नरसिंहपुराण · अध्याय 35
अहो महत् त्वया प्रोक्तं विष्ण्वाराधनजं फलम्
सुप्तास् ते मुनिशार्दूल ये विष्णुं नार्चयन्ति वै ॥
त्वत्प्रसादाच् छ्रुतं ह्य् एतन् नरसिंहार्चनक्रमम्
भक्त्या तं पूजयिष्यामि कोटिहोमफलं वद ॥
इमम् अर्थं पुरा पृष्टः शौनको गुरुणा नृप
यत् तस्मै कथयाम्_अस शौनकस् तद् वादमि ते ॥
शौनकं तु सुखासीनं पर्यपृच्छद् बृहस्पतिः ॥
लक्षहोमस्य या भूमिः कोटिहोमस्य या शुभा ॥
तां मे कथय विप्रेन्द्र होमस्य चरिते विधिम् ॥
इत्युक्तो गुरुणा सो ऽथ लक्षहोमादिकं विधिम् ॥
शौनको वक्तुम् आरेभे यथावन् नृपसत्तम ॥
प्रवक्ष्यामि यथावत् ते शृणु देवपुरोहित ॥
लक्षहोममहाभूमिं तद्विशुद्धिं विशेषतः
यज्ञकर्मणि शस्ताया भूमेर् लक्षणम् उत्तमम् ॥
सुसंस्कृतां समां स्निग्धां पूर्वपूर्वम् अथोत्तमाम्
ऊरुमात्रं खनित्वा च शोधयेत् तां विशेषतः ॥
बहिरच्छतया तत्र मृदाच्छाद्य प्रलेपयेत्
प्रमाणं बाहुमात्रं तु सर्वतः कुण्डलक्षणम् ॥
चतुरस्रं चतुष्कोणं तुल्यसूत्रेण कारयेत्
उपरि मेखलां कुर्याच् चतुरस्रां सुविस्तराम् ॥
चतुरङ्गुलमात्रं तु उच्छ्रितां सूत्रसूत्रिताम्
ब्राह्मणान् वेदसंपन्नान् ब्रह्मकर्मसमन्वितान् ॥
आमन्त्रयेद् यथान्यायं यजमानो विशेषतः
ब्रह्मचर्यव्रतं कुर्युस् त्रिरात्रं ते द्विजातयः ॥
अहोरात्रम् उपोष्याथ गायत्रीम् अयुतं जपेत्
ते शुक्लवाससः स्नाता गन्धस्रक्पुष्पधारिणः ॥
शुचयश् च निराहाराः संतुष्टा संयतेन्द्रियाः
कौशम् आसनम् आसीना एकाग्रमनसः पुनः ॥
आरभेयुश् च ते यत्नात् ततो होमम् अतन्द्रिताः
भूमिम् आलिख्य चाभ्युक्ष्य यत्नाद् अग्निं निधापयेत् ॥
गृह्योक्तेन विधानेन होमं तत्र च होमयेत्
आघाराव् आज्यभागौ च जुहुयात् पूर्वम् एव तु ॥
यवधान्यतिलैर् मिश्रां गायत्र्या प्रथमाहुतिम्
जुहुयाद् एकचित्तेन स्वाहाकारान्वितां बुधः ॥
गायत्री छन्दसां माता ब्रह्मयोनिः प्रतिष्ठिता
सविता देवता तस्य विश्वामित्रस् तथा ऋषिः ॥
ततो व्याहृतिभिः पश्चाज् जुहुयाच् च तिलान्वितम्
यावत् प्रपूर्यते संख्या लक्षं वा कोटिर् एव वा ॥
तावद् धोमं तिलैः कुर्याद् अच्युतार्चनपूर्वकम्
दीनानाथजनेभ्यस् तु यजमानः प्रयत्नतः ॥
तावच् च भोजनं दद्याद् यावद् धोमं समाचरेत्
समाप्ते दक्षिणां दद्याद् ऋत्विग्भ्यः श्रद्धयान्वितः ॥
यथार्हता न लोभेन ततः शान्त्युदकेन च
प्रोक्षयेद् ग्राममध्ये तु व्याधितांस् तु विशेषतः ॥
एवं कृते तु होमस्य पुरस्य नगरस्य च
राष्ट्रस्य च महाभाग राज्ञो जनपदस्य च
सर्वबाधाप्रशमनी शान्तिर् भवति सर्वदा ॥
इत्य् एतच् छौनकप्रोक्तं कथितं नृपनन्दन
लक्षहोमादिकविधिं कार्यं राष्ट्रे सुशान्तिदम् ॥
ग्रामे गृहे वा पुरबाह्यदेशे द्विजैर् अयं यत्नकृतः पुरोविधिः
तत्रापि शान्तिर् भविता नराणां गवां च भृत्यैः सह भूपतेश् च ॥
मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0