भाषा

ENहिગુ
ग्रंथ पाठ

नरसिंहपुराण · अध्याय 14

14.1

शृणु वत्स महाबुद्धे शिष्याश् चैतां परां कथाम्
मयोच्यमानां शृण्वन्तु सर्वपापप्रणाशिनीम् ॥

14.2

पुरा द्विजवरः कश्चिद् वेदशास्त्रविशारदः
मृतभार्यो गतस् तीर्थं चक्रे स्नानं यथाविधि ॥

14.3

तपः सुतप्तं विजने निःस्पृहो दारकर्मणि
भिक्षाहारः प्रवसितो जपस्नानपरायणः ॥

14.4

स्नात्वा स गङ्गां यमुनां सरस्वतीं पुण्यां वितस्ताम् अथ गोमतीं च
गयां समासाद्य पितृन् पितामहान् संतर्पयन् सन् गतवान् महेन्द्रम् ॥

14.5

तत्रापि कुण्डेषु गिरौ महामतिः स्नात्वा नु दृष्ट्वा भृगुनन्दनोत्तमम्
कृत्वा पितृभ्यस् तु तथैव तृप्तिं व्रजन् वनं पापहरं प्रविष्टः ॥

14.6

धारां पतन्तीं महतीं शिलोच्चयात् संधार्य भक्त्या त्व् अनु नारसिंहे
शिरस्य् अशेषाघविनाशिनीं तदा विशुद्धदेहः स बभूव विप्रः ॥

14.7

विन्ध्याचले सक्तम् अनन्तम् अच्युतं भक्तैर् मुनीन्द्रैर् अपि पूजितं सदा
आराध्य पुष्पैर् गिरिसंभवैर् शुभैस् तत्रैव सिद्धिं त्व् अभिकाङ्क्ष्य संस्थितः ॥

14.8

स नारसिंहो बहुकालपूजया तुष्टः सुनिद्रागतम् आह भक्तम्
अनाश्रमित्वं गृहभङ्गकारणं ह्य् अतो गृहाणाश्रमम् उत्तमं द्विज ॥

14.9

अनाश्रमीति द्विज वेदपारगान् अपि त्व् अहं नानुगृह्णामि चात्र
तथापि निष्ठां तव वीक्ष्य सत्तम त्वयि प्रसन्नेन मयेत्य् उदीरितम् ॥

14.10

तेनैवम् उक्तः परमेश्वरेण द्विजो ऽपि बुद्ध्या प्रविचिन्त्य वाक्यम्
हरेर् अलङ्घ्यं नरसिंहमूर्तेर् भाधं च कृत्वा स यतिर् बभूव ॥

14.11

त्रिदण्डवृक्षाक्षपवित्रपाणिर् आप्लुत्य तोये त्व् अघहारिणि स्थितः
जपन् सदा मन्त्रम् अपास्तदोषं सावित्र्यम् ईशं हृदये स्मरन् हरिम् ॥

14.12

यथाकथंचित् प्रतिलभ्य शाकं भैक्ष्याभितुष्टो वनवासवासी
अभ्यर्च्य विष्णुं नरसिंहमूर्तिं ध्यात्वा च नित्यं हृदि शुद्धम् आद्यम् ॥

14.13

विविक्तदेशे विपुले कुशासने निवेश्य सर्वं हृदये ऽस्य सर्वम्
बाह्यं समस्तं गुणम् इन्द्रियाणां विलीय भेदं भगवत्य् अनन्ते ॥

14.14

विज्ञेयम् आनन्दम् अजं विशालं सत्यात्मकं क्षेमपदं वरेण्यम्
संचिन्त्य तस्मिन् प्रविहाय देहं बभूव मुक्तः परमात्मरूपी ॥

14.15

इमां कथां मुक्तिपरां यथोक्तां पठन्ति ये नारसिंहं स्मरन्तः
प्रयागतीर्थप्लवने तु यत् फलं तत् प्राप्य ते यान्ति हरेः पदं महत् ॥

14.16

इत्य् एतद् उक्तं तव पुत्र पृच्छतः पुरातनं पुण्यतमं पवित्रकम्
संसारवृक्षस्य विनाशनं परं पुनः कम् इच्छस्य् अभिवाञ्छितं वद ॥

मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc