नरसिंहपुराण · अध्याय 40
वाराहः कथितो ह्य् एवं प्रादुर्भावो हरेस् तव
सांप्रतं नारसिंहं तु प्रवक्ष्यामि निबोध मे ॥
दितेः पुत्रो महान् आसीद् *धिरण्यकशिपुः पुरा
तपस् तेपे निराहारो बहुवर्षसहस्रकम् ॥
तपतस् तस्य संतुष्टो ब्रह्मा तं प्राह दानवम्
वरं वरय दैत्येन्द्र यस् ते मनसि वर्तते ॥
इत्युक्तो ब्रह्मणा दैत्यो हिरण्यकशिपुः पुरा
उवाच नत्वा देवेशं ब्रह्माणं विनयान्वितः ॥
यदि त्वं वरदानाय प्रवृत्तो भगवन् मम
यद् यद् वृणोम्य् अहं ब्रह्मंस् तत् तन् मे दातुम् अर्हसि ॥
न शुष्केण न चार्द्रेण न जलेन न वह्निना
न काष्ठेन न कीटेन पाषाणेन न वायुना ॥
नायुधेन न शूलेन न शैलेन न मानुषैः
न सुरैर् असुरैर् वापि न गन्धर्वैर् न राक्षसैः ॥
न किंनरैर् न यक्षैस् तु विद्याधरभुजंगमैः
न वानरैर् मृगैर् वापि नैव मातृगणैर् अपि ॥
नाभ्यन्तरे न बाह्ये तु नान्यैर् मरणहेतुभिः
न दिने न च नक्तं मे त्वत्प्रसादाद् भवेन् मृतिः ॥
इति वै देवदेवेश वरं त्वत्तो वृणोम्य् अहम् ॥
इत्युक्तो दैत्यराजेन ब्रह्मा तं प्राह पार्थिव ॥
तपसा तव तुष्टो ऽहं महता तु वरान् इमान्
दुर्लभान् अपि दैत्येन्द्र ददामि परमाद्भुतान् ॥
अन्येषां नेदृशं दत्तं न तैर् इत्थं तपः कृतम्
त्वत्प्रार्थितं मया दत्तं सर्वं ते चास्तु दैत्यप ॥
गच्छ भुङ्क्ष्व महाबाहो तपसाम् ऊर्जितं फलम्
इत्य् एवं दैत्यराजस्य हिरण्यकशिपोः पुरा ॥
दत्त्वा वरान् ययौ ब्रह्मा ब्रह्मलोकम् अनुत्तमम्
सो ऽपि लब्धवरो दैत्यो बलवान् बलदर्पितः ॥
देवान् सिंहान् रणे जित्वा दिवः प्राच्यावयद् भुवि
दिवि राज्यं स्वयं चक्रे सर्वशक्तिसमन्वितम् ॥
देवा अपि भयात् तस्य रुद्राश् चैवर्षयो नृप
विचेरुर् अवनौ सर्वे बिभ्राणा मानुषीं तनुम् ॥
प्राप्तत्रैलोक्यराज्यो ऽसौ हिरण्यकशिपुः प्रजाः
आहूय सर्वा राजेन्द्र वाक्यं चेदम् अभाषत ॥
न यष्टव्यं न होतव्यं न दातव्यं सुरान् प्रति
युष्माभिर् अहम् एवाद्य त्रैलोक्याधिपतिः प्रजाः ॥
ममैव पूजां कुरुत यज्ञदानादिकर्मणा
ताश् च सर्वास् तथा चक्रुर् दैत्येन्द्रस्य भयान् नृप ॥
यत्रैवं क्रियमाणेषु त्रैलोक्यं सचराचरम्
अधर्मयुक्तं सकलं बभूव नृपसत्तम ॥
स्वधर्मलोपात् सर्वेषां पापे मतिर् अजायत
गते काले तु महति देवाः सेन्द्रा बृहस्पतिम् ॥
नीतिज्ञं सर्वशास्त्रज्ञं पप्रच्छुर् विनयान्विताः
हिरण्यकशिपोर् अस्य विनाशं मुनिसत्तम ॥
त्रैलोक्यहारिणः शीघ्रं वधोपायं वदस्व नः ॥
शृणुध्वं मम वाक्यानि स्वपदप्राप्तये सुराः ॥
प्रायो हिरण्यकशिपुः क्षीणभागो महासुरः
शोको नाशयति प्रज्ञां शोको नाशयति श्रुतम् ॥
शोको मतिं नाशयति नास्ति शोकसमो रिपुः
सोढुं शक्यो ऽग्निसंबन्धः शस्त्रस्पर्शश् च दारुणः ॥
न तु शोकभवं दुःखं संसोढुं नृप शक्यते
कालान् निमित्ताच् च वयं लक्ष्यामस् तत्क्षयं सुराः ॥
बुधाश् च सर्वे सर्वत्र स्थिता वक्ष्यन्ति नित्यशः
अचिराद् एव दुष्टो ऽसौ नश्यत्य् एव परस्परम् ॥
देवानां तु पराम् ऋद्धिं स्वपदप्राप्तिलक्षणाम्
हिरण्यकशिपोर् नाशं शकुनानि वदन्ति मे ॥
यत एवम् अतो देवाः सर्वे गच्छत माचिरम्
क्षीरोदस्योत्तरं तीरं प्रसुप्तो यत्र केशवः ॥
युष्माभिः संस्तुतो देवः प्रसन्नो भवति क्षणात्
स हि प्रसन्नो दैत्यस्य वधोपायं वदिष्यति ॥
इत्युक्तास् तेन देवास् ते साधु साध्व् इत्य् अथाब्रुवन्
प्रीत्या च परया युक्ता गन्तुं चक्रुर् अथोद्यमम् ॥
पुण्ये तिथौ शुभे लग्ने पुण्यं स्वस्ति च मङ्गलम्
कारयित्वा मुनिवरैः प्रस्थितास् ते दिवौकसः ॥
नाशाय दुष्टदैत्यस्य स्वभूत्यै च नृपोत्तम
ते शर्वम् अग्रतः कृत्वा क्षीराब्धेर् उत्तरं तटम् ॥
तत्र गत्वा सुराः सर्वे विष्णुं जिष्णुं जनार्दनम्
अस्तुवन् विविधैः स्तोत्रैः पूजयन्तः प्रतस्थिरे ॥
भवो ऽपि भगवान् भक्त्या भगवन्तं जनार्दनम्
अस्तुवन् नामभिः पुण्यैर् एकाग्रमनसा हरिम् ॥
विष्णुर् जिष्णुर् विभुर् देवो यज्ञेशो यज्ञपालकः
प्रभविष्णुर् ग्रसिष्णुश् च लोकात्मा लोकपालकः ॥
केशवः केशिहा कल्पः सर्वकारणकारणम्
कर्मकृद् वामनाधीशो वासुदेवः पुरुष्टुतः ॥
आदिकर्ता वराहश् च माधवो मधुसूदनः
नारायणो नरो हंसो विष्णुसेनो हुताशनः ॥
ज्योतिष्मान् द्युतिमान् श्रीमान् आयुष्मान् पुरुषोत्तमः
वैकुण्ठः पुण्डरीकाक्षः कृष्णः सूर्यः सुरार्चितः ॥
नरसिंहो महाभीमो वज्रदंस्त्रो नखायुधः
आदिदेवो जगत्कर्ता योगेशो गरुडध्वजः ॥
गोविन्दो गोपतिर् गोप्ता भूपतिर् भुवनेश्वरः
पद्मनाभो हृषीकेशो विभुर् दामोदरो हरिः ॥
त्रिविक्रमस् त्रिलोकेशो ब्रह्मेशः प्रीतिवर्धनः
वामनो दुष्टदमनो गोविन्दो गोपवल्लभः ॥
भक्तिप्रियो ऽच्युतः सत्यः सत्यकीर्तिर् ध्रुवः शुचिः
कारुण्यः करुणो व्यासः पापहा शान्तिवर्धनः ॥
संन्यासी शास्त्रतत्त्वज्ञो मन्दारगिरिकेतनः
बदरीनिलयः शान्तस् तपस्वी वैद्युतप्रभः ॥
भूतावासो गुहावासः श्रीनिवासः श्रियःपतिः
तपोवासो दमो वासः सत्यवासः सनातनः ॥
पुरुषः पुष्कलः पुण्यः पुष्कराक्षो महेश्वरः
पूर्णः पूर्तिः पुराणज्ञः पुण्यज्ञः पुण्यवर्धनः ॥
शङ्खी चक्री गदी शार्ङ्गी लाङ्गली मुशली हली
किरीटी कुण्डली हारी मेखली कवची ध्वजी ॥
जिष्णुर् जेता महावीरः शत्रुघ्नः शत्रुतापनः
शान्तः शान्तिकरः शास्ता शंकरः शंतनुस्तुतः ॥
सारथिः सात्त्विकः स्वामी सामवेदप्रियः समः
सावनः साहसी सत्त्वः संपूर्णांशः समृद्धिमान् ॥
स्वर्गदः कामदः श्रीदः कीर्तिदः कीर्तिनाशनः
मोक्षदः पुण्डरीकाक्षः क्षीराब्धिकृतकेतनः ॥
स्तुतः सुरासुरैर् ईशः प्रेरकः पापनाशनः
त्वं यज्ञस् त्वं वषट्कारस् त्वम् ओंकारस् त्वम् अग्नयः ॥
त्वं स्वाहा त्वं स्वधा देवस् त्वं सुधा पुरुषोत्तम
नमो देवादिदेवाय विष्णवे शाश्वताय च ॥
अनन्तायाप्रमेयाय नमस् ते गरुडध्वज ॥
इत्य् एतैर् नामभिर् दिव्यैः संस्तुतो मधुसूदनः ॥
उवाच प्रकटीभूत्वा देवान् सर्वान् इदं वचः ॥
युष्माभिः संस्तुतो देवा नामभिः केवलैः शुभैः ॥
अत एव प्रसन्नो ऽस्मि किम् अर्थं करवाणि वः ॥
देवदेव हृषीकेश पुण्डरीकाक्ष माधव ॥
त्वम् एव जानासि हरे किं तस्मात् परिपृच्छसि ॥
युष्मदागमनं सर्वं जानाम्य् असुरसूदनाः ॥
हिरण्यकविनाशार्थं स्तुतो ऽहं शंकरेण तु
पुण्यनामशतेनैव संस्तुतो ऽहं भवेन च ॥
एतेन यस् तु मां नित्यं त्वयोक्तेन महामते
तेनाहं पूजितो नित्यं भवामीह त्वया यथा ॥
प्रीतो ऽहं गच्छ देव त्वं कैलासशिखरं शुभम्
त्वया स्तुतो हनिष्यामि हिरण्यकशिपुं भव ॥
गच्छध्वम् अधुना देवाः कालं कंचित् प्रतीक्षताम्
यदास्य तनयो धीमान् प्रह्लादो नाम वैष्णवः ॥
तस्य द्रोहं यदा दैत्यः करिष्यति सुरांस् तदा
हनिष्यामि वरैर् गुप्तम् अजेयं देवदानवैः
इत्य् उक्त्वा विष्णुना देवा नत्वा विष्णुं ययुर् नृप ॥
मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0