भाषा

ENहिગુ
ग्रंथ पाठ

नरसिंहपुराण · अध्याय 13

13.1

विचित्रेयं कथा तात वैदिकी मे त्वयेरिता
अन्याः पुण्याश् च मे ब्रूहि कथाः पापप्रणाशिनीः ॥

13.2

अहं ते कथयिष्यामि पुरावृत्तम् अनुत्तमम्
पतिव्रतायाः संवादं कस्यचिद् ब्रह्मचारिणः ॥

13.3

कश्यपो नीतिमान् नाम ब्राह्मणो वेदपारगः
सर्वशास्त्रार्थतत्त्वज्ञो व्याख्याने परिनिष्ठितः ॥

13.4

स्वधर्मकार्यनिरतः परधर्मपराङ्मुखः
ऋतुकालाभिगामी च अग्निहोत्रपरायणः ॥

13.5

सायंप्रातर् महाभाग हुत्वाग्निं तर्पयन् द्विजान्
अतिथीन् आगतान् गेहं नरसिंहं च पुजयत् ॥

13.6

तस्य पत्नी महाभागा सावित्री नाम नामतः
पतिव्रता महाभागा पत्युः प्रियहिते रता ॥

13.7

भर्तुः शुश्रूषणेनैव दीर्घकालम् अनिन्दिता
परोक्षज्ञानम् आपन्ना कल्याणी गुणसंमता ॥

13.8

तया सह स धर्मात्मा मध्यदेशे महामतिः
नन्दिग्रामे वसन् धीमान् स्वानुष्ठानपरायणः ॥

13.9

अथ कौशलिको विप्रो यज्ञशर्मा महामतिः
तस्य भार्याभवत् साध्वी रोहिणी नाम नामतः ॥

13.10

सर्वलक्षणसंपन्ना पतिशुश्रूषणे रता
सा प्रसूता सुतं त्व् एकं तस्माद् भर्तुर् अनिन्दिता ॥

13.11

स यायावरवृत्तिस् तु पुत्रे जाते विचक्षणः
जातकर्म तदा चक्रे स्नात्वा पुत्रस्य मन्त्रतः ॥

13.12

द्वादशे ऽहनि तस्यैव देवशर्मेति बुद्धिमान्
पुण्याहं वाचयित्वा तु नाम चक्रे यथाविधि ॥

13.13

उपनिष्क्रमणं चैव चतुर्थे मासि यत्नतः
तथान्नप्राशनं षष्ठे मासि चक्रे यथाविधि ॥

13.14

संवत्सरे ततः पूर्णे चूडाकर्म च धर्मवित्
कृत्वा गर्भाष्टमे वर्षे व्रतबन्धं चकार सः ॥

13.15

सोपनीतो यथान्यायं पित्रा वेदम् अधीतवान्
स्वीकृते त्व् एकवेदे तु पिता स्वर्लोकम् आस्थितः ॥

13.16

मात्रा सहास दुःखी स पितर्य् उपरते सुतः
धैर्यम् आस्थाय मेधावी साधुभिः प्रेरितः पुनः ॥

13.17

प्रेतकार्याणि कृत्वा तु देवशर्मा गतः सुतः
गङ्गादिषु सुतीर्थेषु स्नानं कृत्वा यथाविधि ॥

13.18

तम् एव प्राप्तवान् ग्रामं यत्रास्ते सा पतिव्रता
संप्राप्य विश्रुतः सो ऽथ ब्रह्मचारी महामते ॥

13.19

भिक्षाटनं तु कृत्वासौ जपन् वेदम् अतन्द्रितः
कुर्वन्न् एवाग्निकार्यं तु नन्दिग्रामे च तस्थिवान् ॥

13.20

मृते भर्तरि तन्माता पुत्रे प्रव्रजिते तु सा
दुःखाद् दुःखम् अनुप्राप्ता नियतं रक्षकं विना ॥

13.21

अथ स्नात्वा तु नद्यां वै ब्रह्मचारी स्वकर्पटम्
क्षितौ प्रसार्य शोषार्थं जपन्न् आसीत वाग्यतः ॥

13.22

काको बलाका तद् वस्त्रं परिगृह्याशु जग्मतुः
तौ दृष्ट्वा भर्त्सयाम्_अस देवशर्मा ततो द्विजः ॥

13.23

विष्ठाम् उत्सृज्य वस्त्रे तु जग्मतुस् तस्य भर्त्सनात्
रोषेण वीक्षयाम्_अस खे यान्तौ पक्षिणौ तु सः ॥

13.24

तद्रोषवह्निना दग्धौ भूम्यां निपतितौ खगौ
स दृष्ट्वा तौ क्षितिं यातौ पक्षिणौ विस्मयं गतः ॥

13.25

तपसा न मया कश्चित् सदृशो ऽस्ति महीतले
इति मत्वा गतो भिक्षाम् अटितुं ग्रामम् अञ्जसा ॥

13.26

अटन् ब्राह्मणगेहेषु ब्रह्मचारी तपःस्मयी
प्रविष्टस् तद् गृहं वत्स गृहे यत्र पतिव्रता ॥

13.27

तं दृष्ट्वा याच्यमानापि तेन भिक्षां पतिव्रता
वाग्यता पूर्वं विज्ञाय भर्तुः कृत्वानुशासनम् ॥

13.28

क्षालयाम्_अस तत्पादौ भूय उष्णेन वारिना
आश्वास्य स्वपतिं सा तु भिक्षां दातुं प्रचक्रमे ॥

13.29

ततः क्रोधेन रक्ताक्षो ब्रह्मचारी पतिव्रताम्
दग्धुकामस् तपोवीर्यात् पुनः पुनर् उदैक्षत
सावित्री तु निरीक्ष्यैवं हसन्ती सा तम् अब्रवीत् ॥

13.30

न काको न बलाकाहं त्वत्क्रोधेन तु यौ मृतौ
नदीतीरे ऽद्य कोपात्मन् भिक्षां मत्तो यदीच्छसि ॥

13.31

तयैवम् उक्तः सावित्र्या भिक्षाम् आदाय सो ऽग्रतः
चिन्तयन् मनसा तस्याः शक्तिं दूरार्थवेदिनीम् ॥

13.32

एत्याश्रमे मठे स्थाप्य भिक्षापात्रं प्रयत्नतः
पतिव्रतायां भुक्तायां गृहस्थे निर्गते पतौ ॥

13.33ab

पुनर् आगम्य तद्गेहं ताम् उवाच पतिव्रताम् ॥

13.33cd

प्रब्रूह्य् एतन् महाभागे पृच्छतो मे यथार्थतः ॥

13.34

विप्रकृष्टार्थविज्ञानं कथम् आशु तवाभवत्
इत्युक्ता तेन सा साध्वी सावित्री तु पतिव्रता ॥

13.35

तं ब्रह्मचारिणं प्राह पृच्छन्तं गृहम् एत्य वै
शृणुष्वावहितो ब्रह्मन् यन् मां त्वं परिपृच्छसि ॥

13.36

तत् ते ऽहं संप्रवक्ष्यामि स्वधर्मपरिबृंहितम्
स्त्रीणां तु पतिशुश्रूषा धर्म एष परिस्थितः ॥

13.37

तम् एवाहं सदा कुर्यां नान्यम् अस्मि महामते
दिवारात्रम् असंदिग्धं श्रद्धया परितोषणम् ॥

13.38

कुर्वन्त्या मम संभूतं विप्रकृष्टार्थदर्शनम्
अन्यच् च ते प्रवक्ष्यामि निबोध त्वं यदीच्छसि ॥

13.39

पिता यायावरः शुद्धस् तस्माद् वेदम् अधीत्य वै
मृते पितरि कृत्वा तु प्रेतकार्यम् इहागतः ॥

13.40

उत्सृज्य मातरं द्रष्टुं वृद्धां दीनां तपस्विनीम्
अनाथां विधवाम् अत्र नित्यं स्वोदरपोसकः ॥

13.41

यया गर्भे धृतः पूर्वं पालितो लालितस् तथा
तां त्यक्त्वा विपिने धर्मं चरन् विप्र न लज्जसे ॥

13.42

यया तव कृतं ब्रह्मन् बाल्ये मलनिकृन्तनम्
दुःखितां तां गृहे त्यक्त्वा किं भवेद् विपिने ऽटतः ॥

13.43

मातृदुःखेन ते वक्त्रं पूतिगन्धम् इदं भवेत्
पित्रैव संस्कृतो यस्मात् तस्माच् छक्तिर् अभूद् इयम् ॥

13.44

पक्षी दग्धः सुदुर्बुद्धे पापात्मन् सांप्रतं वृथा
वृथा स्नानं वृथा तीर्थं वृथा जप्तं वृथा हुतम् ॥

13.45

स जीवति वृथा ब्रह्मन् यस्य माता सुदुःखिता
यो रक्षेत् सततं भक्त्या मातरं मातृवत्सलः ॥

13.46

तस्येहानुष्ठितं सर्वं फलं चामुत्र चेह हि
मातुश् च वचनं ब्रह्मन् पालितं यैर् नरोत्तमैः ॥

13.47

ते मान्यास् ते नमस्कार्या इह लोके परत्र च
अतस् त्वं तत्र गत्वाद्य यत्र माता व्यवस्थिता ॥

13.48

तां त्वं रक्षय जीवन्तीं तद्रक्षा ते परं तपः
क्रोधं परित्यजैनं त्वं दृष्टादृष्टविघातकम् ॥

13.49

तयोः कुरु वधे शुद्धिं पक्षिणोर् आत्मशुद्धये
याथातथ्येन कथितम् एतत् सर्वं मया तव ॥

13.50

ब्रह्मचारिन् कुरुष्व त्वं यदीच्छसि सतां गतिम्
इत्य् उक्त्वा विररामाथ द्विजपुत्रं पतिव्रता ॥

13.51

सो ऽपि ताम् आह भूयो ऽपि सावित्रीं तु क्षमापयन्
अज्ञानात् कृतपापस्य क्षमस्व वरवर्णिनि ॥

13.52

मया तवाहितं यच् च कृतं क्रोधनिरीक्षणम्
तत् क्षमस्व महाभागे हितम् उक्तं पतिव्रते ॥

13.53

तत्र गत्वा मया यानि कर्माणि तु शुभव्रते
कार्याणि तानि मे ब्रूहि यथा मे सुगतिर् भवेत् ॥

13.54

तेनैवं उक्ता साप्य् आह तं पृच्छन्तं पतिव्रता
यानि कार्याणि वक्ष्यामि त्वया कर्माणि मे शृणु ॥

13.55

पोष्या माता त्वया तत्र निश्चयं भैक्षवृत्तिना
अत्र वा तत्र वा ब्रह्मन् प्रायश्चित्तं च पक्षिणोः ॥

13.56

यज्ञशर्मसुता कन्या भार्या तव भविष्यति
तां गृह्णीष्व च धर्मेण गते त्वयि स दास्यति ॥

13.57

पुत्रस् ते भविता तस्याम् एकः संततिवर्धनः
यायावरधनाद् वृत्तिः पितृवत् ते भविष्यति ॥

13.58

पुनर् मृतायां भार्यायां भविता त्वं त्रिदण्डकः
स यत्याश्रमधर्मेण यथोक्त्यानुष्ठितेन च
नरसिंहप्रसादेन वैष्णवं पदम् आप्स्यसि ॥

13.59

भाव्यम् एतत् तु कथितं मया तव हि पृच्छतः
मन्यसे नानृतं त्व् एतत् कुरु सर्वं हि मे वचः ॥

13.60

गच्छामि मातृरक्षार्थम् अद्यैवाहं पतिव्रते
करिष्ये त्वद्वचः सर्वं तत्र गत्वा शुभेक्षणे ॥

13.61

इत्य् उक्त्वा गतवान् ब्रह्मन् देवशर्मा ततस् त्वरन्
संरक्ष्य मातरं यत्नात् क्रोधमोहविवर्जितः ॥

13.62

कृत्वा विवाहम् उत्पाद्य पुत्रं वंशकरं शुभम्
मृतभार्यश् च संन्यस्य समलोष्टाश्मकाञ्चनः
नरसिंहप्रसादेन परां सिद्धिम् अवाप्तवान् ॥

13.63

पतिव्रताशक्तिर् इयं तवेरिता धर्मश् च मातुः परिरक्षणं परम्
संसारवृक्षं च निहत्य बन्धनं छित्वा च विष्णोः पदम् एति मानवः ॥

मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc