नरसिंहपुराण · अध्याय 2
ब्रह्मा भूत्वा जगत्सृष्टौ नरसिंहः प्रवर्तते
यथा ते कथयिष्यामि भरद्वाज निबोध मे ॥
नारायणाख्यो भगवान् ब्रह्मा लोकपितामहः
उत्पन्नः प्रोच्यते विद्वन् नित्यो ऽसाव् उपचारतः ॥
निजेन तस्य मानेन आयुर् वर्षशतं स्मृतम्
तत् पराख्यं तदर्धं च परार्धम् अभिधीयते ॥
कालस्वरूपं विष्णोश् च यन् मयोक्तं तवानघ
तेन तस्य निबोध त्वं परिमाणोपपादनम् ॥
अन्येषां चैव भूतानं चराणाम् अचराश् च ये
भूभूभृत्सागरादीनाम् अशेषाणां च सत्तम ॥
संख्याज्ञानं च ते वच्मि मनुष्याणं निबोध मे
अष्टादश निमेषास् तु काष्ठैका परिकीर्तिता ॥
काष्ठास् त्रिंशत् कला ज्ञेया कलास् त्रिंशन् मुहूर्तकम्
त्रिंशत्संख्यैर् अहोरात्रं मुहूर्तैर् मानुषं स्मृतम् ॥
अहोरात्राणि तावन्ति मासपक्षद्वयात्मकः
तैः षड्भिर् अयनं मासैर् द्वे ऽयने दक्षिणोत्तरे ॥
अयनं दक्षिणं रात्रिर् देवानाम् उत्तरं दिनम्
अयनद्वितयं वर्षं मर्त्यानाम् इह कीर्तितम् ॥
नृणां मासः पितृणां तु अहोरात्रम् उदाहृतम्
वस्वादीनाम् अहोरात्रम् मानुषो वत्सरः स्मृतः ॥
दिव्यैर् वर्षसहस्रैस् तु युगं त्रेतादिसंज्ञितम्
चतुर्युगं द्वादशभिस् तद्विभागं निबोध मे ॥
चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमम्
दिव्याब्दानां सहस्राणि युगेष्व् आहुः पुराविदः ॥
तत्प्रमाणैः शतैः संध्या पूर्वा तत्र विधीयते
संध्यांशकश् च तत्तुल्यो युगस्यानन्तरो हि सः ॥
संध्यासंध्यांशयोर् मध्ये यः कालो वर्तते द्विज
युगाख्यः स तु विज्ञेयः कृतत्रेतादिसंज्ञकः ॥
कृतं त्रेता द्वापरश् च कलिश् चेति चतुर्युगम्
प्रोच्यते तत्सहस्रं तु ब्रह्मणो दिवसं द्विज ॥
ब्रह्मणो दिवसे ब्रह्मन् मनवस् तु चतुर्दश
भवन्ति परिमाणं च तेषां कालकृतं शृणु ॥
सप्तर्षयस् तु शक्रो ऽथ मनुस् तत्सूनवो ऽपि ये
एककालं हि सृज्यन्ते संह्रियन्ते च पूर्ववत् ॥
चतुर्युगानां संख्या च साधिका ह्य् एकसप्ततिः
मन्वन्तरं मनोः कालः शक्रादीनाम् अपि द्विज ॥
अष्टौ शतसहस्राणि दिव्यया संख्यया स्मृतः
द्विपञ्चाशत् तथान्यानि सहस्राण्य् अधिकानि तु ॥
त्रिंशत् कोट्यस् तु संपूर्णाः संख्याताः संख्यया द्विज
सप्तषष्टिस् तथान्यानि नियुतानि महामुने ॥
विंशतिश् च सहस्राणि कालो ऽयम् अधिकं विना
मन्वन्तरस्य संख्येयं मानुषैर् वत्सरैर् द्विज ॥
चतुर्दशगुणो ह्य् एष कालो ब्राह्मम् अहः स्मृतम्
विश्वस्यादौ सुमनसा सृष्ट्वा देवांस् तथा पितृन् ॥
गन्धर्वान् राक्षसान् यक्षान् पिशाचान् गुह्यकांस् तथा
ऋषीन् विद्याधरांश् चैव मनुष्यांश् च पशूंस् तथा ॥
पक्षिणः स्थावरांश् चैव पिपीलिकभुजंगमान्
चातुर्वर्ण्यं तथा सृष्ट्वा नियुज्याध्वरकर्मणि ॥
पुनर् दिनान्ते त्रैलोक्यम् उपसंहृत्य स प्रभुः
शेते चानन्तशयने तावन्तीं रात्रिम् अव्ययः ॥
तस्यान्ते ऽभून् महान् कल्पो ब्राह्म इत्य् अभिविश्रुतः
यस्मिन् मत्स्यावतारो ऽभून् मथनं च महोदधेः ॥
तद्वद् वराहकल्पश् च तृतीयः परिकल्पितः
यत्र विष्णुः स्वयं प्रीत्या वाराहं वपुर् आश्रितः
उद्धर्तुं वसुधां देवीं स्तूयमानो महर्षिभिः ॥
सृष्ट्वा जगद् व्योमचराप्रमेयः प्रजाश् च सृष्ट्वा सकलास् तथेशः
नैमित्तिकाख्ये प्रलये समस्तं संहृत्य शेते हरिर् आदिदेवः ॥
मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0