भाषा

ENहिગુ
ग्रंथ पाठ

नरसिंहपुराण · अध्याय 37

37.1

नानात्वाद् अवताराणाम् अच्युतस्य महात्मनः
न शक्यं विस्तराद् वक्तुं तान् ब्रवीमि समासतः ॥

37.2

पुरा किल जगत्स्रष्टा भगवान् पुरुषोत्तमः
अनन्तभोगशयने योगनिद्रां समागतः ॥

37.3

अथ तस्य प्रसुप्तस्य देवदेवस्य शार्ङ्गिणः
श्रोत्राभ्याम् अपतत् तोये स्वेदबिन्दुद्वयं नृप ॥

37.4

मधुकैटभनामानौ तस्माज् जातौ महाबलौ
महाकायौ महावीर्यौ महाबलपराक्रमौ ॥

37.5

अच्युतस्य प्रसुप्तस्य महत् पद्मम् अजायत
नाभिमध्ये नृपश्रेष्ठ तस्मिन् ब्रह्माभ्यजायत ॥

37.6

स चोक्तो विष्णुना राजन् प्रजाः सृज महामते
तथेत्य् उक्त्वा जगन्नाथं ब्रह्मापि कमलोद्भवः ॥

37.7

वेदशास्त्रवशाद् यावत् प्रजा स्रष्टुं समुद्यतः
तावत् तत्र समायातौ ताव् उभौ मधुकैटभौ ॥

37.8

आगत्य वेदशास्त्रार्थ विज्ञानं ब्रह्मणः क्षणात्
अपकृत्य गतौ घोरौ दानवौ बलदर्पितौ ॥

37.9

ततः पद्मोद्भवो राजन् ज्ञानहीनो ऽभवत् क्षणात्
दुःखितश् चिन्तयाम्_अस कथं स्रक्ष्यामि वै प्रजाः ॥

37.10

चोदितस् त्वं सृजस्वेति प्रजा देवेन तत् कथम्
स्रक्ष्ये ऽहं ज्ञानहीनस् तु अहो कष्टम् उपस्थितम् ॥

37.11

इति संचिन्त्य दुःखार्तो ब्रह्मा लोकपितामहः
यत्नतो वेदशास्त्राणि स्मरन्न् अपि न दृष्टवान् ॥

37.12

ततो विषण्णचित्तस् तु तं देवं पुरुषोत्तमम्
एकाग्रमनसा सम्यक् शास्त्रेण स्तोतुम् आरभत् ॥

37.13

ओं नमो वेदनिधये शास्त्राणां निधये नमः
विज्ञाननिधये नित्यं कर्मणां निधये नमः ॥

37.14

विद्याधराय देवाय वागीशाय नमो नमः
अचिन्त्याय नमो नित्यं सर्वज्ञाय नमो नमः ॥

37.15

अमूर्तिस् त्वं महाबाहो यज्ञमूर्तिर् अधोक्षज
साम्नां मूर्तिस् त्वम् एवाद्य सर्वदा सर्वरूपवान् ॥

37.16

सर्वज्ञानमयो ऽसि त्वं हृदि ज्ञानमयो ऽच्युत
देहि मे त्वं सर्वज्ञानं देवदेव नमो नमः ॥

37.17

इत्थं स्तुतस् तदा तेन शङ्खचक्रगदाधरः
ब्रह्माणम् आह देवेशो दास्ये ते ज्ञानम् उत्तमम् ॥

37.18

इत्य् उक्त्वा तु तदा विष्णुश् चिन्तयाम्_अस पार्थिव
केनास्य नीतं विज्ञानं केन रूपेण चादधे ॥

37.19

मधुकैटभकृतं सर्वम् इति ज्ञात्वा जनार्दनः
मात्स्यं रूपं समास्थाय बहुयोजनम् आयतम्
बहुयोजनविस्तीर्णं सर्वज्ञानमयं नृप ॥

37.20

स प्रविश्य जलं तूर्णं क्षोभयाम्_अस तं हरिः
प्रविश्य च स पातालं दृष्टवान् मधुकैटभौ ॥

37.21

तौ मोहयित्वा तुमुलं तज् ज्ञानं जगृहे हरिः
वेदशास्त्राणि मुनिभिः संस्तुतो मधुसूदनः ॥

37.22

आनीय ब्रह्मणे दत्त्वा त्यक्त्वा तन् मात्स्यकं नृप
जगद्धिताय स पुनर् योगनिद्रावशं गतः ॥

37.23

ततः प्रबुद्धौ संक्रुद्धौ ताव् उभौ मधुकैटभौ
आगत्य ददृशाते तु शयानं देवम् अव्ययम् ॥

37.24

अयं स पुरुषो धूर्त आवां संमोह्य मायया
आनीय वेदशास्त्राणि दत्त्वा शेते ऽत्र साधुवत् ॥

37.25

इत्य् उक्त्वा तौ महाघोरौ दानवौ मधुकैटभौ
बोधयाम्_असतुस् तूर्णं शयानं केशवं नृप ॥

37.26

युद्धार्थम् आगताव् अत्र त्वया सह महामते
आवयोर् देहि संग्रामं युध्यस्वोत्थाय सांप्रतम् ॥

37.27

इत्युक्तो भगवांस् ताभ्यां देवदेवो नृपोत्तम
तथेति चोक्त्वा तौ देवः शार्ङ्गं सज्जम् अथाकरोत् ॥

37.28

ज्याघोषतलघोषेण शङ्खशब्देन माधवः
खं दिशः प्रदिशश् चैव पूरयाम्_अस लीलया ॥

37.29

तौ च राजन् महावीर्यौ ज्याघोषं चक्रतुस् तदा
युयुधाते महाघोरौ हरिणा मधुकैटभौ ॥

37.30

कृष्णश् च युयुधे ताभ्यां लीलया जगतः पतिः
समं युद्धं अभूद् एवं तेषाम् अस्त्राणि मुञ्चताम् ॥

37.31

केशवः शार्ङ्गनिर्मुक्तैः शरैर् आशीविषोपमैः
तानि शस्त्राणि सर्वाणि चिच्छेद तिलशस् तदा ॥

37.32

तौ युद्ध्वा सुचिरं तेन दानवौ मधुकैटभौ
हतौ शार्ङ्गविनिर्मुक्तैः शरैः कृष्णेन दुर्मदौ ॥

37.33

तयोस् तु मेदसा राजन् विष्णुना कल्पिता मही
मेदिनीति ततः संज्ञाम् अवापेयं वसुंधरा ॥

37.34

एवं कृष्णप्रसादेन वेदांल् लब्ध्वा प्रजापतिः
प्रजाः ससर्ज भूपाल वेददृष्टेन कर्मणा ॥

37.35

य इदं शृणुयान् नित्यं प्रादुर्भावं हरेर् नृप
वसित्वा चन्द्रसदने वेदविद् ब्राह्मणो भवेत् ॥

37.36

मात्स्यं वपुस् तन् महद् अद्रितुल्यं विद्यामयं लोकहिताय विष्णुः
आस्थाय भीमं जनलोकसंस्थैः स्तुतो ऽथ यस् तं स्मर भूमिपाल ॥

मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc