भाषा

ENहिગુ
ग्रंथ पाठ

नरसिंहपुराण · अध्याय 29

29.2

ःविचित्रवीर्यस्याम्बालिकायां पाण्डुः पुत्रो जज्ञे ।
ःसो ऽपि राज्यं धर्मतः कृत्वा मुनिशापाच् छरीरं विहाय देवलोकम् अवाप ।
ःतस्य पाण्डोः कुन्तिदेव्याम् अर्जुनः ॥

29.11

ःउदयनस्य वासवदत्तायां नरवाहनः ।
ःस तु यथान्यायं राज्यं कृत्वा दिवम् अवाप ।
ःनरवाहनस्याश्वमेधदत्तायां क्षेमकः ॥

29.13

यः श्रद्दधानः पठते शृणोति वा हरौ च भक्तिं चरितं महीभृताम्
स संततिं प्राप्य विशुद्धकर्मकृद् दिवं समासाद्य वसेच् चिरं सुखी ॥

मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc