नरसिंहपुराण · अध्याय 22
सोमवंशं शृणुष्वाथ भरद्वाज महामुने
पुराणे विस्तरेणोक्तं संक्षेपात् कथये ऽधुना ॥
ःमनोर् सुरूपायां सोमः ।
ःसोमाद् रोहिण्यां बुधः ।
ःबुधाद् इलायां पुरूरवाः ॥
ःपूरोर् वंशदायां संपातिः ।
ःसंपातेर् भानुदत्तायां सार्वभौमः ।
ःसार्वभौमस्य वैदेह्यां भोजः ॥
ःप्रसरस्य बहुरूपायां शंतनुः ।
ःशंतनोर् योजनगन्धायां विचित्रवीर्यः ।
ःविचित्रवीर्यस्याम्बिकायां पाण्डुः ॥
ःअभिमन्योर् उत्तरायां परीक्षितः ।
ःपरीक्षितस्य मातृवत्यां जनमेजयः ।
ःजनमेजयस्य पुण्यवत्यां शतानीकः ॥
ःशतानीकस्य पुष्पवत्यां सहस्रानीकः ।
ःसहस्रानीकस्य मृगवत्याम् उदयनः ।
ःतस्य वासवदत्तायां नरवाहनः ॥
य इदं शृणुयान् नित्यं राजवंशम् अनुत्तमम्
सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति ॥
यश् चेदं पठते नित्यं श्राद्धे वा श्रावयेत् पितॄन्
वंशानुकीर्तनं पुण्यं पितॄणां दत्तम् अक्षयम् ॥
राज्ञां हि सोमस्य मया तवेरिता वंशानुकीर्तिर् द्विज पापनाशनी
शृणुष्व विप्रेन्द्र मयोच्यमानं मन्वन्तरं चापि चतुर्दशाख्यम् ॥
मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0