भाषा

ENहिગુ
ग्रंथ पाठ

नरसिंहपुराण · अध्याय 32

32.1

सहस्रानीकस्य हरेर् अवतारांश् च शार्ङ्गिणः
सांप्रतं श्रोतुम् इच्छामि तन् मे वद महामते ॥

32.2

हन्त ते कथयिष्यामि चरितं तस्य धीमतः
सहस्रानीकस्य हरेर् अवतारांश् च मे शृणु ॥

32.3

सहस्रानीको ऽभिषिक्तो निजराज्ये द्विजोत्तमैः
पालयाम्_अस धर्मेण राज्यं स तु नृपात्मजः ॥

32.4

तस्य पालयतो राज्यं राजपुत्रस्य धीमतः
भक्तिर् बभूव देवेशे नरसिंहे सुरोत्तमे ॥

32.5

तं द्रष्टुम् आगतः साक्षाद् विष्णुभक्तं भृगुः पुरा
अर्घ्यपाद्यासनै राजा तम् अभ्यर्च्याब्रवीद् इदम् ॥

32.6

पावितो ऽहं मुनिश्रेष्ठ सांप्रतं तव दर्शनात्
त्वद्दर्शनम् अपुण्यानां कलाव् अस्मिन् सुदुर्लभम् ॥

32.7

नरसिंहं प्रतिष्ठाप्य देवदेवं सनातनम्
आराधयितुम् इच्छामि विधानं तत्र मे वद ॥

32.8

अवतारान् अशेषांश् च देवदेवस्य चक्रिणः
श्रोतुम् इच्छामि सकलांस् तान् पुण्यान् अपि मे वद ॥

32.9

शृणु भूपालपुत्र त्वं न हि कश्चित् कलौ युगे
हरौ भक्तिं करोत्य् अत्र नृसिंहे चातिभक्तिमान् ॥

32.10

स्वभावाद् यस्य भक्तिः स्यान् नरसिंहे सुरोत्तमे
तस्यारयः प्रणश्यन्ति कार्यसिद्धिश् च जायते ॥

32.11

त्वम् अतीव हरेर् भक्तः पाण्डुवंशे ऽपि सत्तमः
तेन ते निखिलं वक्ष्ये शृणुष्वैकाग्रमानसः ॥

32.12

यः कुर्याच् छोभनं वेश्म नरसिंहस्य भक्तिमान्
स सर्वपापनिर्मुक्तो विष्णुलोकम् अवाप्नुयात् ॥

32.13

प्रतिमां लक्षणोपेतां नरसिंहस्य कारयेत्
स सर्वपापनिर्मुक्तो विष्णुलोकम् अवाप्नुयात् ॥

32.14

प्रतिष्ठां नरसिंहस्य यः करोति यथाविधि
निष्कामो नरशार्दूल देहबाधात् प्रमुच्यते ॥

32.15

नरसिंहं प्रतिष्ठप्य यः पूजाम् आचरेन् नरः
तस्य कामाः प्रसिध्यन्ति परमं पदम् आप्नुयात् ॥

32.16

ब्रह्मादयः सुराः सर्वे विष्णुम् आराध्य ते पुरा
स्वं स्वं पदम् अनुप्राप्ताः केशवस्य प्रसादतः ॥

32.17

ये ये नृपवरा राजन् मान्धातृप्रमुखा नृपाः
ते ते विष्णुं समाराध्य स्वर्गलोकम् इतो गताः ॥

32.18

यस् तु पूजयते नित्यं नरसिंहं सुरेश्वरम्
स स्वर्गमोक्षभागी स्यान् नात्र कार्या विचारणा ॥

32.19

तस्माद् एकमना भूत्वा यावज्जीवं प्रतिज्ञया
अर्चनान् नरसिंहस्य प्राप्स्यसे स्वाभिवाञ्छितम् ॥

32.20

विधिवत् स्थापयेद् यस् तु कारयित्वा जनार्दनम्
न तु निर्गमनं तस्य विष्णुलोकाद् भवेन् नृप ॥

32.21

नरो नृसिंहं तम् अनन्तविक्रमं सुरासुरैर् अर्चितपादपङ्कजम्
संस्थाप्य भक्त्या विधिवच् च पूजयेत् पयाति साक्षात् परमेश्वरं हरिम् ॥

मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc