भाषा

ENहिગુ
ग्रंथ पाठ

नरसिंहपुराण · अध्याय 30

30.1

अतः परं प्रवक्ष्यामि भूगोलं द्विजसत्तमाः
संक्षेपात् पर्वताकीर्णं नदीभिश् च समन्ततः ॥

30.2

ःजम्बुप्लक्षशाल्मलकुशक्रौञ्चशाकपुष्करसंज्ञाः सप्त द्वीपाः ।
ःलक्षयोजनप्रमाणाज् जम्बुद्वीपाद् उत्तरोत्तरद्विगुणाः ।
ःलवणेक्षुरससुरासर्पिर्दधिदुग्धस्वच्छोदकसंज्ञैः परस्परं द्विगुणैः सप्तसमुद्रैर् वलयाकारैस् ते द्वीपाः परिधिष्ठिताः ॥

30.4

ःत्रयः प्रव्रजिताः ।
ःशिष्टानां सप्तानां सप्तद्वीपाः पित्रा दत्ताः ।
ःतत्र जम्बुद्वीपाधिपतेर् अग्नीध्रस्य नव पुत्राः जाताः ॥

30.5

नाभिः किंपुरुषश् चैव हरिवर्ष इलावृतः
रम्यो हिरण्ययश् चैव कुरुर् भद्रश् च केतुमान् ॥

30.6

ःनववर्षाः विभज्य पुत्रेभ्यः पित्रा दत्ता वनं प्रविशता ।
ःअग्नीध्रीयं हिमाह्वयम् ।
ःयस्याधिपतिर् नाभेः ऋषभः पुत्रो बभूव ॥

30.7

ःइलावृतस्य मध्ये मेरुः सुवर्णमयश् चतुरशीतिसहस्राणि योजनानि तस्योच्छ्रायः ।
ःषोडशसहस्रम् अप्य् अधस्ताद् अवगाढः ।
ःतद्द्विगुणो मूर्ध्नि विस्तारः ॥

30.8

ःवायव्यां वायोर् गन्धवती ।
ःउदीच्यां सोमस्य विभावरीति ।
ःनववर्षान्वितं जम्बूद्वीपं पुण्यपर्वतैः पुण्यनदीभिर् अन्वितम् ॥

30.10

तत्रैव कर्मभिः स्वर्गं कृतेः प्राप्स्यन्ति मानवाः
मुक्तिश् चात्रैव निष्कामैः प्राप्यते ज्ञानकर्मभिः
अधोगतिम् इतो विप्र यान्ति वै पापकारिणः ॥

30.12

ःअथ सप्त कुलपर्वताः कथ्यन्ते ।
ःमहेन्द्रो मलयः शुक्तिमान् ऋष्यमूकः सह्यपर्वतो विन्ध्यः पारियात्रः ।
ःइत्य् एते भारते कुलपर्वताः ॥

30.14

जम्बुनाम्ना च विख्यातं जम्बुद्वीपम् इदं शुभम्
लक्षयोजनविस्तीर्णम् इदं श्रेष्ठं तु भारतम् ॥

30.15

ःऋक्षद्वीपादिपुण्या जनपदाः ।
ःनिष्कामा ये स्वधर्मेण नरसिंहं यजन्ति ते तत्र निवसन्ति ।
ःअधिकारक्षयान् मुक्तिं च प्राप्नुवन्ति ॥

30.16

ःजम्ब्वाद्याः स्वादूदकान्ताः सप्त पयोधयः ।
ःततः परा हिरण्मयी भूमिः ।
ःततो लोकालोकपर्वतः एष भूर्लोकः ॥

30.18

स्वर्गस्थानं महापुण्यं प्रोच्यमानं निबोधत
भारते कृतपुण्यानां देवानाम् अपि चालयम् ॥

30.19

मध्ये पृथिव्याम् अद्रीन्द्रो भास्वान् मेरुर् हिरण्मयः
योजनानां सहस्राणि चतुराशीतिम् उच्छ्रितः ॥

30.20

प्रविष्टः षोडशाधस्ताद् धरण्यां धरणीधरः
तावत्प्रमाणा पृथिवी पर्वतस्य समन्ततः ॥

30.21

तस्य शृङ्गत्रयं मूर्ध्नि स्वर्गो यत्र प्रतिष्ठितः
नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम् ॥

30.22

मध्यमं पश्चिमं पूर्वं मेरोः शृङ्गाणि त्रीणि वै
मध्यमं स्फाटिकं शृङ्गं वैडूर्यमणिकामयम् ॥

30.23

इन्द्रनीलमयं पूर्वं माणिक्यं पश्चिमं स्मृतम्
योजनानां सहस्राणि नियुतानि चतुर्दश ॥

30.24

उच्छ्रितं मध्यमं शृङ्गं स्वर्गो यत्र त्रिविष्टपः
अप्रभान्तरितं शृङ्गं मूर्ध्नि छत्राकृति स्थितम् ॥

30.25

पूर्वम् उत्तरशृङ्गाणाम् अन्तरं मध्यमस्य च
त्रिविष्टपो नाकपृष्ठे ह्य् अप्सराः सन्ति निर्वृताः ॥

30.26

आनन्दो ऽथ प्रमोदश् च स्वर्गशृङ्गे तु मध्यमे
श्वेतश् च पौष्टिकश् चैव उपशोभनमन्मथौ ॥

30.27

आह्लादः स्वर्गराजा वै स्वर्गशृङ्गे तु पश्चिमे
निर्ममो निरहंकारः सौभाग्यश् चातिनिर्मलः ॥

30.28

स्वर्गाश् चैव द्विजश्रेष्ठ पूर्वशृङ्गे समास्थितः
एकविंशानि स्वर्गा वै निविष्टा मेरुमूर्धनि ॥

30.29

अहिंसादानकर्तारो यज्ञानं तपसां तथा
तत् तेषु निवसन्ति स्म जनाः क्रोधविवर्जिताः ॥

30.30

जलप्रवेशे चानन्दं प्रमोदं वह्निसाहसे
भृगुप्रपाते सौख्यं च रणं चैवास्य निर्मलम् ॥

30.31

अनाशके तु संन्यासे मृतो गच्छेत् त्रिविष्टपम्
ऋतुयाजी नाकपृष्ठं अग्निहोत्री च निर्वृतिम् ॥

30.32

तडागकूपकर्ता च लभते पौष्टिकं द्विजः
सुवर्णदायी सौभाग्यं लभन् स्वर्गं तपः फलम् ॥

30.33

शीतकाले महावह्निं प्रज्वालयति यो नरः
सर्वसत्त्वहितार्थाय स्वर्गं सो ऽप्सरसं लभेत् ॥

30.34

हिरण्यगोप्रदाने हि निरहंकारम् आप्नुयात्
भूमिदानेन शुद्धेन लभते शान्तिकं पदम् ॥

30.35

रौप्यदानेन स्वर्गं तु निर्मलं लभते नरः
अश्वदानेन पुण्याहं कन्यादानेन मङ्गलम् ॥

30.36

द्विजेभ्यस् तर्पणं कृत्वा दत्त्वा वस्त्राणि भक्तितः
श्वेतं तु लभते स्वर्गं यत्र गत्वा न शोचते ॥

30.37

कपिलागोप्रदानेन परमार्थे महीयते
गोवृषस्य प्रदानेन स्वर्गं मन्मथाम् आप्नुयात् ॥

30.38

माघमासे सरित्स्नायी तिलधेनुप्रदस् तथा
छत्रोपानहदाता च स्वर्गं यात्य् उपशोभनम् ॥

30.39

देवतायतनं कृत्वा द्विजशुश्रूषकस् तथा
तीर्थयात्रापरश् चैव स्वर्गराजे महीयते ॥

30.40

एकान्नभोगी यो मर्त्यो नक्तभोगी च नित्यशः
उपवासी त्रिरात्राद्यैः शान्तः स्वर्गं शुभं लभेत् ॥

30.41

सरित्स्नायी जितक्रोधो ब्रह्मचारी दृढव्रतः
निर्मलं स्वर्गम् आप्नोति यथाभूतहिते रतः
विद्यादानेन मेधावी निरहंकारम् आप्नुयात् ॥

30.42

येन येन हि भावेन यद् यद् दानं प्रयच्छति
तत् तत् स्वर्गम् अवाप्नोति यद् यद् इच्छति मानवः ॥

30.43

चत्वारि अतिदानानि कन्या गौर् भूः सरस्वती
नरकाद् उद्धरन्त्य् एते जयवाहनदोहनात् ॥

30.44

यस् तु सर्वाणि दानानि ब्राह्मणेभ्यः प्रयच्छति
संप्राप्य न निवर्तेत स्वर्गं शान्तम् अनामयम् ॥

30.45

शृङ्गे तु पश्चिमे यत्र ब्रह्मा तत्र स्थितः स्वयम्
पूर्वशृङ्गे स्वयं विष्णुः मध्ये चैव शिवः स्थितः ॥

30.46

अतः परं तु विप्रेन्द्र स्वर्गाध्वानम् इमं शृणु
विमलं विपुलं बुद्धम् उपर्य् उपरि संस्थितः ॥

30.47

प्रथमे तु कुमारस् तु द्वितीये मातरः स्थितः
तृतीये सिद्धगन्धर्वास् तुर्ये विद्याधरा द्विज ॥

30.48

पञ्चमे नागराजा च षष्ठे तु विनतासुतः
सप्तमे दिव्यपितरो धर्मराजस् तथाष्टमे
नवमे तु तथा दक्ष आदित्यो दशमे पथि ॥

30.49

भूर्लोकाच् छतसहस्राद् ऊर्ध्वं चरति भास्करः
योजनानां सहस्रे द्वे विष्टम्भनसमं ततः ॥

30.50

त्रिगुणं परिणाहेन सूर्यबिम्बं प्रमाणतः
सोमपुर्यां विभावर्यां मध्याह्ने चार्यमा यदा
महेन्द्रस्यामरावत्यां तदा तिष्ठति भास्करः ॥

30.51

मध्याह्ने त्व् अमरावत्यां यदा भवति भास्करः
तदा संयमने याम्ये तत्रोद्यंस् तु प्रदृश्यते ॥

30.52

मेरुं प्रदक्षिणं कुर्वन् भात्य् एव सविता सदा
ध्रुवाधारस् तथोत्तिष्ठन् वालिखिल्यादिभिः स्तुतः ॥

मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc