भाषा

ENहिગુ
ग्रंथ पाठ

नरसिंहपुराण · अध्याय 12

12.1

श्रुत्वेमाम् अमृतां पुण्यां सर्वपापप्रणाशिनीम्
अवितृप्तः स धर्मात्मा शुको व्यासम् अभाषत ॥

12.2

अहो ऽतीव तपश्चर्या मार्कण्डेयस्य धीमतः
येन दृष्टो हरिः साक्षाद् येन मृत्युः पराजितः ॥

12.3

न तृप्तिर् अस्ति मे तात श्रुत्वेमां वैष्णवीं कथाम्
पुण्यां पापहरां तात तस्माद् अन्यत् तु मे वद ॥

12.4

नराणां दृढचित्तानाम् अकार्यं नेह कुर्वताम्
यत् पुण्यम् ऋषिभिः प्रोक्तं तन् मे वद महामते ॥

12.5

नराणां दृढचित्तानाम् इह लोके परत्र च
पुण्यं यत् स्यान् मुनिश्रेष्ठ तन् मे निगदतः शृणु ॥

12.6

अत्रैवोदाहरन्तीमाम् इतिहासं पुरातनम्
यम्या च सह संवादं यमस्य च महात्मनः ॥

12.7

विवस्वान् अदितेः पुत्रस् तस्य पुत्रौ सुवर्चसौ
जज्ञाते स यमश् चैव यमी चापि यवीयसी ॥

12.8

तौ तत्र संविवर्धेते पितुर् भवन उत्तमे
क्रीडमानौ स्वभावेन स्वच्छन्दगमनाव् उभौ ॥

12.9

यमी यमं समासाद्य स्वसा भ्रातरम् अब्रवीत् ॥

12.10

न भ्राता भगिनीं योग्यां कामयन्तीं च कामयेत्
भ्रातृभूतेन किं तस्य स्वसुर् यो न पतिर् भवेत् ॥

12.11

अभूत इव स ज्ञेयो न तु भूतः कथंचन
अनाथां नाथम् इच्छन्तीं स्वसारं यो न नाथति ॥

12.12

काङ्क्षन्तीं भ्रातरं नाथं भर्तारं यस् तु नेच्छति
भ्रातेति नोच्यते लोके स पुमान् मुनिसत्तमः ॥

12.13

स्याद् वान्यतनया तस्य भर्या भवति किं तया
ईक्षतस् तु स्वसा भ्रातुः कामेन परिदह्यते ॥

12.14

यत् कार्यम् अहम् इच्छामि त्वम् एवेच्छ तद् एव हि
अन्यथाहं मरिष्यामि त्वाम् इच्छन्ती विचेतना ॥

12.15

कामदुःखम् असह्यं नु भ्रातः किं त्वं न चेच्छसि
कामाग्निना भृशं तप्ता प्रलीयाम्य् अङ्ग मा चिरम् ॥

12.16

कामार्तायाः स्त्रियाः कान्त वशगो भव मा चिरम्
स्वेन कायेन मे कायं संयोजयितुम् अर्हसि ॥

12.17

किम् इदं लोकविद्विष्टं धर्मं भगिनि भाषसे
अकार्यम् इह कः कुर्यात् पुमान् भद्रे सुचेतनः ॥

12.18

न ते संयोजयिष्यामि कायं कायेन भामिनि
न भ्राता मदनार्तायाः स्वसुः कामं प्रयच्छति ॥

12.19

महापातकम् इत्य् आहुः स्वसारं यो ऽधिगच्छति
पशूनाम् एष धर्मः स्यात् तिर्यग्योनिवतां शुभे ॥

12.20

एकस्थाने यथा पूर्वं संयोगो नौ न दुष्यति
मातृगर्भे तथैवायं संयोगो नौ न दुष्यति ॥

12.21

किं भ्रातर् अप्य् अनाथां त्वं मा नेच्छसि शोभनम्
स्वसारं निरृती रक्षः संगच्छति च नित्यशः ॥

12.22

स्वयंभुवापि निन्द्येत लोकवृत्तं जुगुप्सितम्
प्रधानपुरुषाचीर्णं लोको ऽयम् अनुवर्तते ॥

12.23

तस्माद् अनिन्दितं धर्मं प्रधानपुरुषश् चरेत्
निन्दितं वर्जयेद् यत्नाद् एतद् धर्मस्य लक्षणम् ॥

12.24

यद् यद् आचरति श्रेष्ठस् तत् तद् एवेतरो जनः
स यत् प्रमाणं कुरुते लोकस् तद् अनुवर्तते ॥

12.25

अतिपापम् अहं मन्ये सुभगे वचनं तव
विरुद्धं सर्वधर्मेषु लोकेषु च विशेषतः ॥

12.26

मत्तो ऽन्यो यो भवेद् यो वै विशिष्टो रूपशीलतः
तेन सार्धं प्रमोदस्व न ते भर्ता भवाम्य् अहम् ॥

12.27

नाहं स्पृशामि तन्वा ते तनुं भद्रे दृढव्रतः
मुनयः पापम् आहुस् तं यः स्वसारं निगृह्णति ॥

12.28

दुर्लभं चैव पश्यामि लोके रूपम् इहेदृशम्
यत्र रूपं वयश् चैव पृथिव्यां क्व प्रतिष्ठितम् ॥

12.29

न विजानामि ते चित्तं कुत एतत् प्रतिष्ठितम्
आत्मरूपगुणोपेतां न कामयसि मोहिताम् ॥

12.30

लतेव पादपे लग्ना कामं त्वच्छरणं गता
बाहुभ्यां संपरिष्वज्य निवसामि शुचिस्मिता ॥

12.31

अन्यं श्रयस्व सुश्रोणि देवं देव्य् असितेक्षणे
यस् तु ते काममोहेन चेतसा विभ्रमं गतः
तस्य देवस्य देवी त्वं भवेथा वरवर्णिनि ॥

12.32

ईप्सितां सर्वभूतानां वर्यां शंसन्ति मानवाः
सुभद्रां चारुसर्वाङ्गीं संस्कृतां परिचक्षते ॥

12.33

तत्कृते ऽपि सुविद्वांसो न करिष्यन्ति दूषणम्
परितापं महाप्राज्ञे न करिष्ये दृढव्रतः ॥

12.34

चित्तं मे निर्मलं भद्रे विष्णौ रुद्रे च संस्थितम्
अतः पापं नु नेच्छामि धर्मचित्तो दृढव्रतः ॥

12.35

असकृत् प्रोच्यमानो ऽपि तया चैवं दृढव्रतः
कृतवान् न यमः कार्यं तेन देवत्वम् आप्तवान् ॥

12.36

नराणां दृढचित्तानाम् एवं पापम् अकुर्वताम्
अनन्तं फलम् इत्य् आहुस् तेषां स्वर्गफलं भवेत् ॥

12.37

एतत् तु यम्युपाख्यानं पूर्ववृत्तं सनातनम्
सर्वपापहरं पुण्यं श्रोतव्यम् अनसूयया ॥

12.38

यश् चैतत् पठते नित्यं हव्यकव्येषु ब्राह्मणः
संतृप्ताः पितरस् तस्य न विशन्ति यमालयम् ॥

12.39

यश् चैतत् पठते नित्यं पितॄणाम् अनृणो भवेत्
वैवस्वतीभ्यस् तीव्राभ्यो यातनाभ्यः प्रमुच्यते ॥

12.40

पुत्रैतद् आख्यानम् अनुत्तमं मया तवोदितं वेदपदार्थनिश्चितम्
पुरातनं पापहरं सदा नृणां किम् अन्यद् अद्यैव वदामि शंस मे ॥

मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc