वापि महद् ऐश्वर्यं लाघवं यान्त्य् अबुद्धयः ॥

41.61

यथायं मत्सुतः स्तुत्यः स्तावकान् स्तौति नीचवत्
रे मूढ दृष्ट्वाप्य् ऐश्वस्र्यं मम ब्रूषे पुरो हरिम् ॥

41.62

असदृशस्य तु हरेः स्तुतिर् एषा विडम्बना
इत्य् उक्त्वा तनयं भूप जातक्रोधो भयानकः ॥

41.63

जिह्मं निरीक्ष्य च प्राह तद्गुरुं कम्पयन् रुषा
याहि याहि द्विजपशो साधु शाधि सुतं मम ॥

41.64

प्रसाद इत्य् एष वदन् स विप्रो जगाम गेहं खलराजसेवी
विष्णुं विसृज्यान्वसरच् च दैत्यं किं वा न कुर्युर् भरणाय लुब्धाः ॥

मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc