नरसिंहपुराण · अध्याय 27
ःऋङ्मयो यजुर्मयः साममयो ऽथर्वमयो भगवान् नारायणो योगनिद्रां समारेभे ।
ःतस्य सुप्तस्य नाभौ महापद्मम् अजायत ।
ःतस्मिन् पद्मे चतुर्मुखो ब्रह्माभवत् ॥
ःतस्य ब्रह्मणो मानसः पुत्रो ऽत्रिर् अभवत् ।
ःअत्रेर् अनसूयायां सोमः ।
ःस तु प्रजापतेर् दक्षस्य त्रयस्त्रिंशत् कन्या रोहिण्याद्या भार्यार्थं गृहीत्वा प्रियायां ज्येष्ठायां विशेषात् प्रसन्नमनाः रोहिण्यां बुधं पुत्रम् उत्पादयाम्_अस ॥
ःबुधो ऽपि सर्वशास्त्रज्ञः प्रतिष्ठाने पुरे ऽवसत् ।
ःइलायां पुरूरवसं पुत्रम् उत्पादयाम्_अस ।
ःतस्यातिशयरूपान्वितस्य स्वर्गभोगान् विहाय उर्वशी बहुकालं भार्या बभूव ॥
ःआयो रूपवत्यां नहुषः पुत्रो ऽभवत् ।
ःयेनेन्द्रत्वं प्राप्तम् ।
ःनहुषस्यापि पितृमत्यां ययातिः ॥
ःतस्य भोजस्य कलिङ्गायां दुष्यन्तः ।
ःस तु नरसिंहं भगवन्तम् आराध्य तत्प्रसादान् निष्कण्टकं राज्यं धर्मेण कृत्वा दिवं प्राप्तवान् ।
ःदुष्यन्तस्य शकुन्तलायां भरतः स तु धर्मेण राज्यं कुर्वन् क्रतुभिर् भूरिदक्षिणैः सर्वदेवतामयं भगवन्तम् आराध्य निवृत्ताधिकारो ब्रह्मध्यानपरो वैष्णवे परे ज्योतिषि लयम् अवाप ॥
ःअजमीढस्य सुदेव्यां वृष्णिः पुत्रो ऽभवत् ।
ःसो ऽपि बहुवर्षं धर्मेण राज्यं कुर्वन् दुष्टनिग्रहं शिष्टपरिपालनं सप्तद्वीपां वशे चक्रे ।
ःवृष्णेर् उग्रसेनायां प्रत्यञ्चः पुत्रो बभूव ॥
ःसो ऽपि धर्मेण मेदिनीं पालयन् प्रतिसंवत्सरं ज्योतिष्टोमं चकार ।
ःनिर्वाणम् अपि लब्धवान् ।
ःप्रत्यञ्चस्य बहुरूपायां शांतनुः ॥
मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0