भाषा

ENहिગુ
ग्रंथ पाठ

नरसिंहपुराण · अध्याय 3

3.1

तत्र सुप्तस्य देवस्य नाभौ पद्मम् अभून् महत्
तस्मिन् पद्मे महाभाग वेदवेदाङ्गपारगः ॥

3.2

ब्रह्मोत्पन्नः स तेनोक्तः प्रजां सृज महामते
एवम् उक्त्वा तिरोभावं गतो नारायणः प्रभुः ॥

3.3

तथेत्य् उक्त्वा स तं देवं विष्णुं ब्रह्माथ चिन्तयन्
आस्ते किंचिज् जगद्बीजं नाध्यगच्छत किंचन ॥

3.4

तावत् तस्य महान् रोषो ब्रह्मणो ऽभून् महात्मनः
ततो बालः समुत्पन्नस् तस्याङ्के रोषसंभवः ॥

3.5

स रुदन् वारितस् तेन ब्रह्मणा व्यक्तमूर्तिना
नाम मे देहि चेत्युक्तस् तस्य रुद्रेत्य् असौ ददौ ॥

3.6

तेनासौ विसृजस्वेति प्रोक्तो लोकम् इमं पुनः
अशक्तस् तत्र सलिले ममज्ज तपसादृतः ॥

3.7

तस्मिन् सलिलमग्ने तु पुनर् अन्यं प्रजापतिः
ब्रह्मा ससर्ज भूतेशो दक्षिणाङ्गुष्ठतो ऽपरम् ॥

3.8

दक्षं वामे ततो ऽङ्गुष्ठे तस्य पत्नी व्यजायत
स तस्यां जनयाम्_अस मनुं स्वायंभुवं प्रभुः ॥

3.9

तस्मात् संभाविता सृष्टिः प्रजानां ब्रह्मणा तदा
इत्य् एवं कथिता सृष्टिर् मया ते मुनिसत्तम
सृजतो जगतीं तस्य किं भूयः श्रोतुम् इच्छसि ॥

3.10

संक्षेपेण तदाख्यातं त्वया मे लोमहर्षण
विस्तरेण पुनर् ब्रूहि आदिसर्गं महामते ॥

3.11

तथैव कल्पावसाने निशासुप्तोत्थितः प्रभुः
सत्त्वोद्रिक्तस् तदा ब्रह्मा शून्यं लोकम् अवैक्षत ॥

3.12

नारायणः परो ऽचिन्त्यः पूर्वेषाम् अपि पूर्वजः
ब्रह्मस्वरूपी भगवान् अनादिः सर्वसंभवः ॥

3.13

इमं चोदाहरन्त्य् अत्र श्लोकं नारायणं प्रति
ब्रह्मस्वरूपिणं देवं जगतः प्रभवात्मकम् ॥

3.14

आपो नारा इति प्रोक्ता आपो वै नरसूनवः
अयनं तस्य ताः पूर्वं तेन नारायण स्मृतः ॥

3.15

सृष्टिं चिन्तयतस् तस्य कल्पादिषु यथा पुरा
अबुद्धिपूर्वकं तस्य प्रादुर्भूतं तमस् तदा ॥

3.16

तमो मोहो महामोहस् तामिस्रो ह्य् अन्धसंज्ञितः
अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः ॥

3.17

पञ्चधाधिष्ठितः सर्गो ध्यायतो ऽप्रतिबोधवान्
बहिर् अन्तो ऽप्रकाशश् च संवृतात्मा नगात्मकः
मुख्यसर्गः स विज्ञेयः सर्गसिद्धिविचक्षणैः ॥

3.18

यत् पुनर् ध्यायतस् तस्य ब्रह्मणः समपद्यत
तिर्यक्स्रोतस् ततस् तस्मात् तिर्यग्योनिस् ततः स्मृतः ॥

3.19

पश्वादयस् ते विख्याता उत्पथग्राहिणश् च ये
तम् अप्य् असाधकं मत्वा तिर्यग्योनि चतुर्मुखः ॥

3.20

ऊर्ध्वस्रोतास् तृतीयस् तु सात्त्विकः समवर्तत
तदा तुष्टो ऽन्यसर्गं च चिन्तयाम्_अस वै प्रभुः ॥

3.21

ततश् चिन्तयतस् तस्य सर्गवृद्धिं प्रजापतेः
अर्वाक्स्रोताः समुत्पन्ना मनुष्याः साधका मताः ॥

3.22

ते च प्रकाशबहुलास् तमोयुक्ता रजोधिकाः
तस्मात् ते दुःखबहुला भूयो भूयश् च कारिणः ॥

3.23

एते ते कथिताः सर्गा बहवो मुनिसत्तम
प्रथमो महतः सर्गस् तन्मात्राणां द्वितीयकः ॥

3.24

वैकारिकस् तृतीयस् तु सर्ग ऐन्द्रियकः स्मृतः
मुख्यसर्गश् चतुर्थस् तु मुख्या वै स्थावराः स्मृताः ॥

3.25

तिर्यक्स्रोताश् च यः प्रोक्तस् तिर्यग्योनिः स उच्यते
ततोऊर्ध्वस्रोतसां षष्ठो देवसर्गस् तु स स्मृतः ॥

3.26

ततो ऽर्वाक्स्रोतसां सर्गः सप्तमो मानुषः स्मृतः
अष्टमो ऽनुग्रहः सर्गः सात्त्विको य उदाहृतः ॥

3.27

नवमो रुद्रसर्गस् तु नव सर्गाः प्रजापतेः
पञ्चैते वैकृताः सर्गाः प्राकृतास् ते त्रयः स्मृताः
प्राकृतो वैकृतश् चैव कौमारो नवमः स्मृतः ॥

3.28

प्राकृता वैकृताश् चैव जगतो मूलहेतवः
सृजतो ब्रह्मणः सृष्टिम् उत्पन्ना ये मयेरिता ॥

3.29

तं तं विकारं च परं परेशो मायाम् अधिष्ठाय सृजत्य् अनन्तः
अव्यक्तरूपी परमात्मसंज्ञः संप्रेर्यमाणो निखिलात्मवेद्यः ॥

मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc