नरसिंहपुराण · अध्याय 11
प्रणिपत्य जगन्नाथं चराचरगुरुं हरिम्
मार्कण्डेयो ऽभितुष्टाव भोगपर्यङ्कशायिनम् ॥
प्रसीद भगवन् विष्णो प्रसीद पुरुषोत्तम
प्रसीद देवदेवेश प्रसीद गरुडध्वज ॥
प्रसीद विष्णो लक्ष्मीश प्रसीद धरणीधर
प्रसीद लोकनाथाद्य प्रसीद परमेश्वर ॥
प्रसीद सर्वदेवेश प्रसीद कमलेक्षण
प्रसीद मन्दरधर प्रसीद मधुसूदन ॥
प्रसीद सुभगाकान्त प्रसीद भुवनाधिप
प्रसीदाद्य महादेव प्रसीद मम केशव ॥
जय कृष्ण जयाचिन्त्य जय विष्णो जयाव्यय
जय विश्व जयाव्यक्त जय विष्णो नमो ऽस्तु ते ॥
जय देव जयाजेय जय सत्य जयाक्षर
जय काल जयेशान जय सर्व नमो ऽस्तु ते ॥
जय यज्ञपते नाथ जय विश्वपते विभो
जय भूतपते नाथ जय सर्वपते विभो ॥
जय विश्वपते नाथ जय दक्ष नमो ऽस्तु ते
जय पापहरानन्त जय जन्मजरापह ॥
जय भद्रातिभद्रेश जय भद्र नमो ऽस्तु ते
जय कामद काकुत्स्थ जय मानद माधव ॥
जय शंकर देवेश जय श्रीश नमो ऽस्तु ते
जय कुङ्कुमरक्ताभ जय पङ्कजलोचन ॥
जय चन्दनलिप्ताङ्ग जय राम नमो ऽस्तु ते
जय देव जगन्नाथ जय देवकिनन्दन ॥
जय सर्वगुरो ज्ञेय जय शंभो नमो ऽस्तु ते
जय सुन्दर पद्माभ जय सुन्दरिवल्लभ
जय सुन्दरसर्वाङ्ग जय वन्द्य नमो ऽस्तु ते ॥
जय सर्वद सर्वेश जय शर्मद शाश्वत
जय कामद भक्तानां प्रभविष्णो नमो ऽस्तु ते ॥
नमः कमलनाभाय नमः कमलमालिने
लोकनाथ नमस् ते ऽस्तु वीरभद्र नमो ऽस्तु ते ॥
नमस् त्रैलोक्यनाथाय चतुर्मूर्ते जगत्पते
नमो देवाधिदेवाय नमो नारायणाय ते ॥
नमस् ते वासुदेवाय नमस् ते पीतवाससे
नमस् ते नरसिंहाय नमस् ते शार्ङ्गधारिणे ॥
नमः कृष्णाय रामाय नमश् चक्रायुधाय च
नमः शिवाय देवाय नमस् ते भुवनेश्वर ॥
नमो वेदान्तवेद्याय नमो ऽनन्ताय विष्णवे
नमस् ते सकलाध्यक्ष नमस् ते श्रीधराअच्युत ॥
लोकाध्यक्ष जगत्पूज्य परमात्मन् नमो ऽस्तु ते
त्वं माता सर्वलोकानां त्वम् एव जगतः पिता ॥
त्वम् आर्तानां सुहृन् मित्रं प्रियस् त्वं प्रपितामहः
त्वं गुरुस् त्वं गतिः साक्षी त्वं पतिस् त्वं परायणः ॥
त्वं ध्रुवस् त्वं वषट्कर्ता त्वं हविस् त्वं हुताशनः
त्वं शिवस् त्वं वसुर् धाता त्वं ब्रह्मा त्वं सुरेश्वरः ॥
त्वं यमस् त्वं रविर् वायुस् त्वं जलं त्वं धनेश्वरः
त्वं मनुस् त्वम् अहोरात्रं त्वं निशा त्वं निशाकरः
त्वं धृतिस् त्वं श्रियः कान्तिस् त्वं क्षमा त्वं धराधरः ॥
त्वं कर्ता जगताम् ईशस् त्वं हन्ता मधुसूदन
त्वम् एव गोप्ता सर्वस्य जगतस् त्वं चराचर ॥
करणं कारणं कर्ता त्वम् एव परमेश्वरः
शङ्खचक्रगदापाणे भो समुद्धर माधव ॥
प्रिय पद्मपलाशाक्ष शेषपर्यङ्कशायिनम्
त्वाम् एव भक्त्या सततं नमामि पुरुषोत्तमम् ॥
श्रीवत्साङ्क जगद्बीजं श्यामलं कमलेक्षणम्
नमामि ते वपुर् देव कलिकल्मषनाशनम् ॥
लक्ष्मीधरम् उदाराङ्गं दिव्यमालाविभूषितम्
चारुपृष्ठं महाबाहुं चारुभूषणभूषितम् ॥
पद्मनाभं विशालाक्षं पद्मपत्त्रनिभेक्षणम्
दीर्घतुङ्गमहाघ्राणं नीलजीमूतसंनिभम् ॥
दीर्घबाहुं सुगुप्ताङ्गं रत्नहारोज्ज्वलोरसम्
सुभ्रूललाटमुकुटं स्निग्धदन्तं सुलोचनम् ॥
चारुबाहुं सुताम्रौष्ठं रत्नोज्ज्वलितकुण्डलम्
वृत्तकण्ठं सुपीनांसं सरसं श्रीधरं हरिम् ॥
सुकुमारम् अजं नित्यं नीलकुञ्चितमूर्धजम्
उन्नतांसं महोरस्कं कर्णान्तायतलोचनम् ॥
हेमारविन्दवदनम् इन्दिरायनम् ईश्वरम्
सर्वलोकविधातारं सर्वपापहरं हरिम् ॥
सर्वलक्षणसंपन्नं सर्वसत्त्वमनोरमम्
विष्णुम् अच्युतम् ईशानम् अनन्तं पुरुषोत्तमम् ॥
नतो ऽस्मि मनसा नित्यं नारायणम् अनामयम्
वरदं कामदं कान्तम् अनन्तं सूनृतं शिवम् ॥
नमामि शिरसा विष्णो सदा त्वां भक्तवत्सल
अस्मिन्न् एकार्णवे घोरे वायुस्कम्भितचञ्चले ॥
अनन्तभोगशयने सहस्रफणशोभिते
विचित्रशयने रम्ये सेविते मन्दवायुना ॥
भुजपञ्चरसंसक्त कमलालयसेवितम्
इह त्वां मनसा सर्वम् इदानीं दृष्टवान् अहम् ॥
इदानीं तु सुदुःखार्तो मायया तव मोहितः
एकोदके निरालम्बे नष्टस्थावरजङ्गमे ॥
शून्ये तमसि दुष्पारे दुःखपङ्के निरामये
शीतातपजरारोग शोकतृष्णादिभिः सदा ॥
पीडितो ऽस्मि भृशं तात सुचिरं कालम् अच्युत
शोकमोहग्रहग्रस्तो विचरन् भवसागरे ॥
इहाद्य विधिना प्राप्तस् तव पादाब्जसंनिधौ
एकार्णवे महाघोरे दुस्तरे दुःखपीडितः ॥
चिरभ्रमपरिश्रान्तस् त्वाम् अद्य शरणं गतः
प्रसीद सुमहामाय विष्णो राजीवलोचन ॥
विश्वयोने विशालाक्ष विश्वात्मन् विश्वसंभव
अनन्यशरणं प्राप्तम् अतो ऽत्र कुलनन्दन ॥
त्राहि मां कृपया कृष्ण शरणागतम् आतुरम्
नमस् ते पुण्डरीकाक्ष पुराणपुरुषोत्तम ॥
अञ्जनाभ हृषीकेश मायामय नमो ऽस्तु ते
माम् उद्धर महाबाहो मग्ने संसारसागरे ॥
गह्वरे दुस्तरे दुःख क्लिष्टे क्लेशमहाग्रहैः
अनाथं कृपणं दीनं पतितं भवसागरे
मां समुद्धर गोविन्द वरदेश नमो ऽस्तु ते ॥
नमस् त्रैलोक्यनाथाय हरये भूधराय च
देवदेव नमस् ते ऽस्तु श्रीवल्लभ नमो ऽस्तु ते ॥
कृष्ण कृष्ण कृपालुस् त्वम् अगतीनां गतिर् भवान्
संसारार्णवमग्नानां प्रसीद मधुसूदन ॥
त्वाम् एकम् आद्यं पुरुषं पुराणं जगत्पतिं कारणम् अच्युतं प्रभुम्
जनार्दनं जन्मजरार्तिनाशनं सुरेश्वरं सुन्दरम् इन्दिरापतिम् ॥
बृहद्भुजं श्यामलकोमलं शुभं वराननं वारिजपत्त्रनेत्रम्
तरंगभङ्गायतकुन्तलं हरिं सुकान्तम् ईशं प्रणतो ऽस्मि शाश्वतम् ॥
सा जिह्वा या हरिं स्तौति तच् चित्तं यत् त्वदर्पितम्
ताव् एव केवलौ श्लाघ्यौ यौ त्वत्पूजाकरौ करौ ॥
जन्मान्तरसहस्रेषु यन् मया पातकं कृतम्
तन् मे हर त्वं गोविन्द वासुदेवेति कीर्तनात् ॥
इति स्तुतस् ततो विष्णुर् मार्कण्डेयेन धीमता
संतुष्टः प्राह विश्वात्मा तं मुनिं गरुडध्वजः ॥
प्रीतो ऽस्मि तपसा विप्र स्तुत्या च भृगुनन्दन
वरं वृणीष्व भद्रं ते प्रार्थितं दद्मि ते वरम् ॥
त्वत्पादपद्मे देवेश भक्तिं मे देहि सर्वदा
यदि तुष्टो ममाद्य त्वम् अन्यद् एकं वृणोम्य् अहम् ॥
स्तोत्रेणानेन देवेश यस् त्वां स्तोष्यति नित्यशः
स्वर्लोकवसतिं तस्य देहि देव जगत्पते ॥
दीर्घायुष्ट्वं तु यद् दत्तं त्वया मे तप्यतः पुरा
तत् सर्वं सफलं जातम् इदानीं तव दर्शनात् ॥
वस्तुम् इच्छामि देवेश तव पादाब्जम् अर्चयन्
अत्रैव भगवन् नित्यं जन्ममृत्युविवर्जितः ॥
मय्य् अस्तु ते भृगुश्रेष्ठ भक्तिर् अव्यभिचारिणी
भक्त्या मुक्तिर् भवत्य् एव तव कालेन सत्तम ॥
यस् त्व् इदं पठते स्तोत्रं सायं प्रातस् तवेरितम्
मयि भक्तिं दृढां कृत्वा मम लोके स मोदते ॥
यत्र यत्र भृगुश्रेष्ठ स्थितस् त्वं मां स्मरिष्यसि
तत्र तत्र समेष्यामि दान्तो भक्तवशो ऽस्मि भोः ॥
इत्य् उक्त्वा तं मुनिश्रेष्ठं मार्कण्डेयं स माधवः
विरराम स सर्वत्र पश्यन् विष्णुं यतस् ततः ॥
इति ते कथितं विप्र चरितं तस्य धीमतः
मार्कण्डेयस्य च मुनेस् तेनैवोक्तं पुरा मम ॥
ये विष्णुभक्त्या चरितं पुराणं भृगोस् तु पौत्रस्य पठन्ति नित्यम्
ते मुक्तपापा नरसिंहलोके वसन्ति भक्तैर् अभिपूज्यमानाः ॥
मूल पाठ: Narasiṃhapurāṇa · Edition: Siddheswar Jena: The Narasiṃha Purāṇam. Delhi: Nag Publ. 1987. · Data entry Peter Schreiner · GRETIL (Göttingen) · CC BY-NC-SA 4.0