नरसिंहपुराण · अध्याय 23
ःतृतीय उत्तमो नाम मनुः ।
ःसुधामानः सत्याः शिवाः प्रतर्दना वंशवर्तिनश् च देवाः ।
ःपञ्चैते द्वादशगणाः ॥
ःतस्यान्तरे ऽमिता निरता वैकुण्ठाः सुमेधस इत्य् एते देवगणाश् चतुर्दशका गणाः ।
ःअसुरान्तको नाम देवेन्द्रः ।
ःसप्तकाद्या मनोः सुता राजानो वै बभूवुः ॥
ःषष्ठश् चाक्षुषो नाम मनुः ।
ःपुरुशतद्युम्नप्रमुखास् तस्य सुता राजानः ।
ःसुशान्ता आप्याः प्रसूता भव्याः प्रथिताश् च महानुभावाः लेखाद्याः पञ्चैते ह्य् अष्टका गणास् तत्र देवाः ॥
ःभविष्याणि मन्वन्तराणि कथ्यन्ते ।
ःतद् यथा आदित्यात् संज्ञायां जातो यो मनुः पूर्वोक्तश् छायायाम् उत्पन्नो मनुर् द्वितीयः स तु ।
ःपूर्वजस्य सावर्णस्य मन्वन्तरं सावर्णिकम् अष्टमं शृणु ॥
ःविरुद्धादयस् तत्र देवाः ।
ःतेषां शान्तिर् इन्द्रः ।
ःहविष्मान् सुकृतिः सत्यस् तपोमूर्तिर् नाभागः प्रतिमोकः सप्तकेतुर् इत्य् एते सप्तर्षयः ॥
ःत्रयोदशो रुचिर् नाम मनुः ।
ःस्रग्वी बाणः सुधर्मा प्रभृतयो देवगणाः ।
ःतेषाम् इन्द्र ऋषभो नाम भविता ॥
ःभौमश् चतुर्दशो मनुर् भविता ।
ःसुरुचिस् तत्रेन्द्रः ।
ःचक्षुष्मन्तः पवित्राः कनिष्ठाभा देवगणाः ॥
मनुः सप्तर्षयो देवा भूपालाश् च मनोः सुताः
मन्वन्तरे भवन्त्य् एते शक्राश् चैवाधिकारिणः ॥
चतुर्दशभिर् एतैस् तु गतैर् मन्वन्तरैर् द्विज
सहस्रयुगपर्यन्तः कालो गच्छति वासरः ॥
तावत्प्रमाणा च निशा ततो भवति सत्तम
ब्रह्मरूपधरः शेते सर्वात्मा नृहरिः स्वयम् ॥
त्रैलोक्यम् अखिलं ग्रस्ता भगवान् आदिकृद् विभुः
स्वमायाम् आस्थितो विप्र सर्वरूपी जनार्दनः ॥
अथ प्रबुद्धो भगवान् यथा पूर्वं तथा पुनः
युगव्यवस्थां कुरुते सृष्टिं च पुरुषोत्तमः ॥
एते तवोक्ता मनवो ऽमराश् च पुत्राश् च भूपा मुनयश् च सर्वे
विभूतयस् तस्य स्थितौ स्थितस्य तस्यैव सर्वं त्वम् अवेहि विप्र ॥
मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0