भाषा

ENहिગુ
ग्रंथ पाठ

नरसिंहपुराण · अध्याय 33

33.1

हरेर् अर्चाविधिं पुण्यां श्रोतुम् इच्छामि सत्त्वतः
त्वत्प्रसादाद् विशेषेण भगवन् प्रब्रवीहि मे ॥

33.2

संमार्जनकरो यश् च नरसिंहस्य मन्दिरे
यत् पुण्यं लभते तद्वद् उपलेपनकृण् नरः ॥

33.3

शुद्धोदकेन यत् पुण्यं स्नापिते केशवे भवेत्
क्षीरस्नानेन यत् पुण्यं दध्ना च मधुना तथा
घृतस्नानेन यत् पुण्यं पञ्चगव्येन यद् भवेत् ॥

33.4

क्षालिते चोष्णतोयेन प्रतिमायां च भक्तितः
कर्पूरागुरुतोयेन मिश्रेण स्नापितेन च ॥

33.5

अर्घ्यदानेन यत् पुण्यं पाद्याचमनदानके
मन्त्रेण स्नापिते यच् च वस्त्रदानेन यद् भवेत् ॥

33.6

श्रीखण्डकुङ्कुमाभ्यां तु अर्चिते किं फलं भवेत्
पुष्पैर् अभ्यर्चिते यच् च यत् फलं धूपदीपयोः ॥

33.7

नैवेद्यैर् यत् फलं प्रोक्तं प्रदक्षिणकृते तु यत्
नमस्कारकृते यच् च फलं यस् स्तोत्रगीतयोः ॥

33.8

तालवृन्तप्रदानेन चामरस्य च यद् भवेत्
ध्वजप्रदाने यद् विष्णोः शङ्खदानेन यद् भवेत् ॥

33.9

एतच् चान्यच् च यत् किंचिद् अज्ञानान् न प्रचोदितम्
तत् सर्वं कथय ब्रह्मन् भक्तस्य मम केशवे ॥

33.10

इति संप्रेरितो विप्रस् तेन राज्ञा भृगुस् तदा
मार्कण्डेयं नियुज्याथ कथने स गतो मुनिः ॥

33.11

सो ऽपि तस्मिन् मुदायुक्तो हरिभक्त्या विशेषतः
राज्ञे प्रवक्तुम् आरेभे भृगुणा चोदितो मुनिः ॥

33.12

राजपुत्र शृणुष्वेदं हरिपूजाविधिं क्रमात्
विष्णुभक्तस्य वक्ष्यामि तवाहं पाण्डुवंशज ॥

33.13

नरसिंहस्य नित्यं च यः संमार्जनम् आरभेत्
सर्वपापविनिर्मुक्तो विष्णुलोके स मोदते ॥

33.14

गोमयेन मृदा तोयैर् यः करोत्य् उपलेपनम्
स चाक्षयफलं प्राप्य विष्णुलोके महीयते ॥

33.15

अत्रार्थे यत् पुरावृत्तम् इतिहासं पुरातनम्
यच् छ्रुत्वा सर्वपापेभ्यो मुक्तिर् भवति सत्तम ॥

33.16

पुरा युधिष्ठिरो राजा पञ्चभिर् भ्रातृभिर् युतः
द्रौपद्या सह राजेन्द्र काननं विचचार ह ॥

33.17

शूलकण्टकनिष्क्रान्तास् ततस् ते पञ्च पाण्डवाः
नारदो ऽपि गतो नाकं जुष्ट्वेदं तीर्थम् उत्तमम् ॥

33.18

ततो युधिष्ठिरो राजा प्रस्थितस् तीर्थम् उत्तमम्
दर्शनं मुनिमुख्यस्य तीर्थधर्मोपदेशिनः ॥

33.19

चिन्तयति च धर्मात्मा क्रोधपैशुन्यवर्जितः
दानवो बहुरोमा च तथा स्थूलशिरा नृप ॥

33.20

पाण्डवान् गच्छतो वीक्ष्य दानवो द्रौपदीच्छया
कृत्वा भूप मुने रुपं बहुरोमा गतस् तदा ॥

33.21

प्रणिधानं विधायाथ आसीनः कुशविष्टरे
बिभ्रत् कमण्डलुं पार्श्वे दर्भसूचीं तथा करे ॥

33.22

अक्षमालां जपन् मन्त्रं स्वनासाग्रं निरीक्षयन्
स दृष्टः पाण्डवैस् तत्र रेवायां वनचारिभिः ॥

33.23

ततो युधिष्ठिरो राजा तं प्रणम्य सहानुजः
जगाद वचनं दृष्ट्वा भाग्येनासि महामुने ॥

33.24

तीर्थानि रुद्रदेहायाः सुगोप्यानि निवेदय
मुनीनां दर्शनं नाथ श्रुतं धर्मोपदेशकम् ॥

33.25

यावन् मुनिम् उवाचेदं धर्मपुत्रो युधिष्ठिरः
तावत् स्थूलशिराः प्राप्तो मुनिरूपधरो ऽपरः ॥

33.26

जल्पन्न् इत्य् आतुरं वाक्यं को नामास्त्य् अत्र रक्षकः
भयातुरं नरो जीवं यो रक्षेच् छरणागतम् ॥

33.27

तस्यानन्तफलं स्याद् वै किं पुनर् मां द्विजोत्तमम्
एकतो मेदिनीदानं मेरुभूधरदक्षिणम् ॥

33.28

अन्यतो ह्य् आर्तजीवानां प्राणसंशयवारणम्
द्विजं धेनुं स्त्रियं बालं पिड्यमानं च दुर्जनैः ॥

33.29

उपेक्षेत नरो यस् तु स च गच्छति रौरवम्
अथ मां हृतसर्वस्वं प्राणत्यागपरायणम् ॥

33.30

को रक्षति नरो वीरः पराभूतं हि दानवैः
गृहीत्वा चाक्षमालां मे तथा सुभकमण्डलुम् ॥

33.31

निहतो ऽहं कराघातैस् तथा खाटो मनोहरः
गृहीतं मम सर्वस्वं दानवेन दुरात्मना ॥

33.32

इत्य् आकर्ण्य वचः क्लीबं पाण्डवा जातसंभ्रमाः
यान्ति रोमाञ्चिता भूयो विधायाग्निं च तं मुनिम् ॥

33.33

विमुच्य द्रौपदीं तत्र मुनेः पार्श्वे महात्मनः
ततो दूरतरं प्राप्ताः संरम्भात् ते च पाण्डवाः ॥

33.34

ततो युधिष्ठिरो ऽवोचत् किं च नो नात्र दृश्यते
कृष्णासंरक्षणार्थाय व्रज व्यावर्त्य चार्जुन ॥

33.35

ततो ऽर्जुनो विनिष्क्रान्तो बन्धुवाक्यप्रणोदितः
ततो युधिष्ठिरो राजा सत्यां वाचम् अकल्पयत् ॥

33.36

निरीक्ष्य मण्डलं भानोस् तदा सुगहने वने
मम सत्याच् च सुकृताद् धर्मसंभाषणात् प्रभो ॥

33.37

तथ्यं शंसन्तु त्रिदशा मम संशयभाजिनः
ततो ऽम्बरे ऽभवद् वाणी तदा भूपाशरीरिणी ॥

33.38

दानवो ऽयं महाराज मुनिः स्थूलशिराः स्थितः
नासाव् उपद्रुतः केन मायैषास्य दुरात्मनः ॥

33.39

ततो भीमः कराघातैर् नश्यमानं हि दानवम्
संरम्भात् कुपितो ऽत्यर्थं मौलिदेशे जघान तम् ॥

33.40

सो ऽपि रूपं निजं प्राप्य रौद्रं भीमम् अताडयत्
तत्र युद्धं प्रववृते दारुणं भीमदैत्ययोः ॥

33.41

कष्टाद् बभञ्ज भीमो ऽपि तस्य स्थूलं शिरो वने
अर्जुनो ऽपि समायातो नैव पश्यति तं मुनिम् ॥

33.42

तथा च द्रौपदीं भूयः साध्वीं कान्तां च वल्लभाम्
ततो वृक्षं समारुह्य यावत् पश्यति चार्जुनः ॥

33.43

तावद् विधाय तां स्कन्धे शीघ्रं धावति दानवः
संहृता याति दुष्टेन रुदती कुररी यथा ॥

33.44

कुर्वती भीमभीमेति धर्मपुत्रेति वादिनी
तां दृष्ट्वा स ययौ वीरः शब्दैर् संनादयन् दिशः ॥

33.45

पादन्यासोरुवेगेन प्रभग्नाः पादपा भृशम्
ततो दैत्यो ऽपि तां तन्वीं विहायाशु पलायितः ॥

33.46

तथापि चार्जुनो तस्य कोपान् मुञ्चति नासुरम्
पतितो मेदिनीपृष्ठे तावद् एव चतुर्भुजः ॥

33.47

पीते चवाससी बिभ्रत् शङ्खचक्रायुधानि च
ततः स विस्मयाक्रान्तो नत्वा पार्थो वचो ऽवदत् ॥

33.48

कथं कृतैषा भगवंस् त्वया मायात्र वैष्णवी
मयाप्य् अपकृतं नाथ तत् क्षमस्व नमो ऽस्तु ते ॥

33.49

नूनम् अज्ञानभावेन कर्मैतद् दारुणं मया
तत् क्षन्तव्यं जगन्नाथ चैतन्यं मानवे कुतः ॥

33.50

नाहं कृष्णो महाबाहो बहुरोमास्मि दानवः
उपयातो हरेर् देहं पूर्वकर्मप्रभावतः ॥

33.51

बहुरोमन् पुर्वजातिं कर्म मे शंस तत्त्वतः
केन कर्मविपाकेन विष्णोः सारूप्यम् आप्तवान् ॥

33.52

शृण्व् अर्जुन महाभाग सहितो भ्रातृभिर् मम
चरितं चित्रम् अत्यर्थं शृण्वतां मुदवर्धनम् ॥

33.53

अहम् आसं पुरा राजा सोमवंशसमुद्भवः
जयध्वज इति ख्यातो नारायणपरायणः ॥

33.54

विष्णोर् देवालये नित्यं संमार्जनपरायणः
उपलेपरतश् चैव दीपदाने समुद्यतः ॥

33.55

वीतिहोत्र इति ख्यात आसीत् साधुपुरोहितः
मम तच्चरितं दृष्ट्वा विप्रो विस्मयम् आगतः ॥

33.56

कदाचिद् उपविष्टं तं राजानं विष्णुतत्परम्
अपृच्छद् वीतिहोत्रस् तं वेदवेदाङ्गपारगः ॥

33.57

राजन् परमधर्मज्ञ हरिभक्तपरायण
विष्णुभक्तिमतां पुंसां श्रेष्ठो ऽसि पुरुषर्षभ ॥

33.58

संमार्जनपरो नित्यं उपलेपरतस् तथा
तन् मे वद महाभाग त्वया किं विदितं फलम् ॥

33.59

कर्माण्य् अन्यानि सन्त्य् एव विष्णोः प्रियतराणि वै
तथापि त्वं महाभाग एतयोः सततोद्यतः ॥

33.60

सर्वात्मना महापुण्यं जनेश विदितं तव
तद् ब्रूहि यद्य् अगुह्यं च प्रीतिर् मयि तवास्ति चेत् ॥

33.61

शृणुष्व विप्रशार्दूल ममैव चरितं पुरा ॥

33.62

जातिस्मरत्वाज् जानामि श्रोतॄणां विस्मयावहम्
पूर्वजन्मनि विप्रेन्द्र रैवतो नाम वाडवः ॥

33.63

अयाज्ययाजको ऽहं वै सदैव ग्रामयाजकः
पिशुनो निष्ठुरश् चैव अपण्यनां च विक्रयी ॥

33.64

निषिद्धकर्माचरणात् परित्यक्तः स्वबन्धुभिः
महापापरतो नित्यं ब्रह्मद्वेषरतस् तथा ॥

33.65

परदारपरद्रव्य लोलुपो जन्तुहिंसकः
मद्यपानरतो नित्यं ब्रह्मद्वेषरतस् तथा ॥

33.66

एवं पपरतो नित्यं बहुशो मार्गरोधकृत्
कदाचित् कामचारो ऽहं गृहीत्वा ब्राह्मणस्त्रियः ॥

33.67

शून्यं पूजादिभिर् विष्णोर् मन्दिरं प्राप्तवान् निशि
स्ववस्त्रप्रान्ततो ब्रह्मन् कियदंशः स मार्जितः ॥

33.68

प्रदीपः स्थापितस् तत्र सुरतार्थाद् द्विजोत्तम
तेनापि मम दुष्कर्म निःशेषं क्षयम् आगतम् ॥

33.69

एवं स्थितं विष्णुगृहे मया भोगेच्छया द्विज
तदैव दीपकं दृष्ट्वा आगताः पुरपालकाः ॥

33.70

चौर्यार्थं परदूतो ऽयम् इत्य् उक्त्वा माम् अपातयन्
खड्गेन तीक्ष्णधारेण शिरश् छित्त्वा च ते गताः ॥

33.71

दिव्यं विमानम् आरुह्य प्रभुदाससमन्वितम्
गन्धर्वैर् गीयमानो ऽहं स्वर्गलोकं तदा गतः ॥

33.72

तत्र स्थित्वा ब्रह्मकल्पं शतं साग्रं द्विजोत्तमाः
दिव्यभोगसमायुक्तो दिव्यरूपसमन्वितः ॥

33.73

जातो ऽहं पुण्ययोगाद् धि सोमवंशसमुद्भवः
जयध्वज इति ख्यातो राजा राजीवलोचनः ॥

33.74

तत्रापि कालवशतो मृतः स्वर्गम् अवाप्तवान्
इन्द्रलोकम् अनुप्राप्य रुद्रलोकं ततो गतः ॥

33.75

रुद्रलोकाद् ब्रह्मलोकं गच्छता नारदो मुनिः
दृष्टश् च नमितो नैव गर्वान् मे हसितश् च सः ॥

33.76

कुपितः शप्तवान् मां स राक्षसो भव भूपते
इति शापं समाकर्ण्य दत्तं तेन द्विजन्मना ॥

33.77

प्रसादितो मया भूप प्रसादं कृतवान् मुनिः
यदा रेवामठे राजन् धर्मपुत्रस्य धीमतः ॥

33.78

भार्यापहारं नयतः शापमोक्षो भविष्यति
सो ऽहम् अर्जुन भूपाल धर्मपुत्र युधिष्ठिर ॥

33.79ab

विष्णोः सारूप्यम् अगमं यामि वैकुण्ठम् अद्य वै ॥

33.79cd

इत्य् उक्त्वा गरुडारूढो धर्मपुत्रस्य पश्यतः ॥

33.80

गतवान् विष्णुभवनं यत्र विष्णुः श्रिया सह
संमार्जनोपलेपाभ्यां महिमा तेन वर्णितः ॥

33.81

अवशेनापि यत् कर्म कृत्वेमां श्रियम् आगतः
भक्तिमद्भिः प्रशान्तैश् च किं पुनः सम्यगर्चनात् ॥

33.82

मार्कण्डेयवचः श्रुत्वा पाण्डुवंशसमुद्भवः
सहस्रानीकभूपालो हरिपूजारतो ऽभवत् ॥

33.83

तस्माच् छृणुत विप्रेन्द्रा देवो नारायणो ऽव्ययः
ज्ञानतो ऽज्ञानतो वापि पूजकानां विमुक्तिदः ॥

33.84

अर्चयध्वं जगन्नाथं भूयो भूयो वदाम्य् अहम्
तर्तुं यदीच्छथ द्विजा दुस्तरं भवसागरम् ॥

33.85

ये ऽर्चयन्ति हरिं भक्ताः प्रणतार्तिहरं हरिम्
ते वन्द्यास् ते प्रपूज्याश् च नमस्याश् च विशेषतः ॥

मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc