भाषा

ENहिગુ
ग्रंथ पाठ

नारदस्मृति · अध्याय v12

v12.1

विवाहादिविधिः स्त्रीणां यत्र पुंसां च कीर्त्यते ।
स्त्रीपुंसयोगनामैतद् विवादपदम् उच्यते ॥

v12.2

स्त्रीपुंसयोस् तु संबन्धाद् वरणं प्राग् विधीयते ।
वरणाद् ग्रहणं पाणेः संस्कारो ऽथ द्विलक्षणः ॥

v12.3

तयोर् अनियतं प्रोक्तं वरणं दोषदर्शनात् ।
पाणिग्रहणमन्त्राभ्यां नियतं दारलक्षणम् ॥

v12.4

ब्राह्मणक्षत्रियविशां शूद्राणां च परिग्रहे ।
स्वजात्या श्रेयसी भार्या स्वजात्यश् च पतिः स्त्रियाः ॥

v12.5

ब्राह्मणस्यानुलोम्येन स्त्रियो ऽन्यास् तिस्र एव तु ।
शूद्रायाः प्रातिलोम्येन तथान्ये पतयस् त्रयः ॥

v12.6

द्वे भार्ये क्षत्रियस्यान्ये वैश्यस्यैका प्रकीर्तिता ।
वैश्याया द्वौ पती ज्ञेयाव् एको ऽन्यः क्षत्रियापतिः ॥

v12.7

आ सप्तमात् पञ्चमाद् वा बन्धुभ्यः पितृमातृताः ।
अविवाह्याः सगोत्राः स्युः समानप्रवरास् तथा ॥

v12.8

परीक्ष्यः पुरुषः पुंस्त्वे निजैर् एवाङ्गलक्षणैः ।
पुमांश् चेद् अविकल्पेन स कन्यां लब्धुम् अर्हति ॥

v12.9

सुबद्धजत्रुजान्वस्थिः सुबद्धांसशिरोधरः ।
स्थूलघाटस् तनूरुत्वग् अविलग्नगतिस्वरः ॥

v12.10

विट् चास्य प्लवते नाप्सु ह्लादि मूत्रं च फेनिलम् ।
पुमान् स्यांल् लक्षणैर् एतैर् विपरीतैस् तु पण्डकः ॥

v12.11

चतुर्दशविधः शास्त्रे स तु दृष्टो मनीषिभिः ।
चिकित्स्यश् चाचिकित्स्यश् च तेषाम् उक्तो विधिः क्रमात् ॥

v12.12

निसर्गपण्डो वध्रिश् च पक्षपण्डस् तथैव च ।
अभिशापाद् गुरो रोगाद् देवक्रोधात् तथैव च ॥

v12.13

ईर्ष्यापण्डश् च सेव्यश् च वातरेता मुखेभगः ।
आक्षिप्तो मोघबीजश् च शालीनो ऽन्यपतिस् तथा ॥

v12.14

तत्राद्याव् अप्रतीकरौ पक्षाख्यो मासम् आचरेत् ।
अनुक्रमात् त्रयस्यास्य कालः संवत्सरः स्मृतः ॥

v12.15

ईर्ष्यापण्डादयो ये ऽन्ये चत्वारः समुदाहृताः ।
संत्यक्तव्याः पतितवत् क्षतयोन्या अपि स्त्रियाः ॥

v12.16

आक्षिप्तमोघबीजाभ्याम् पत्याव् अप्रतिकर्मणि ।
पतिर् अन्यः स्मृतो नार्या वत्सरं संप्रतीक्ष्य तु ॥

v12.17

शालीनस्यापि धृष्टस्त्री संयोगाद् भज्यते ध्वजः ।
तं हीनवेगम् अन्यस्त्री बालाद्याभिर् उपक्रमेत् ॥

v12.18

अन्यस्याम् यो मनुष्यः स्याद् अमनुष्यः स्वयोषिति ।
लभेत सान्यं भर्तारम् एतत् कार्यं प्रजापतेः ॥

v12.19

अपत्यार्थं स्त्रियः सृष्टाः स्त्री क्षेत्रं बीजिनः प्रजाः ।
क्षेत्रं बीजवते देयं नाबीजी क्षेत्रम् अर्हति ॥

v12.20

पिता दद्यात् स्वयं कन्याम् भ्राता वानुमते पितुः ।
मातामहो मातुलश् च सकुल्या बान्धवास् तथा ॥

v12.21

माताभावे तु सर्वेषां प्रकृतौ यदि वर्तते ।
तस्याम् अप्रकृतिस्थायां दद्युः कन्यां स्वजातयः ॥

v12.22

यदा तु नैव कश्चित् स्यात् कन्या राजानम् आव्रजेत् ।
अनुज्ञया तस्य वरं प्रतीत्य वरयेत् स्वयम् ॥

v12.23

सवर्णम् अनुरूपं च कुलरूपवयःश्रुतैः ।
सह धर्मं चरेत् तेन पुत्रांश् चोत्पादयेत् ततः ॥

v12.24

प्रतिगृह्य च यः कन्यां नरो देशान्तरं व्रजेत् ।
त्रीन् ऋतून् समतिक्रम्य कन्यान्यं वरयेद् वरम् ॥

v12.25

कन्या नर्तुम् उपेक्षेत बान्धवेभ्यो निवेदयेत् ।
ते चेन् न दद्युस् तां भर्त्रे ते स्युर् भ्रूणहभिः समाः ॥

v12.26

यावन्तश् च र्तवस् तस्याः समतीता पतिं विना ।
तावत्यो भ्रूणहत्याः स्युस् तस्य यो न ददाति ताम् ॥

v12.27

अतो ऽप्रवृत्ते रजसि कन्यां दद्यात् पिता सकृत् ।
महद् एनः स्पृशेद् एनम् अन्यथैष विधिः सताम् ॥

v12.28

सकृद् अंशो निपतति सकृत् कन्या प्रदीयते ।
सकृद् आह ददानीति त्रीण्य् एतानि सकृत् सकृत् ॥

v12.29

ब्राह्मादिषु विवाहेषु पञ्चस्व् एषु विधिः स्मृतः ।
गुणापेक्षं भवेद् दानम् आसुरादिषु च त्रिषु ॥

v12.30

कन्यायाम् प्राप्तशुल्कायां ज्यायांश् चेद् वर आव्रजेत् ।
धर्मार्थकामसंयुक्तं वाच्यं तत्रानृतं भवेत् ॥

v12.31

नादुष्टां दूषयेत् कन्यां नादुष्टं दूषयेद् वरम् ।
दोषे तु सति नागः स्याद् अन्योन्यं त्यजतोस् तयोः ॥

v12.32

दत्त्वा न्यायेन यः कन्यां वराय न ददाति ताम् ।
अदुष्टश् चेद् वरो राज्ञा स दण्ड्यस् तत्र चोरवत् ॥

v12.33

यस् तु दोषवतीं कन्याम् अनाख्याय प्रयच्छति ।
तस्य कुर्यान् नृपो दण्डं पूर्वसाहसचोदितम् ॥

v12.34

अकन्येति तु यः कन्यां ब्रूयाद् द्वेषेण मानवः ।
स शतं प्राप्नुयाद् दण्डं तस्या दोषम् अदर्शयन् ॥

v12.35

प्रतिगृह्य तु यः कन्याम् अदुष्टाम् उत्सृजेद् वरः ।
विनेयः सो ऽप्य् अकामो ऽपि कन्यां ताम् एव चोद्वहेत् ॥

v12.36

दीर्घकुत्सितरोगार्ता व्यङ्गा संसृष्टमैथुना ।
धृष्टान्यगतभावा च कन्यादोषाः प्रकीर्तिताः ॥

v12.37

उन्मत्तः पतितः क्लीबो दुर्भगस् त्यक्तबान्धवः ।
कन्यादोषौ च यौ पूर्वौ एष दोषगणो वरे ॥

v12.38

अष्टौ विवाहा वर्णानां संस्कारार्थं प्रकीर्तिताः ।
ब्राह्मस् तु प्रथमस् तेषां प्राजापत्यस् तथैव च ॥

v12.39

आर्षश् चैवाथ दैवश् च गान्धर्वश् चासुरस् तथा ।
राक्षसो ऽनन्तरस् तस्मात् पैशाचस् त्व् अष्टमः स्मृतः ॥

v12.40

सत्कृत्याहूय कन्यां तु ब्राह्मे दद्याद् त्व् अलंकृताम् ।
सह धर्मं चरेत्य् उक्त्वा प्राजापत्यो विधीयते ॥

v12.41

वस्त्रगोमिथुने दत्त्वा विवाहस् त्व् आर्ष उच्यते ।
अन्तर्वेद्यां तु दैवः स्याद् ऋत्विजे कर्म कुर्वते ॥

v12.42

इच्छन्तीम् इच्छते प्राहुर् गान्धर्वो नाम पञ्चमम् ।
विवाहस् त्व् आसुरो ज्ञेयः शुल्कसंव्यवहारतः ॥

v12.43

प्रसह्य हरणाद् उक्तो विवाहो राक्षसस् तथा ।
सुप्तमत्तोपगमनात् पैशाचस् त्व् अष्टमो ऽधमः ॥

v12.44

एषां तु धर्म्यास् चत्वारो ब्राह्माद्याः समुदाहृताः ।
साधारणः स्याद् गान्धर्वस् त्रयो ऽधर्म्यास् त्व् अतः परे ॥

v12.45

परपूर्वाः स्त्रियस् त्व् अन्याः सप्त प्रोक्ता यथाक्रमम् ।
पुनर्भूस् त्रिविधा तासां स्वैरिणी तु चतुर्विधा ॥

v12.46

कन्यैवाक्षतयोनिर् या पाणिग्रहणदूषिता ।
पुनर्भूः प्रथमा सोक्ता पुनः संस्कारम् अर्हति ॥

v12.47

कौमारं पतिम् उत्सृज्य यान्यं पुरुषम् आश्रिता ।
पुनः पत्युर् गृहम् यायात् सा द्वितीया प्रकीर्तिता ॥

v12.48

असत्सु देवरेषु स्त्री बान्धवैर् या प्रदीयते ।
सवर्णायासपिण्डाय सा तृतीया प्रकीर्तिता ॥

v12.49

स्त्री प्रसूताप्रसूता वा पत्याव् एव तु जीवति ।
कामात् समाश्रयेद् अन्यं प्रथमा स्वैरिणी तु सा ॥

v12.50

मृते भर्तरि या प्राप्तान् देवरान् अप्य् अपास्य तु ।
उपगच्छेत् परं कामात् सा द्वितीया प्रकीर्तिता ॥

v12.51

प्राप्ता देशाद् धनक्रीता क्षुत्पिपासातुरा च या ।
तवाहम् इत्य् उपगता सा तृतीया प्रकीर्तिता ॥

v12.52

देशधर्मान् अपेक्ष्य स्त्री गुरुभिर् या प्रदीयते ।
उत्पन्नसाहसान्यस्मै सान्त्या वै स्वैरिणी स्मृता ॥

v12.53

पुनर्भुवां एष विधिः स्वैरिणीनां च कीर्तितः ।
पूर्वा पूर्वाजघन्यासां श्रेयसी तूत्तरोत्तरा ॥

v12.54

अपत्यम् उत्पादयितुस् तासां या शुल्कतो हृता ।
अशुल्कोपनतायां तु क्षेत्रिकस्यैव तत् फलम् ॥

v12.55

क्षेत्रिकस्य यद् अज्ञातं क्षेत्रे बीजं प्रदीयते ।
न तत्र बीजिनो भागः क्षेत्रिकस्यैव तद् भवेत् ॥

v12.56

ओघवाताहृतं बीजं क्षेत्रे यस्य प्ररोहति ।
फलभुग् यस्य तत् क्षेत्रं न बीजी फलभाग् भवेत् ॥

v12.57

महोक्षो जनयेद् वत्सान् यस्य गोषु व्रजे चरन् ।
तस्य ते यस्य ता गावो मोघं स्यन्दितम् आर्षभम् ॥

v12.58

क्षेत्रिकानुमतं बीजं यस्य क्षेत्रे प्रमुच्यते ।
तदपत्यं द्वयोर् एव बीजिक्षेत्रिकयोर् मतम् ॥

v12.59

नर्ते क्षेत्रं भवेत् सस्यं न च बीजं विनास्ति तत् ।
अतो ऽपत्यं द्वयोर् इष्टं पितुर् मातुश् च धर्मतः ॥

v12.60

नाथवत्या परगृहे संयुक्तस्य स्त्रिया सह ।
दृष्टं संग्रहणं तज्ज्ञैर् नागतायाः स्वयं गृहे ॥

v12.61

प्रदुष्टत्यक्तदारस्य क्लीबस्य क्षमकस्य च ।
स्वेच्छयोपेयुषो दारान् न दोषः साहसो भवेत् ॥

v12.62

परस्त्रिया सहाकाले ऽदेशे वा भवतो मिथः ।
स्थानसंभाषणामोदास् त्रयः संग्रहणक्रमाः ॥

v12.63

नदीनां संगमे तीर्थेष्व् आरामेषु वनेषु च ।
स्त्री पुमांश् च समेयातां ग्राह्यं संग्रहणं भवेत् ॥

v12.64

दूतीप्रस्थापनैश् चैव लेखासंप्रेषणैर् अपि ।
अन्यैर् अपि व्यभिचारैः सर्वं संग्रहणं स्मृतम् ॥

v12.65

स्त्रियं स्पृशेद् अदेशे यः स्पृष्टो वा मर्शयेत् तथा ।
परस्परस्यानुमते तच् च संग्रहणं भवेत् ॥

v12.66

भक्षैर् वा यदि वा भोज्यैर् वस्त्रैर् माल्यैस् तथैव च ।
संप्रेष्यमानैर् गन्धैश् च सर्वं संग्रहणं स्मृतम् ॥

v12.67

दर्पाद् वा यदि वा मोहाच् छ्लाघया वा स्वयं वदेत् ।
ममेयं भुक्तपूर्वेति सर्वं संग्रहणं स्मृतम् ॥

v12.68

पाणौ यश् च निगृह्णीयद् वेण्यां वस्त्रान्तरे ऽपि वा ।
तिष्ठ तिष्ठेति वा ब्रुयात् सर्वं संग्रहणं स्मृतम् ॥

v12.69

स्वजात्यतिक्रमे पुंसां उक्तम् उत्तमसाहसम् ।
विपर्यये मध्यमस् तु प्रातिलोमे प्रमापणम् ॥

v12.70

कन्यायाम् असकामायां द्व्याङ्गुलस्यावकर्तनम् ।
उत्तमायां वधस् त्व् एव सर्वस्वहरणं तथा ॥

v12.71

सकामायां तु कन्यायां सवर्णे नास्त्य् अतिक्रमः ।
किंत्व् अलंकृत्य सत्कृत्य स एवैनां समुद्वहेत् ॥

v12.72

माता मातृष्वसा श्वश्रूर् मातुलानी पितृष्वसा ।
पितृव्यसखिशिष्यस्त्री भगिनी तत्सखी स्नुषा ॥

v12.73

दुहिताचार्यभार्या च सगोत्रा शरणागता ।
राज्ञी प्रव्रजिता धात्री साध्वी वर्णोत्तमा च या ॥

v12.74

आसाम् अन्यतमां गत्वा गुरुतल्पग उच्यते ।
शिश्नस्योत्कर्तनं दण्डो नान्यस् तत्र विधीयते ॥

v12.75

पशुयोन्याम् अतिक्रामन् विनेयः स दमं शतम् ।
मध्यमं साहसं गोषु तद् एवान्त्यावसायिषु ॥

v12.76

अगम्यागामिनः शास्ति दण्डो राज्ञा प्रचोदितः ।
प्रायश्चित्तविधाव् अत्र प्रायश्चित्तं विशोधनम् ॥

v12.77

स्वैरिण्य् अब्राह्मणी वेश्या दासी निष्कासिनी च या ।
गम्याः स्युर् आनुलोम्येन स्त्रियो न प्रतिलोमतः ॥

v12.78

आस्व् एव तु भुजिष्यासु दोषः स्यात् परदारवत् ।
गम्या अपि हि नोपेयास् ताश् चेद् अन्यपरिग्रहाः ॥

v12.79

अनुत्पन्नप्रजायास् तु पतिः प्रेयाद् यदि स्त्रियाः ।
नियुक्ता गुरुभिर् गच्छेद् देवरं पुत्रकाम्यया ॥

v12.80

स च तां प्रतिपद्येत तथैवा पुत्रजन्मतः ।
पुत्रे जाते निवर्तेत विप्लवः स्याद् अतो ऽन्यथा ॥

v12.81

घृतेनाभ्यज्य गात्राणि तैलेनाविकृतेन वा ।
मुखान् मुखं परिहरन् गात्रैर् गात्राण्य् असंस्पृशन् ॥

v12.82

स्त्रियं पुत्रवतीं वन्ध्यां नीरजस्काम् अनिच्छन्तीम् ।
न गच्छेद् गर्भिणीं निन्द्याम् अनियुक्तां च बन्धुभिः ॥

v12.83

अनियुक्ता तु या नारी देवराज् जनयेत् सुतम् ।
जारजातम् अरिक्थीयं तम् आहुर् धर्मवादिनः ॥

v12.84

तथानियुक्तो भार्यायां यवीयाञ् ज्यायसो व्रजेत् ।
यवीयसो वा यो ज्यायान् उभौ तौ गुरुतल्पगौ ॥

v12.85

कुले तदवशेषे तु संतानार्थं न कामतः ।
नियुक्तो गुरुभिर् गच्छेद् भ्रातृभार्यां यवीयसः ॥

v12.86

अविद्यमाने तु गुरौ राज्ञो वाच्यः कुलक्षयः ।
ततस् तद्वचनाद् गच्छेद् अनुशिष्य स्त्रिया सह ॥

v12.87

पूर्वोक्तेनैव विधिना स्नातां पुंसवने शुचिः ।
सकृद् आ गर्भाधानाद् वा कृते गर्भे स्नुषैव सा ॥

v12.88

अतो ऽन्यथा वर्तमानः पुमान् स्त्री वापि कामतः ।
विनेयौ सुभृशं राज्ञा किल्बिषी स्याद् अनिग्रहात् ॥

v12.89

ईर्ष्यासूयसमुत्थे तु संरम्भे रागहेतुके ।
दम्पती विवदेयातां न ज्ञातिषु न राजनि ॥

v12.90

अन्योन्यं त्यजतोर् नागः स्याद् अन्योन्यविरुद्धयोः ।
स्त्रीपुंसयोर् निगूढाया व्यभिचाराद् ऋते स्त्रियाः ॥

v12.91

व्यभिचारे स्त्रिया मौण्ड्यम् अधःशयनम् एव च ।
कदन्नं वा कुवासश् च कर्म चावस्करोञ्झनम् ॥

v12.92

स्त्रीधनभ्रष्टसर्वस्वां गर्भविस्रंसिनीं तथा ।
भर्तुश् च वधम् इच्छन्तीं स्त्रियं निर्वासयेद् गृहात् ॥

v12.93

अनर्थशीलां सततं तथैवाप्रियवादिनीम् ।
पूर्वाशिनीं च या भर्तुः स्त्रियं निर्वासयेद् बुधः ॥

v12.94

वन्ध्यां स्त्रीजननीं निन्द्यां प्रतिकुलां च सर्वदा ।
कामतो नाभिनन्देत कुर्वन्न् एवं स दोषभाक् ॥

v12.95

अनुकूलाम् अवाग्दुष्टां दक्षां साध्वीं प्रजावतीम् ।
त्यजन् भार्याम् अवस्थाप्यो राज्ञा दण्डेन भूयसा ॥

v12.96

अज्ञातदोषेणोढा या निर्गता नान्यम् आश्रिता ।
बन्धुभिः सा नियोक्तव्या निर्बन्धुः स्वयम् आश्रयेत् ॥

v12.97

नष्टे मृते प्रव्रजिते क्लीबे च पतिते पतौ ।
पञ्चस्व् आपत्सु नारीणां पतिर् अन्यो विधीयते ॥

v12.98

अष्टौ वर्षाण्य् उदीक्षेत ब्राह्मणी प्रोषितं पतिम् ।
अप्रसूता तु चत्वारि परतो ऽन्यं समाश्रयेत् ॥

v12.99

क्षत्रिया षट् समास् तिष्ठेद् अप्रसूता समात्रयम् ।
वैश्या प्रसूता चत्वारि द्वे समे त्व् इतरा वसेत् ॥

v12.100

न शूद्रायाः स्मृतः कालो न च धर्मव्यतिक्रमः ।
विशेषतो ऽप्रसूतायाः संवत्सरपरा स्थितिः ॥

v12.101

अप्रवृत्तौ स्मृतः धर्म एष प्रोषितयोषिताम् ।
जीवति श्रूयमाणे तु स्याद् एष द्विगुणो विधिः ॥

v12.102

प्रजाप्रवृत्तौ भूतानां सृष्टिर् एषा प्रजापतेः ।
अतो ऽन्यगमने स्त्रीणाम् एवं दोषो न विद्यते ॥

v12.103

आनुलोम्येन वर्णानां यज् जन्म स विधिः स्मृतः ।
प्रातिलोम्येन यज् जन्म स ज्ञेयो वर्णसंकरः ॥

v12.104

अनन्तरः स्मृतः पुत्रः पुत्र एकान्तरस् तथा ।
द्व्यन्तरश् चानुलोम्येन तथैव प्रतिलोमतः ॥

v12.105

उग्रः पारशवश् चैव निषादश् चानुलोमतः ।
उत्तमेभ्यस् त्रयस् त्रिभ्यः शूद्रापुत्राः प्रकीर्तिताः ॥

v12.106

ब्राह्मण्या अपि चाण्डाल सूतवैदेहका अपि ।
अपरेभ्यस् त्रयस् त्रिभ्या विज्ञेयः प्रतिलोमतः ॥

v12.107

अम्बष्ठो मागधश् चैव क्षत्ता च क्षत्रियासुताः ।
आनुलोम्येन तत्रैको द्वौ ज्ञेयौ प्रतिलोमतः ॥

v12.108

वैश्यापुत्रास् तु दौष्षन्त यवनायोगवा अपि ।
प्रातिलोम्येन यत्रैको द्वौ ज्ञेयौ चानुलोमजौ ॥

v12.109

सूताद्याः प्रतिलोमास् तु ये जातिप्रतिलोमजाः ।
ते संकराः श्वपाकाद्यास् तेषां त्रिः सप्तको गणः ॥

v12.110

सवर्णो ब्राह्मणीपुत्रः क्षत्रियायाम् अनन्तरः ।
अम्बष्ठोग्रौ तथा पुत्राव् एवं क्षत्रियवैश्ययोः ॥

v12.111

एकान्तरस् तु दौष्षन्तो वैश्यायां ब्राह्मणात् सुतः ।
शूद्रायां क्षत्रियात् तद्वन् निषादो नाम जायते ॥

v12.112

शूद्रा पारशवं सूते ब्राह्मणाद् उत्तरं सुतम् ।
आनुलोम्येन वर्णानां पुत्रा ह्य् एते प्रकीर्तिताः ॥

v12.113

सूतश् च मागधश् चैव पुत्राव् आयोगवस् तथा ।
प्रातिलोम्येन वर्णानां तद्वद् एते ऽप्य् अनन्तराः ॥

v12.114

अनन्तरः स्मृतः सूतो ब्राह्मण्यां क्षत्रियात् सुतः ।
मागधायोगवौ तद्वद् द्वी पुत्रौ वैश्यशूद्रयोः ॥

v12.115

ब्राह्मण्य् एकान्तरं वैश्यात् सूते वैदेहकं सुतम् ।
क्षत्तारं क्षत्रिया शूद्रात् पुत्रम् एकान्तरं तथा ॥

v12.116

द्व्यन्तरः प्रातिलोम्येन पापिष्ठः सति संकरे ।
चाण्डालो जायते शूद्राद् ब्राह्मणी यत्र मुह्यति ॥

v12.117

राज्ञा परीक्ष्यं न यथा जायते वर्णसंकरः ।
तस्माद् राज्ञा विशेषेण त्रयी रक्ष्या तु संकरात् ॥

मूल पाठ: Nāradasmṛti · Edition: Richard W. Lariviere The Nāradasmṛti. Critically edited with an introduction, annotated translation, and appendices Philadelphia Dep. of South Asia Regional Studies University of Pennsylvania studies on South Asia 4-5 · Data entry Yasuke Ikari · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc