भाषा

ENहिગુ
ग्रंथ पाठ

नरसिंहपुराण · अध्याय 31

31.1

को ऽसौ ध्रुवः कस्य सुतः सूर्याधारो ऽभवत् कथम्
विचिन्त्य कथयाशु त्वं सूत जीव समाः शतम् ॥

31.2

मनोः स्वायंभुवस्यासीद् उत्तानचरणः सुतः
तस्य क्षितिपतेर् विप्र द्वौ सुतौ संबभूवतुः ॥

31.3

सुरुच्याम् उत्तमो ज्येष्ठः सुनीत्यां तु ध्रुवो ऽपरः
मध्येसभं नरपतेर् उपविष्टस्य चैकदा ॥

31.4

सुनीत्या राजसेवायै नियुक्तो ऽलंकृतः सुतः
ध्रुवो धात्रेयिकापुत्रैः समं विनयतत्परः ॥

31.5

स गत्वोत्तानचरणं क्षोणीशं प्रणनाम ह
दृष्ट्वोत्तमं तदुत्सङ्गे निविष्टं जनकस्य वै ॥

31.6

प्राप्य सिंहासनस्थं च नृपतिं बालचापलात्
आरुरुक्षुम् अवेक्ष्यामुं सुरुचिर् ध्रुवम् अब्रवीत् ॥

31.7

दौर्भगेय किम् आरोढुम् इच्छेर् अङ्कं महीपतेः
बाल बालिशबुद्धित्वाद् अभाग्याजाठरोद्भवः ॥

31.8

अस्मिन् सिंहासने स्थातुं सुकृतं किं त्वया कृतम् ॥

31.9

यदि स्यात् सुकृतं तत् किं दुर्भाग्योदरगो ऽभवः
अनेनैवानुमानेन बुध्यस्व स्वल्पपुण्यताम् ॥

31.10

भूत्वा राजकुमारो ऽपि नालंकुर्या ममोदरम्
सुकुक्षिजं अमुं पश्य त्वम् उत्तमम् अनुत्तमम् ॥

31.11ab

अधिजानु धराजनेर् मानेन परिबृंहितम् ॥

31.11cd

मध्येराजसभं बालस् तयेति परिभर्त्सितः ॥

31.12

निपतन्नेत्रबाष्पाम्बुर् धैर्यात् किंचिन् न चोक्तवान्
उचितं नोचितं किंचिन् नोचिवान् सो ऽपि पार्थिवः ॥

31.13

नियन्त्रितो महिष्याश् च तस्याः सौभाग्यगौरवात्
विसर्जितसभालोकं शोकं संहृत्य चेष्टितैः ॥

31.14

शैशवैः स शिशुर् नत्वा नृपं स्वसदनं ययौ
सुनीतिर् नीतिनिलयम् अवलोक्याथ बालकम् ॥

31.15

मुखलक्ष्म्यैव चाज्ञासीद् ध्रुवं राजापमानितम्
अथ दृष्ट्वा सुनीतिं तु रहो ऽन्तःपुरवासिनीम् ॥

31.16

आलिङ्ग्य दीर्घं निःश्वस्य मुक्तकण्ठं रुरोद ह
सान्त्वयित्वा सुनीतिस् तं वदनं परिमार्ज्य च ॥

31.17

दुकूलाञ्चलसंपर्कैर् वीज्य तं मृदुपाणिना
पप्रच्छ तनयं माता वद रोदनकारणम् ॥

31.18ab

विद्यमाने नरपतौ शिशो केनापमानितः ॥

31.18cd

संपृच्छे जननि त्वाहं संयक् शंस ममाग्रतः ॥

31.19

भार्यात्वे ऽपि च सामान्ये कथं सा सुरुचिः प्रिया
कथं न भवती मातः प्रिया क्षितिपतेर् असि ॥

31.20

कथम् उत्तमतां प्राप्त उत्तमः सुरुचेः सुतः
कुमारत्वे ऽपि सामान्ये कथं चाहम् अनुत्तमः ॥

31.21

कथं त्वं मन्दभाग्यासि सुकुक्षिः सुरुचिः कथम्
कथं नृपासनं योग्यम् उत्तमस्य कथं न मे ॥

31.22

कथं मे सुकृतं तुच्छम् उत्तमस्योत्तमं कथम्
इति श्रुत्वा वचस् तस्य सुनीतिर् नीतिमच्छिशोः ॥

31.23

किंचिद् उच्छ्वस्य शनकैः शिशुशोकोपशान्तये
स्वभावमधुरां वाणीं वक्तुं समुपचक्रमे ॥

31.24

अयि तात महाबुद्धे विशुद्धेनान्तरात्मना
निवेदयामि ते सर्वं मावमाने मतिं कृथाः ॥

31.25

तया यद् उक्तं तत् सर्वं तथ्यम् एव न चान्यथा
यदि सा महिषी राज्ञो राज्ञीनाम् अतिवल्लभा ॥

31.26

महासुकृतसंभारैर् उत्तमश् चोत्तमोदरे
उवास तस्याः पुण्याया नृपसिंहासनोचितः ॥

31.27

आतपत्रं च चन्द्राभं शुभे चापि हि चामरे
भद्रासनं तथोच्चं च सिन्धुराश् च मदोत्कटाः ॥

31.28

तुरंगमाश् च तुरगा अनाधिव्याधि जीवितम्
निःसपत्नं शुभं राज्यं प्राप्यं विष्णुप्रसादतः ॥

31.29

इत्य् आकर्ण्य सुनीत्यास् तन् मातुर् वाक्यम् अनिन्दितम्
सौनीतेयो ध्रुवो वाचम् आददे वक्तुम् उत्तरम् ॥

31.30

जनयित्रि सुनीते मे शृणु वाक्यम् अनाकुलम्
उत्तानचरणाद् अन्यन् नास्तीति मे मतिः शुभे ॥

31.31

सिद्धार्थो ऽस्म्य् अम्ब यद्य् अस्ति कश्चिद् आश्रितकामधुक्
अद्यैव सकलाराध्यं तम् आराध्य जगत्पतिम् ॥

31.32

तत्तदासादितं विद्धि पदम् अन्यैर् दुरासदम्
एकम् एव हि साहाय्यं मातर् मे कर्तुम् अर्हसि ॥

31.33ab

अनुज्ञां देहि मे विष्णुं यथा चाराधयाम्य् अहम् ॥

31.33cd

अनुज्ञातुं न शक्नोमि त्वाम् उत्तानशयाङ्गज ॥

31.34

सप्ताष्टवर्षदेशीयः क्रीडायोग्यो ऽसि पुत्रक
त्वदेकतनया तात त्वदाधारैकजीविता ॥

31.35

लब्धो ऽसि कतिभिः कष्ठैर् इष्टा संप्रार्थ्य देवताः
यदा यदा बहिर् यासि रंतुं त्रिचतुरं पदम्
तदा तदा मम प्राणस् तात त्वाम् उपगच्छति ॥

31.36

अद्य यावत् पिता माता त्वं चोत्तानपदो विभुः
अद्यप्रभृति मे माता पिता विष्णुर् न शंशयः ॥

31.37

विष्णोर् आराधने नाहं वारये त्वां सुपुत्रक
जिह्वा मे शतधा याति यदि त्वां वारयामि भोः ॥

31.38

इत्य् अनुज्ञाम् इव प्राप्य जननीचरणाम्बुजौ
परिक्रम्य प्रणम्याथ तपसे स ध्रुवो ययौ ॥

31.39

तयापि धैर्यसूत्रेण सुनीत्या परिगुम्फ्य च
तत्रेन्दीवरजा माला ध्रुवस्योपायनीकृता ॥

31.40

मात्रा तन्मार्गरक्षार्थं तदा तदनुगीकृताः
परैर् अवार्यप्रसराः स्वाशीर्वादाः परःशताः ॥

31.41

सर्वत्रावतु ते पुत्र शङ्खचकगदाधरः
नारायणो जगद्व्यापी प्रभुः कारुण्यवारिधिः ॥

31.42

स्वसौधात् स विनिर्गत्य बालो बालपराक्रमः
अनुकूलेन मरुता दर्शिताध्वाविशद् वनम् ॥

31.43

स मातृदैवतोभिज्ञः केवलं राजवर्त्मनि
न वेद काननाध्वानं क्षणं दध्यौ नृपात्मजः ॥

31.44

पुरोपवनम् आसाद्य चिन्तयाम्_अस सो ऽर्भकः
किं करोमि क्व गच्छामि को मे साहाय्यदो भवेत् ॥

31.45

एवम् उन्मील्य नयने यावत् पश्यति स ध्रुवः
तावद् ददर्श सप्तर्षीन् अतर्कितगतीन् वने ॥

31.46

अथ दृष्ट्वा स सप्तर्षीन् सप्तसप्ततितेजसः
भाग्यसूत्रैर् इवाकृष्यो -पनीतान् प्रमुमोद ह ॥

31.47

तिलकाङ्कितसद्भालान् कुशोपग्रहिताङ्गुलीन्
कृष्णाजिनोपविष्टांश् च ब्रह्मसूत्रैर् अलंकृतान् ॥

31.48

उपगम्य विनम्रांसः प्रबद्धकरसंपुटः
ध्रुवो विज्ञापयं_चक्रे प्रणम्य ललितं वचः ॥

31.49

अवैत मां मुनिवराः सुनीत्युदरसंभवम्
उत्तानपादतनयं ध्रुवं निर्विण्णमानसम् ॥

31.50

तं दृष्ट्वोर्जस्वलं बालं स्वभावमधुराकृतिम्
अनर्घ्यनयने पथ्यं मृदुगम्भीरभाषिणम् ॥

31.51

उपोपवेश्य शिशुकं प्रोचुस् ते विस्मिता भृशम्
तवाद्यापि न जानीमो वत्स निर्वेदकारणम् ॥

31.52

अनवाप्ताभिलाषाणां वैराग्यं जायते नृणाम्
सप्तद्वीपपते राज्ञः कुमारस् त्वं तथा कथम् ॥

31.53ab

किम् अस्माभिर् अहो कार्यं कस् तवास्ति मनोरथः ॥

31.53cd

मुनयो मम यो बन्धुर् उत्तमश् चोत्तमोत्तमः ॥

31.54

पित्रा प्रदत्तं तस्यास्तु तद् भद्रासनम् उत्तमम्
भवत्कृतं हि साहाय्यं एतद् इच्छामि सुव्रताः ॥

31.55

अनन्यनृपभुक्तं यद् यद् अन्येभ्यः समुच्छ्रितम्
इन्द्रादिदुरवापं यत् कथं लभ्येत तत् पदम् ॥

31.56

इति श्रुत्वा वचस् तस्य मुनयो बालकस्य तु
यथार्थम् एव प्रत्यूचुर् मरीच्याद्यास् तदा ध्रुवम् ॥

31.57

अनास्वादितगोविन्द पदाम्बुजरजोरसः
मनोरथपथातीतं स्फीतं नाकलयेत् फलम् ॥

31.58

अनर्चिताच्युतपदः पदम् आसादयेत् कथम्
इन्द्रादिदुरवापं यन् मानवैः सुदुरासदम् ॥

31.59

न हि दूरे पदं तस्य सर्वासां संपदाम् इह
कमलाकान्तकान्ताङ्घ्रि कमलं यः सुशीलयेत् ॥

31.60

यस्य स्मरणमात्रेण महापातकसंततिः
परमान्तकम् आप्नोति स विष्णुः सर्वदो ध्रुव ॥

31.61

यद् आहुः परमं ब्रह्म प्रधानपुरुषात् परम्
यन्मायया कृतं सर्वं स विष्णु कीर्तितो ऽर्थदः ॥

31.62

यो यज्ञपुरुषो विष्णुर् वेदवेद्यो जनार्दनः
अन्तरात्मास्य जगतः संतुष्टः किं न यच्छति ॥

31.63

यद् भूनर्तनवर्तिन्यः सिद्धयो ऽष्टौ नृपात्मज
तम् आराध्य हृषीकेशं चतुर्वर्गो न दूरतः ॥

31.64

सत्यम् उक्तं द्विजेन्द्रा वो विष्णोर् आराधनं प्रति
कथं स भगवान् इज्यः स विधिश् चोपदिश्यताम् ॥

31.65

प्रभूतदो भवेद् यो वै दुराराध्यतमो भवेत्
बालो ऽहं राजपुत्रो ऽहं दुःखं नैव मया क्षमम् ॥

31.66

तिष्ठता गच्छता वापि स्वपता जाग्रता तथा
शयानेनोपविष्टेन वेद्यो नारायणः सदा ॥

31.67

पुत्रान् कलत्रं मित्राणि राज्यं स्वर्गापवर्गकम्
वासुदेवं जपन् मर्त्यः सर्वं प्राप्नोत्य् असंशयम् ॥

31.68

द्वादशाक्षरमन्त्रेण वासुदेवात्मकेन च
ध्यायंश् चतुर्भुजं विष्णुं जप्त्वा सिद्धिं न को गतः ॥

31.69

पितामहेन चाप्य् एष महामन्त्र उपासितः
मनुना राज्यकामेन वैष्णवेन नृपात्मज ॥

31.70

त्वम् अप्य् एतेन मन्त्रेण वासुदेवपरो भव
यथाभिलषिताम् ऋद्धिं क्षिप्रं प्राप्स्यसि सत्तम ॥

31.71

इत्य् उक्त्वान्तर्हिताः सर्वे महात्मानो मुनीश्वराः
वासुदेवमना भूत्वा ध्रुवो ऽपि तपसे ययौ ॥

31.72

ध्रुवः सर्वार्थदं मन्त्रं जपन् मधुवने तपः
स चक्रे यमुनातीरे मुनिदिष्टेन वर्त्मना ॥

31.73

श्रद्धान्वितेन जपता च तपःप्रभावात् साक्षाद् इवाब्जनयनं ददृशे हृदीशम्
दिव्याकृतिं सपदि तेन ततः स एव हर्षात् पुनः स प्रजजाप नृपात्मभूतः ॥

31.74

क्षुत्तर्षवर्षघनवातमहोष्णतादि शारीरदुःखकुलम् अस्य न किंचनाभूत्
मग्ने मनस्य् अनुपमेयसुखाम्बुराशौ राज्ञः शिशुर् न च विवेद शरीरवार्ताम् ॥

31.75

विघ्नाश् च तस्य किल शङ्कितदेवसृष्टा बालस्य तीव्रतपसो विफला बभूवुः
शीतातपादिर् इव विष्णुमयं मुनिं हि प्रादेशिका न खलु धर्षयितुं क्षमन्ते ॥

31.76

अथ भक्तजनप्रियः प्रभुः शिशुना ध्यानबलेन तोषितः
वरदः पतगेन्द्रवाहनो हरिर् आगात् स्वजनं तम् ईक्षितुम् ॥

31.77

मणिपिण्डकमौलिराजितो विलसद्रत्नमहाघनच्छविः
स बभाव् उदयाद्रिमत्सराद् धृतबालार्क इवासिताचलः ॥

31.78

स राजसूनुं तपसि स्थितं तं ध्रुवं ध्रुवस्निग्धदृग् इत्य् उवाच
दन्तांशुसंज्ञैर् अमितप्रवाहैः प्रक्षालयन् रेणुम् इवास्य गात्रे ॥

31.79

वरं वरं वत्स वृणीष्व यस् ते मनोगतस् त्वत्तपसास्मि तुष्टः
ध्यानेन ते चेन्द्रियनिग्रहेण मनोनिरोधेन च दुष्करेण ॥

31.80

शृण्वन् वचस् तत् सकलं गम्भीरम् उन्मीलिताक्षः सहसा ददर्श
स्वे चिन्त्यमानं त्व् इदम् एव मूर्तं पुरःस्थितं ब्रह्म चतुर्भुजं सः ॥

31.81

दृष्ट्वा क्षणं राजसुतः सुपूज्यं पुरस् त्रयीशं किम् इह ब्रवीमि
किं वा करोमीति ससंभ्रमः स तु न चाब्रवीत् किंचन नो चकार ॥

31.82

हर्षाश्रुपूर्णः पुलकाञ्चिताङ्गस् त्रिलोकनाथेति वदन्न् अथोच्चैः
दण्डप्रणामाय पपात भूमौ प्रवेपमानभ्रु हरेः पुरः स हि ॥

31.83

दण्डवत् प्रणिपत्याथ परितः परिलुण्ठ्य च
रोरोद हर्षेण चिरं दृष्ट्वा तं जगतो गुरुम् ॥

31.84

नारदेन सनन्देन सनकेन च संश्रुतम्
अन्यैः सनत्कुमाराद्यैर् योगिभिर् योगिनां वरम् ॥

31.85

कारुण्यबाष्पनीरार्द्रं पुण्डरीकविलोचनम्
ध्रुवम् उत्थापयां_चक्रे चक्री धृत्वा करेण तम् ॥

31.86

हरिस् तु परिपस्पर्श तदङ्गं धूलिधूसरम्
कराभ्यां कोमलाभ्यां स परिष्वज्याह तं हरिः ॥

31.87

वरं वरय भो बाल यत् ते मनसि वर्तते
तद् ददामि न संदेहो नादेयं विद्यते तव ॥

31.88

ततो वरं राजशिशुर् ययाचे विष्णुं वरं ते स्तवशक्तिम् एव
तं मूर्तिविज्ञाननिभेन देवः पस्पर्श शङ्खेन मुखे ऽमलेन ॥

31.89

अथ सुरमुनिदत्तज्ञानचन्द्रेण सम्यग् विमलितम् इव चित्तं पूर्णम् एव ध्रुवस्य
त्रिभुवनगुरुशङ्खस्पर्शजज्ञानभानान् उदयति नितरान्तः साधु तुष्टाव हृष्टः ॥

31.90

स्थानाभिकामी तपसि स्थितो ऽहम् त्वां दृष्टवान् साधुमुनीन्द्रगुह्यम्
काचं विचिन्वन्न् इव दिव्यरत्नं स्वामिन् कृतार्थो ऽस्मि वरान् न याचि ॥

31.91

अपूर्वदृष्टे तव पादपद्मे दृष्ट्वा दृढं नाथ न हि त्यजामि
कामान् न याचे स हि को ऽपि मूढो यः कल्पवृक्षात् तुषमात्रम् इच्छेत् ॥

31.92

त्वां मोक्षबीजं शरणं प्रपन्नः शक्नोमि भोक्तुं न बहिःसुखानि
रत्नाकरे देव सति स्वनाथे विभूषणं काचमयं न युक्तम् ॥

31.93

अतो न याचे वरम् ईश युष्मत् पादाब्जभक्तिं सततं ममास्तु
इमं वरं देववर प्रयच्छ पुनः पुनस् त्वाम् इदम् एव याचे ॥

31.94

इत्य् आत्मसंदर्शनलब्धदिव्य ज्ञानं गदन्तं भगवाञ् जगाद ॥

31.95

आराध्य विष्णुं किम् अनेन लब्धं मा भूञ्जने ऽपीत्थम् असाधुवादः
स्थानं परं प्राप्नुहि यन् मतं ते कालेन मां प्राप्स्यसि शुद्धभावः ॥

31.96

आधारभूतः सकलग्रहाणां कल्पद्रुमः सर्वजनैश् च वन्द्यः
मम प्रसादात् तव सा च माता ममान्तिके या च सुनीतिर् आर्या ॥

31.97

तं साधयित्वेति वरैर् मुकुन्दः स्वम् आलयं दृश्यवपुर् जगाम
त्यक्त्वा शनैर् दिव्यवपुः स्वभक्तं मुहुः परावृत्त्य समीक्षमाणः ॥

31.98

तावच् च सद्यः सुरसिद्धसङ्घः श्रीविष्णुतद्भक्तसमागमं तम्
दृष्ट्वाथ वर्षन् सुरपुष्पवृष्टिं तुष्टाव हर्षाद् ध्रुवम् अव्ययं च ॥

31.99

श्रियाभिमत्या च सुनीतिसूनुर् विभाति देवैर् अपि वन्द्यमानः
यो ऽयं नृणां कीर्तनदर्शनाभ्याम् आयुर् यशो वर्धयति श्रियं च ॥

31.100

इत्थं ध्रुवः प्राप पदं दुरापं हरेः प्रसादान् न च चित्रम् एतत्
तस्मिन् प्रसन्ने द्विजराजपत्रे न दुर्लभं भक्तजनेषु किंचित् ॥

31.101

सूर्यमण्डलमानात् तु द्विगुणं सोममण्डलम्
पूर्णे शतसहस्रे द्वे तस्मान् नक्षत्रमण्डलम् ॥

31.102

द्वे लक्षे ऽपि बुधस्यापि स्थानं नक्षत्रमण्डलात्
तावत्प्रमाणभागे तु बुधस्याप्य् उशना स्थितः ॥

31.103

अङ्गारको ऽपि शुक्रस्य तावन्माने व्यवस्थितः
लक्षद्वयं तु भौमस्य स्थितो देवपुरोहितः ॥

31.104

सौरिर् बृहस्पतेश् चोर्ध्वं द्विलक्षे तु व्यवस्थितः
तस्माच् छनैश्चराद् ऊर्ध्वं लक्षे सप्तर्षिमण्डलम् ॥

31.105

सप्तर्षिमण्डलाद् ऊर्ध्वम् एकं लक्षं ध्रुवः स्थितः
मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य सत्तम ॥

31.106

स्वभावात् तपति विप्रेन्द्र अधश् चोर्ध्वं च रश्मिभिः
कालसंख्यां त्रिलोकस्य स करोति युगे युगे ॥

31.107

जनस् तपस् तथा सत्यम् एतांल् लोकान् द्विजोत्तम
ब्रह्मणा मुनिशार्दूल विष्णुभक्तिविवर्धितः ॥

31.108

ऊर्ध्वगतैर् द्विजश्रेष्ठ रश्मिभिस् तपते रविः
अधोगतैश् च भूर्लोकं द्योतते दीर्घदीधितिः ॥

31.109

सर्वपापहरः सूर्यः कर्ता त्रिभुवनस्य च
छत्रवत् प्रतिपश्येत मण्डलान् मण्डलं परम् ॥

31.110

आदित्यमण्डलाधस्ताद् भुवर्लोकं प्रतिष्ठितम्
त्रैलोक्यस्येश्वरत्वं च विष्णुदत्तं शतक्रतोः ॥

31.111

लोकपालैः स सहितो लोकान् रक्षति धर्मतः
वसेत् स्वर्गे महाभाग देवेन्द्रः स तु कीर्तिमान् ॥

31.112

ततो ऽधस्तान् मुने चेदं पातालं विद्धि सप्रभम्
न तत्र तपते सूर्यो न रात्रिर् न निशाकरः ॥

31.113

दिव्यस्वरूपम् आस्थाय तपन्ति सततं जनाः
पातालस्था द्विजश्रेष्ठ दीप्यमनाः स्वतेजसा ॥

31.114

स्वर्लोकात् तु महर्लोकः कोटिमात्रे व्यवस्थितः
ततो योजनमात्रेण द्विगुणो मण्डलेन तु ॥

31.115

जनलोकः स्थितो विप्र पञ्चमो मुनिसेवितः
तत्रोपरि तपोलोकश् चतुर्भिः कोटिभिः स्थितः ॥

31.116

सत्यलोको ऽष्टकोटीभिस् तपोलोकोपरिस्थितः
सर्वे छत्राकृतिज्ञेया भुवनोपरिसंस्थिताः ॥

31.117

ब्रह्मलोकाद् विष्णुलोको द्विगुणश् च व्यवस्थितः
वाराहे तस्य माहात्म्यं कथितं लोकचिन्तकैः ॥

31.118

ततः परं द्विजश्रेष्ठ स्थितः परमपुरुषः
ब्रह्माण्डात् परमः साक्षान् निर्लेपः पुरुषः स्थितः ॥

31.119

पशुपाशैर् विमुच्येत तपोज्ञानसमन्वितः
इति ते संस्थितिः प्रोक्ता भूगोलस्य मयानघ
यस् तु सम्यग् इमां वेत्ति स याति परमां गतिम् ॥

31.120

लोकस्य संस्थानकरो ऽप्रमेयो विष्णुर् नृसिंहो नरदेवपूजितः
युगे युगे विष्णुर् अनादिमूर्तिमान् आस्थाय विश्वं परिपाति दुष्टहा ॥

मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc