नरसिंहपुराण · अध्याय 34
पुनर् एव द्विजश्रेष्ठ मार्कण्डेय महामते
निर्माल्यापनयाद् विष्णोर् यत् पुण्यं तद् वदस्व मे ॥
निर्माल्यम् अपनीयाथ तोयेन स्नाप्य केशवम्
नरसिंहाकृतिं राजन् सर्वपापैः प्रमुच्यते ॥
सर्वतीर्थफलं प्राप्य यानारूढो दिवं व्रजेत्
श्रीविष्णोः सदनं प्राप्य मोदते कालम् अक्षयम् ॥
आगच्छ नरसिंहेति आवाह्याक्षतपुष्पकैः
एतावतापि राजेन्द्र सर्वपापैः प्रमुच्यते ॥
दत्त्वासनम् अथार्घ्यं च पाद्यम् आचमनीयकम्
देवदेवस्य विधिना सर्वपापैः प्रमुच्यते ॥
स्नाप्य तोयेन पयसा नरसिंहं नराधिप
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥
स्नाप्य दध्ना सकृद् यस् तु निर्मलः प्रियदर्शनः
विष्णुलोकम् अवाप्नोति पूज्यमानः सुरोत्तमैः ॥
यः करोति हरेर् अर्चां मधुना स्नापयन् नरः
अग्निलोके स मोदित्वा पुनर् विष्णुपुरे वसेत् ॥
घृतेन स्नपनं यस् तु स्नानकाले विशेषतः
नरसिंहाकृतेः कुर्याच् *छङ्खभेरीनिनादितम् ॥
पापकञ्चुकम् उन्मुच्य यथा जीर्णम् अहिस् त्वचम्
दिव्यं विमानम् आस्थाय विष्णुलोके महीयते ॥
पञ्चगव्येन देवेशं यः स्नापयति भक्तितः
मन्त्रपूर्वं महाराज तस्य पुण्यम् अनन्तकम् ॥
यश् च गोधूमकैश् चूर्णैर् उद्वर्त्योष्णेन वारिणा
प्रक्षाल्य देवदेवेशं वारुणं लोकम् आप्नुयात् ॥
पादपीठं तु यो भक्त्या बिल्वपत्रर् निर्घर्षितम्
उष्णाम्बुना च प्रक्षाल्य सर्वपापैर् प्रमुच्यते ॥
कुशपुष्पोदकैः स्नात्वा ब्रह्मलोकम् अवाप्नुयात्
रत्नोदकेन सावित्रं कौबेरं हेमवारिणा
नरसिंहं तु संस्नाप्य कर्पूरागुरुवारिणा ॥
इन्द्रलोके स मोदित्वा पश्चाद् विष्णुपुरे वसेत्
पुण्योदकेन गोविन्दं स्नाप्य भक्त्या नरोत्तम ॥
सावित्रं लोकम् आसाद्य विष्णुलोके महीयते
वस्त्राभ्याम् अर्चनं भक्त्या परिधाप्य हरिं हरेः ॥
सोमलोके रमित्वा च विष्णुलोके महीयते
कुङ्कुमागुरुश्रीखण्ड कर्दमैर् अच्युताकृतिम् ॥
आलिप्य भक्त्या राजेन्द्र कल्पकोटिं वसेद् दिवि
मल्लिकामालतीजाति केतक्यशोकचम्पकैः ॥
पुंनागनागबकुलैः पद्मैर् उत्पलजातिभिः
तुलसीकरवीरैश् च पालाशैः सानुकुम्बकैः ॥
एतैर् अन्यैश् च कुसुमैः प्रशस्तैर् अच्युतं नरः
अर्चयेद् दशसुवर्णस्य प्रत्येकं फलम् आप्नुयात् ॥
मालां कृत्वा यथालाभम् एतेषां विष्णुम् अर्चयेत्
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥
दिव्यां विमानम् आस्थाय विष्णुलोके स मोदते
नरसिंहं तु यो भक्त्या बिल्वपत्रैर् अखण्डितैः ॥
निश्छिद्रैः पूजयेद् यस् तु तुलसीभिः समन्वितम्
सर्वपापविनिर्मुक्तः सर्वभूषणभूषितः ॥
काञ्चनेन विमानेन विष्णुलोके महीयते
माहिषाख्यं गुग्गुलं च आज्ययुक्तं सशर्करम् ॥
धूपं ददाति राजेन्द्र नरसिंहस्य भक्तिमान्
धूपितैः सर्वदिग्भ्यस् तु सर्वपापविवर्जितः ॥
अप्सरोगणसंकीर्ण विमानेन विराजते
वायुलोके स मोदित्वा पश्चाद् विष्णुपुरं व्रजेत् ॥
घृतेन वाथ तैलेन दीपं प्रज्वालयेन् नरः
विष्णवे विधिवद् भक्त्या तस्य पुण्यफलं शृणु ॥
विहाय पापकलिलं सहरादित्यसप्रभः
ज्योतिष्मता विमानेन विष्णुलोकं स गच्छति ॥
हविः शाल्योदनं दिवान् आज्ययुक्तं सशर्करम्
निवेद्य नरसिंहाय यावकं पायसं तथा ॥
समास् तन्दुलसंख्याया यावतीस् तावतीर् नृप
विष्णुलोके महाभोगान् भुञ्जन्न् आस्ते स वैष्णवः ॥
बलिना वैष्णवेनाथ तृप्ताः सन्तो दिवौकसः
शान्तिं तस्य प्रयच्छन्ति श्रियम् आरोग्यम् एव च ॥
प्रदक्षिणेन चैकेन देवदेवस्य भक्तितः
कृतेन यत् फलं नॄणां तच् छृणुष्व नृपात्मज ॥
पृथ्वीप्रदक्षिणफलं प्राप्य विष्णुपुरे वसेत्
नमस्कारः कृतो येन भक्त्या वै माधवस्य च ॥
धर्मार्थकाममोक्षाख्यं फलं तेनाप्तम् अञ्जसा
स्तोत्रैर् जपैश् च देवाग्रे यः स्तौति मधुसूदनम् ॥
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते
गीतवाद्यादिकं नाट्यं शङ्खतूर्यादिनिःस्वनैः ॥
यः कारयति वै विष्णोः स याति मन्दिरं नरः
पर्वकाले विशेषेण कामगः कामरूपवान् ॥
सुसंगीतविदैश् चैव सेव्यमानो ऽप्सरोगणैः
महार्हमणिचित्रेण विमानेन विराजता ॥
स्वर्गात् स्वर्गम् अनुप्राप्य विष्णुलोके महीयते
ध्वजं तु विष्णवे यस् तु गरुडेन समन्वितम् ॥
दद्यात् सो ऽपि ध्वजाकीर्ण विमानेन विराजता
विष्णुलोकम् अवाप्नोति सेव्यमानो ऽप्सरोगणैः ॥
सुवर्णाभरणैर् दिव्यैर् हारकेयूरकुण्डलैः
मुकुटाभरणाद्यैश् च यो विष्णुं पूजयेन् नृप ॥
सर्वपापविनिर्मुक्तः सर्वभूषणभूषितः
इन्द्रलोके वसेद् धीमान् यावद् इन्द्राश् चतुर्दश ॥
यो गां पयस्विनीं विष्णोः कपिलां संप्रयच्छति
आराध्य तम् अथाग्रे तु यत् किंचिद् दग्धम् उत्तमम् ॥
तद् दत्त्वा नरसिंहाय विष्णुलोके महीयते
पितरस् तस्य मोदन्ते श्वेतद्वीपे चिरं नृप ॥
एवं यः पूजयेद् राजन् नरसिंहं नरोत्तमः
तस्य स्वर्गापवर्गौ तु भवतो नात्र संशयः ॥
यत्रैवं पूज्यते विष्णुर् नरसिंहो नरैर् नृप
न तत्र व्याधिदुर्भिक्ष राजचौरादिकं भयम् ॥
नरसिंहं समाराध्य विधिनानेन माधवम्
नानास्वर्गसुखं भुक्त्वा न भूयः स्तनपो भवेत् ॥
नित्यं सर्पिस् तिलैर् होमो ग्रामे यस्मिन् प्रवर्तते
न भवेत् तस्य ग्रामस्य भयं वा तत्र कुत्रचित् ॥
अनावृष्टिर् माहामारी दोषा नो दाहका नृप
नरसिंहं समाराध्य ब्राह्मणैर् वेदपारगैः ॥
कारयेल् लक्षहोमं तु ग्रामे यत्र पुराधिपः
कृते तस्मिन् मयोक्ते तु आगच्छति न तद्भयम् ॥
दृष्टोपसर्गमरणं प्रजानाम् आत्मनश् च हि
सम्यगाराधनीयं तु नरसिंहस्य मन्दिरे ॥
शंकरायतने चापि कोटिहोमं नराधिप
कारयेत् संयतैर् विप्रैः सभोजनसदक्षिणैः ॥
कृते तस्मिन् नृपश्रेष्ठ नरसिंहप्रसादतः
उपसर्गादिमरणं प्रजानाम् उपशाम्यति ॥
दुःस्वप्नदर्शने घोरे ग्रहपीडासु चात्मनः
होमं च भोजनं चैव तस्य दोषः प्रणश्यति ॥
अयने विषुवे चैव चन्द्रसूर्यग्रहे तथा
नरसिंहं समाराध्य लक्षहोमं तु कारयेत् ॥
शान्तिर् भवति राजेन्द्र तस्य तत्स्थानवासिनाम्
एवमादिफलोपेतं नरसिंहार्चनं नृप ॥
कुरु त्वं भूपतेः पुत्र यदि वाञ्छसि सद्गतिम्
अतः परतरं नास्ति स्वर्गमोक्षफलप्रदम् ॥
नरेन्द्रैः सुकरं कर्तुं देवदेवस्य पूजनम्
सन्त्य् अरण्ये ह्य् अमूल्यानि पत्रपुष्पाणि शाखिनाम् ॥
तोयं नदीतडागेषु देवः साधारणः स्थितः
मनो नियमयेद् एकं विद्यासाधनकर्मणि ॥
मनो नियमितं येन मुक्तिस् तस्य करे स्थिता ॥
इत्य् एवम् उक्तं भृगुचोदितेन मया तवेहार्चनम् अच्युतस्य
दिने दिने त्वं कुरु विष्णुपूजां वदस्व चान्यत् कथयामि किं ते ॥
मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0