भाषा

ENहिગુ
ग्रंथ पाठ

नरसिंहपुराण · अध्याय 36

36.1

अवतारान् अहं वक्ष्ये देवदेवस्य चक्रिणः
तान् शृणुष्व महीपाल पवित्रान् पापनाशनान् ॥

36.2

यथा मत्स्येन रूपेण दत्ता वेदाः स्वयंभुवे
मधुकैटभौ च निधनं प्रापितौ च महात्मना ॥

36.3

यथा कौर्मेण रूपेण विष्णुना मन्दरो धृतः
यथा पृथ्वी धृता राजन् वाराहेण महात्मना ॥

36.4

तेनैव निधनं प्राप्तो यथा राजन् महाबलः
हिरण्याक्षो महावीर्यो दितिपुत्रो महातनुः ॥

36.5

यथा हिरण्यकशिपुस् त्रिदशानाम् अरिः पुरा
नरसिंहेन देवेन प्रापितो निधनं नृप ॥

36.6

यथा बद्धो बलिः पूर्वं वामनेन महात्मना
इन्द्रस् त्रिभुवनाध्यक्षः कृतस् तेन नृपात्मज ॥

36.7

रामेण भूत्वा च यथा विष्णुना रावणो हतः
सगणाश् चाद्भुता राजन् राक्षसा देवकण्टकाः ॥

36.8

यथा परशुरामेण क्षत्रम् उत्सादितं पुरा
बलभद्रेण रामेण यथा दैत्यः पुरा हतः ॥

36.9

यथा कृष्णेन कंसाद्या हता दैत्याः सुरद्विषः
कलौ प्राप्ते यथा बुद्धो भवेन् नारायणः प्रभुः ॥

36.10

कल्किरूपं समास्थाय यथा म्लेच्छा निपातिताः
समाप्ते तु कलौ भूयस् तथा ते कथयाम्य् अहम् ॥

36.11

हरेर् अनन्तस्य पराक्रमं यः शृणोति भूपाल समाहितात्मा
मयोच्यमानं च विमुच्य पापं प्रयाति विष्णोः पदम् अत्युदारम् ॥

मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc