भाषा

ENहिગુ
ग्रंथ पाठ

नरसिंहपुराण · अध्याय 28

28.1

स्यन्दनारोहणे पूर्वम् अशक्तिः शांतनोः कथम्
पश्चाच् छक्तिः कथं चासीत् तस्य वै तद् वदस्व नः ॥

28.2

भरद्वाज शृणुष्वैतत् पुरावृत्तं वदामि ते
सर्वपापहरं तद् धि चरितं शांतनोर् नृणाम् ॥

28.3

बभूव शांतनुर् भक्तो नरसिंहतनौ पुरा
नारदोक्तविधानेन पूजयाम्_अस माधवम् ॥

28.4

नरसिंहस्य देवस्य निर्माल्यं तेन लङ्घितम्
राज्ञा शांतनुना विप्र तस्मात् स्यन्दनम् उत्तमम् ॥

28.5

देवदत्तं तद् आरोढुम् अशक्तस् तत्क्षणाद् अभूत्
किम् इयं मे गतिर् भग्ना सहसा वै रथात् ततः ॥

28.6

दुःखं चिन्तयतस् तस्य संप्राप्तो नारदः किल
किं विषण्णः स्थितो राजन्न् इति पृष्टः स शांतनुः ॥

28.7

नारदैतन् न जानामि गतिभङ्गस्य कारणम्
इत्युक्तो नारदो ध्यात्वा ज्ञात्वा तत्कारणं ततः ॥

28.8

शांतनुं प्राह राजानं विनयेन यतः स्थितः
यत्र क्वापि त्वया राजन् नरसिंहस्य वै ध्रुवम् ॥

28.9

निर्माल्यो लङ्घितस् तस्माद् रथारोहणकर्मणि
गतिर् भग्ना महाराज श्रूयताम् अत्र कारणम् ॥

28.10

अन्तर्वेद्यां पुरा राजन्न् आसीत् कश्चिन् महामतिः
मालाकारो रविर् नाम्ना तेन वृन्दावनं कृतम् ॥

28.11

विविधानि च पुष्पार्थं वनानि सुकृतानि वै
मल्लिकामालतीजाति बकुलादीनि सर्वशः ॥

28.12

प्राकारम् उच्छ्रितं तस्य स्वभूमौ चापि विस्तृतम्
अलङ्घ्यम् अप्रवेश्यं च कृत्वा चक्रे स्वकं गृहम् ॥

28.13

गृहं प्रविश्य तद्द्वारं भवेन् नान्यत्र सत्तम
एवं कृत्वा नु वसतो मालाकारस्य धीमतः ॥

28.14

पुष्पितं तद् वनं त्व् आसीद् गन्धामोदितदिङ्मुखम्
भार्यया सह पुष्पाणि समाहृत्य दिने दिने ॥

28.15

कृत्वा मालां यथान्यायं नरसिंहस्य नित्यशः
ददौ काश्चिद् द्विजेभ्यश् च काश्चिद् विक्रीय पोषणम् ॥

28.16

चक्रे समात् प्रजीवी च भार्यादेर् आत्मनस् तथा
अथ स्वर्गाद् उपागम्य इन्द्रपुत्रो रथेन वै ॥

28.17

अप्सरोगणसंयुक्तो निशि पुष्पाणि संहरेत्
तद्गन्धलिप्सुः सर्वाणि विचित्याहृत्य गच्छति ॥

28.18

दिने दिने हृते पुष्पे मालाकारो ऽप्य् अचिन्तयत्
नान्यद् द्वारं वनस्यास्या लङ्घ्यप्राकारम् उन्नतम् ॥

28.19

समस्तपुष्पजातस्य हरणे निशि वै नृणाम्
अहं शक्तिं न पश्यामि किम् इदं नु परीक्षये ॥

28.20

इति संचिन्त्य मेधावी जाग्रद् रात्रौ वने स्थितः
तथैवागत्य पुष्पाणि संगृहीत्व गतः पुमान् ॥

28.21

तं दृष्ट्वा दुःखितो ऽतीव माल्यजीवी वने ऽभवत्
ततो निद्रां गतः स्वप्ने दृष्टवांस् तं नृकेसरिम् ॥

28.22

तद्वाक्यं श्रुतवांश् चैवं निर्माल्यं मम पुत्रक
आनीय क्षिप्यतां क्षिप्रं पुष्पारामसमीपतः ॥

28.23

इन्द्रपुत्रस्य दुष्टस्य नान्यद् अस्ति निवारणम्
इति श्रुत्वा हरेर् वाक्यं नरसिंहस्य धीमतः ॥

28.24

बुद्ध्वानीय तु निर्माल्यं तथा चक्रे यथोदितम्
सो ऽप्य् आगत्य यथापूर्वं रथेनालक्षितेन तु ॥

28.25

रथाद् उत्तीर्य पुष्पाणि विचिन्वंस् तद्भुवि स्थितम्
निर्माल्यं लङ्घयाम्_अस इन्द्रसूनुर् अनिष्टकृत् ॥

28.26

ततस् तस्य न शक्तिः स्यद् रथारोहणकर्मणि
उक्तः सारथिना चैव रथस्यारोहणे तव ॥

28.27

नरसिंहस्य निर्माल्य लङ्घने नास्ति योग्यता
गच्छामि दिवम् एवाहं त्वं भूम्यां वस मारुह ॥

28.28

तेनैवम् उक्तो मतिमांस् तम् आह हरिनन्दनः
पापस्य नोदनं त्व् अत्र कर्मणा येन मे भवेत् ॥

28.29ab

तद् उक्त्वा गच्छ नाकं त्वं कर्मास्मान् सारथे द्रुतम् ॥

28.29cd

रामसत्त्रे कुरुक्षेत्रे द्वादशाब्दे तु नित्यशः ॥

28.30

द्विजोच्छिष्टापनयनं कृत्वा त्वं शुद्धिम् एष्यसि
इत्य् उक्त्वासौ गतः स्वर्गं सारथिर् देवसेवितम् ॥

28.31

इन्द्रसूनुः कुरुक्षेत्रं प्राप्तः सारस्वतं तटम्
रामसत्त्रे तथा कुर्याद् द्विजोच्छिष्टस्य मार्जनम् ॥

28.32

पूर्णे द्वादशमे वर्षे तम् ऊचुः शङ्किता द्विजाः
कस् त्वं ब्रूहि महाभाग नित्यम् उच्छिष्टमार्जकः ॥

28.33

न भुञ्जसे च नः सत्त्रे शङ्का नो महती भवेत्
इत्युक्तः कथयित्वा तु यथावृत्तम् अनुक्रमात् ॥

28.34

जगाम त्रिदिवं क्षिप्रं रथेन तनयो हरेः
तस्मात् त्वम् अपि भूपाल ब्राह्मणोच्छिष्टम् आदरात् ॥

28.35

मार्जनं कुरु रामस्य सत्त्रे द्वादशवार्षिके
ब्राह्मणेभ्यः परं नास्ति सर्वपापहरं परम् ॥

28.36

एवं कृते देवदत्त स्यन्दनारोहणे गतिः
भविष्यति महीपाल प्रायश्चित्ते कृते तव ॥

28.37

अत ऊर्ध्वं च निर्माल्यं मा लङ्घय महामते
नरसिंहस्य देवस्य तथान्येषां दिवौकसाम् ॥

28.38

इत्युक्तः शांतनुस् तेन ब्राह्मणोच्छिष्टमार्जनम्
कृतवान् द्वादशाब्दं तु आरुरोह रथं च तम् ॥

28.39

एवं पुर्वम् अशक्तिः स्याद् रथारोहे महीक्षितः
पश्चात् तस्यैव विप्रेन्द्र शक्तिर् एवम् अजायत ॥

28.40

एवं ते कथितो विप्र दोषो निर्माल्यलङ्घने
पुण्यं तथा द्विजानां तु प्रोक्तम् उच्छिष्टमार्जने ॥

28.41

भक्त्या द्विजोच्छिष्टम् इहापमार्जयेच् छुचिर् नरो यः सुसमाहितात्मा
स पापबन्धं प्रविहाय भुङ्क्ते गवां प्रदानस्य फलं दिवि स्थितः ॥

मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc