नरसिंहपुराण · अध्याय 24
अतः परं प्रवक्ष्यामि वंशानुचरितं शुभम्
शृण्वताम् अपि पापघ्नं सूर्यसोमनृपात्मकम् ॥
सूर्यवंशोद्भवो यो वै मनुपुत्रः पुरोदितः
इक्ष्वाकुर् नाम भूपालश् चरितं तस्य मे शृणु ॥
आसीद् भूमौ महाभाग पुरी दिव्या सुशोभना
सरयूतीरम् आसाद्य अयोध्या नाम नामतः ॥
अमरावत्यतिशया त्रिंशद्योजनजालिनी
हस्त्यश्वरथपत्त्योघैर् द्रुमैः कल्पद्रुमप्रभैः ॥
प्राकाराट्टप्रतोलीभिस् तोरणैः काञ्चनप्रभैः
विराजमाना सर्वत्र सुविभक्तचतुष्पथा ॥
अनेकभूमिप्रासादा बहुभाण्डसुविक्रया
पद्मोत्पलशुभैस् तोयैर् वापीभिर् उपशोभिता ॥
देवतायतनैर् दिव्यैर् वेदघोषैश् च शोभिता
वीणावेणुमृदङ्गैश् च शब्दैर् उत्कृष्टकैर् युता ॥
शालैस् तालैर् नालिकेरैः पनसामलजम्बुकैः
तथैवाम्रकपित्थाद्यैर् अशोकैर् उपशोभिता ॥
आरामैर् विविधैर् युक्ता सर्वत्र फलपादपैः
मल्लिकामालतीजाति पाटलानागचम्पकः ॥
करवीरैः कर्णिकारैः केतकीभिर् अलंकृता
कदलीलवलीजाति मातुलुङ्गमहाफलैः
क्वचिच् चन्दनगन्धाद्यैर् नारङ्गैश् च सुशोभिता ॥
नित्योत्सवप्रमुदिता गीतवाद्यविचक्षणैः
नरनारीभिर् आढ्याभी रूपद्रविणप्रेक्षणैः ॥
नानाजनपदाकीर्णा पताकाध्वजशोभिता
देवतुल्यप्रभायुक्तैर् नृपपुत्रैश् च संयुता ॥
सरूपाभिर् वरस्त्रीभिर् देवस्त्रीभिर् इवावृता
विप्रैः सत्कविभिर् युक्ता बृहस्पतिसमप्रभैः ॥
वणिग्जनैस् तथा पौरैः कल्पवृक्षवरैर् युता
अश्वैर् उच्चैःश्रवस्तुल्यैर् दन्तिभिर् दिग्गजैर् इव ॥
इति नानाविधैर् भावैर् अयोध्येन्द्रपुरीसमा
तां दृष्ट्वा नारदः श्लोकं सभामध्ये पुरोक्तवान् ॥
स्वर्गं वै सृजमानस्य व्यर्थं स्यात् पद्मजन्मनः
जातायोध्याधिका स्वर्गात् कामभोगसमन्विता ॥
ताम् आवसद् अयोध्यां तु स्वभिषिक्तो महीपतिः
जितवान् सर्वभूपालान् धर्मेण स महाबलः ॥
माणिक्यमुकुटैर् युक्तै राजभिर् मण्डलाधिपैः
नमद्भिर् भक्तिभीतिभ्यां पादौ तस्य किणीकृतौ ॥
इक्ष्वाकुर् अक्षतबलः सर्वशास्त्रविशारदः
तेजसेन्द्रेण सदृशो मनोः सूनुः प्रतापवन् ॥
धर्मतो न्यायतश् चैव वेदज्ञैर् ब्राह्मणैर् युतः
पालयाम्_अस धर्मात्मा आसमुद्रां महीम् इमाम् ॥
अस्त्रैर् जिगाय सकलान् संयुगे भूपतीन् बली
अवजित्य सुतीक्ष्णैस् तु तन्मण्डलम् अथाहरत् ॥
जितवान् परलोकांश् च क्रतुभिर् भूरिदक्षिणैः
दानैश् च विविधैर् ब्रह्मन् राजेक्ष्वाकुः प्रतापवान् ॥
बाहुद्वयेन वसुधां जिह्वाग्रेण सरस्वतीम्
बभार पद्माम् उरसा भक्तिं चित्तेन माधवे ॥
संतिष्ठतो हरे रूपम् उपविष्टं च माधवम्
शयानम् अप्य् अनन्तं तु कारयित्वा पटे ऽमलम् ॥
त्रिकालं त्रयम् आराध्य रूपं विष्णोर् महात्मनः
गन्धपुष्पादिभिर् नित्यं रेमे दृष्ट्वा पटे हरिम् ॥
कृष्णं तं कृष्णमेघाभं भुजगेन्द्रनिवासिनम्
पद्माक्षं पीतवासं च स्वप्नेष्व् अपि स दृष्टवान् ॥
चकार मेघे तद्वर्णे बहुमानमतिं नृपः
पक्षपातं च तन्नाम्नि मृगे पद्मे च तादृशे ॥
दिव्याकृतिं हरेः साक्षाद् द्रष्टुं तस्य महीभृतः
अतीव तृष्णा संजाता अपूर्वैव हि सत्तम ॥
तृष्णायां तु प्रबुद्धायां मनसैव हि पार्थिवः
चिन्तयाम्_अस मतिमान् राज्यभोगम् असारवत् ॥
वेश्मदारसुतक्षेत्रं संयस्तं येन दुःखदम्
वैराग्यज्ञानपूर्वेण लोके ऽस्मिन् नास्ति तत्समः ॥
इत्य् एवं चिन्तयित्वा तु तपस्य् आसक्तचेतनः
वसिष्ठं परिपप्रच्छ तत्रोपायं पुरोहितम् ॥
तपोबलेन देवेशं नारायणम् अजं मुने
द्रष्टुम् इच्छाम्य् अहं तत्र उपायं तं वदस्व मे ॥
इत्युक्तः प्राह राजानां तपस्य् आसक्तमानसम्
वसिष्ठः सर्वधर्मज्ञः सदा तस्य हिते रतः ॥
यदीच्छसि महाराज द्रष्टुं नारायणं परम्
तपसा सुकृतेनेह आराधय जनार्दनम् ॥
केनाप्य् अतप्ततपसा देवदेवो जनार्दनः
द्रष्टुं न शक्यते जातु तस्मात् तं तपसार्चय ॥
पूर्वदक्षिणदिग्भागे सरयूतीरगे नृप
गालवप्रमुखानां च ऋषीणाम् अस्ति चाश्रमः ॥
पञ्चयोजनम् अध्वानं स्थानम् अस्मात् तु पावनम्
नानाद्रुमलताकीर्णं नानापुष्पसमाकुलम् ॥
स्वमन्त्रिणि महाप्राज्ञे नीतिमत्य् अर्जुने नृप
स्वराज्यभारं विन्यस्य कर्मकाण्डम् अपि द्विज ॥
स्तुत्वाराध्य गणाध्यक्षम् इतो व्रज विनायकम्
तपःसिद्ध्यर्थम् अन्विच्छंस् तस्मात् तत्र तपः कुरु ॥
तापसं वेषम् आस्थाय शाकमूलफलाशनः
ध्यायन् नारायणं देवम् इमं मन्त्रं सदा जप ॥
एष सिद्धिकरो मन्त्रो द्वादशाक्षरसंज्ञितः
जप्त्वैनं मुनयः सिद्धिं परां प्राप्ताः पुरातनाः ॥
गत्वा गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः
अद्यापि न निवर्तन्ते द्वादशाक्षरचिन्तकाः ॥
बाह्येन्द्रियं हृदि स्थाप्य मनः सूक्ष्मे परात्मनि
नृप संजप तन् मन्त्रं द्रष्टव्यो मधुसूदनः ॥
इति ते कथितोपायो हरिप्राप्तेस् तपःकृतौ
पृच्छतः सांप्रतं भूयो यदीच्छसि कुरुष्व तत् ॥
इत्य् एवम् उक्तो मुनिना स राजा राज्यं भुवो मन्त्रिवरे समर्प्य
स्तुत्वा गणेशं सुमनोभिर् अर्च्य गतः पुरात् स्वात् तपसे धृतात्मा ॥
मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0