भाषा

ENहिગુ
ग्रंथ पाठ

नारदस्मृति · अध्याय v11

v11.1

सेतुकेदारमर्यादा विकृष्टाकृष्टनिश्चयाः ।
क्षेत्राधिकारा यत्र स्युर् विवादः क्षेत्रजस् तु सः ॥

v11.2

क्षेत्रसीमाविरोधेषु सामन्तेभ्यो विनिश्चयः ।
नगरग्रामगणिनो ये च वृद्धतमा नराः ॥

v11.3

ग्रामसीमासु च बहिर् ये स्युस् तत्कृषिजीविनः ।
गोपशाकुनिकव्याधा ये चान्ये वनगोचराः ॥

v11.4

समुन्नयेयुस् ते सीमां लक्षणैर् उपलक्षिताम् ।
तुषाङ्गारकपालैश् च कुम्भैर् आयतनैर् द्रुमैः ॥

v11.5

अभिज्ञातैश् च वल्मीक स्थलनिम्नोन्नतादिभिः ।
केदाराराममार्गैश् च पुराणैः सेतुभिस् तथा ॥

v11.6

निम्नगापहृतोत्सृष्ट नष्टचिह्नासु भूमिषु ।
तत्प्रदेशानुमानाच् च प्रमाणैर् भोगदर्शनैः ॥

v11.7

अथ चेद् अनृतं ब्रूयुः सामन्तास् तद्विनिश्चये ।
सर्वे पृथक् पृथग् दण्ड्या राज्ञा मध्यमसाहसम् ॥

v11.8

गणवृद्धादयस् त्व् अन्ये दण्डं दाप्याः पृथक् पृथक् ।
विनेयाः प्रथमेन स्युः साहसेनानृते स्थिताः ॥

v11.9

नैकः समुन्नयेत् सीमां नरः प्रत्ययवान् अपि ।
गुरुत्वाद् अस्य धर्मस्य क्रियैषा बहुषु स्थिता ॥

v11.10

एकश् चेद् उन्नयेत् सीमां सोपवासः समाहितः ।
रक्तमाल्याम्बरधरः क्षितिम् आरोप्य मूर्धनि ॥

v11.11

यदा च न स्युर् ज्ञातारः सीमाया न च लक्षणम् ।
तदा राजा द्वयोः सीमाम् उद्धरेद् इष्टतः स्वयम् ॥

v11.12

एतेनैव गृहोद्यान निपानायतनादिषु ।
विवादविधिर् आख्यातस् तथा ग्रामान्तरेषु च ॥

v11.13

अवस्करस्थलश्वभ्र भ्रमस्यन्दनिकादिभिः ।
चतुष्पथसुरस्थान रथ्यामार्गान् न रोधयेत् ॥

v11.14

परक्षेत्रस्य मध्ये तु सेतुर् न प्रतिषिध्यते ।
महागुणो ऽल्पबाधश् च वृद्धिर् इष्टा क्षये सति ॥

v11.15

सेतुस् तु द्विदिधो ज्ञेयः खेयो बन्ध्यस् तथैव च ।
तोयप्रवर्तनान् खेयो बन्ध्यः स्यात् तन्निवर्तनात् ॥

v11.16

नान्तरेणोदकं सस्यं नश्येद् अभ्युदकेन तु ।
य एवानुदके दोषः स एवाभ्युदके स्मृतः ॥

v11.17

पूर्वप्रवृत्तम् उत्सन्नम् अपृष्ट्वा स्वामिनं तु यः ।
सेतुं प्रवर्तयेत् कश्चिन् न स तत्फलभाग् भवेत् ॥

v11.18

मृते तु स्वामिनि पुनस् तद्वंश्ये वापि मानवे ।
राजानम् आमन्त्र्य ततः प्रकुर्यात् सेतुकर्म तत् ॥

v11.19

अतो ऽन्यथा क्लेशभाक् स्यान् मृगव्याधानुदर्शनात् ।
इषवस् तस्य नश्यन्ति यो विद्धम् अनुविध्यति ॥

v11.20

अशक्तप्रेतनष्टेषु क्षेत्रिकेष्व् अनिवारितः ।
क्षेत्रं चेद् विकृषेत् कश्चिद् अश्नुवीत स तत्फलम् ॥

v11.21

विकृष्यमाणे क्षेत्रे चेत् क्षेत्रिकः पुनर् आव्रजेत् ।
खिलोपचारं तत् सर्वं दत्त्वा स्वक्षेत्रम् आप्नुयात् ॥

v11.22

तदष्टभागापचयाद् यावत् सप्त गताः समाः ।
संप्राप्ते त्व् अष्टमे वर्षे भुक्तं क्षेत्रं लभेत सः ॥

v11.23

संवत्सरेणार्धखिलं खिलं तद् वत्सरैस् त्रिभिः ।
पञ्चवर्षावसन्नं तु स्यात् क्षेत्रम् अटवीसमम् ॥

v11.24

क्षेत्रं त्रिपुरुषं यत् स्याद् गृहं वा स्यात् क्रमागतम् ।
राजप्रसादाद् अन्यत्र न तद्भोगः परं नयेत् ॥

v11.25

उत्क्रम्य तु वृतिं यत्र सस्यघातो गवादिभिः ।
पालः शास्यो भवेत् तत्र न चेच् छक्त्या निवारयेत् ॥

v11.26

समूलसस्यनाशे तु तत्स्वामी समम् आप्नुयात् ।
वधेन पालो मुच्येत दण्डं स्वामिनि पातयेत् ॥

v11.27

गौः प्रसूता दशाहात् च महोक्षाजाविकुञ्जराः ।
निवार्यास् तु प्रयत्नेन तेषां स्वामी न दण्डभाक् ॥

v11.28

माषं गां दापयेद् दण्डं द्वौ माषौ महिषीं तथा ।
अजाविके सवत्से तु दण्डः स्याद् अर्धमाषकः ॥

v11.29

अदण्ड्या हस्तिनो ऽश्वाश् च प्रजापाला हि ते स्मृताः ।
अदण्ड्या गर्भिणी गौश् च सूतिका चाभिसारिणी ॥

v11.30

प्रोक्तस् तु द्विर् निषण्णानां वसन्त्यां तु चतुर्गुणम् ।
प्रत्यक्षचारकाणां तु चौरदण्डः स्मृटस् तथा ॥

v11.31

या नष्टाः पालदोषेण गावः क्षेत्रं समाश्रिताः ।
न तत्र गोमिनो दण्डः पालस् तं दण्डम् अर्हति ॥

v11.32

राजग्राहगृहीतो वा वज्राशनिहतो ऽपि वा ।
अथ सर्पेण दष्टो वा गिर्य् अग्रात् पतितो ऽपि वा ॥

v11.33

सिंहव्याघ्रहतो वापि व्याधिभिः चैव पातितः ।
न तत्र दोषः पालस्य न च दोषो ऽस्ति गोमिनाम् ॥

v11.34

गोभिस् तु भक्षितं धान्यं यो नरः प्रतिमार्गति ।
सामन्तस्य शदो देयो धान्यं यत् तत्र वापितम् ।
गवत्रं गोमिने देयं धान्यं तत्कर्षिकस्य तु ॥

v11.35

ग्रामोपान्ते च यत् क्षेत्रं विवीतान्ते महापथे ।
अनावृते चेत् तन्नाशे न पालस्य व्यतिक्रमः ॥

v11.36

पथि क्षेत्रे वृतिः कार्या याम् उष्ट्रो नावलोकयेत् ।
न लङ्घयेत् पशुर् नाश्वो न भिद्याद् यां च सूकरः ॥

v11.37

गृहं क्षेत्रं च विज्ञेयं वासहेतुः कुटुम्बिनाम् ।
तस्मात् तन् नाक्षिपेद् राजा तद् धि मूलं कुटुम्बिनाम् ॥

v11.38

वृद्धे जनपदे राज्ञो धर्मः कोशश् च वर्धते ।
हीयते हीयमाने च वृद्धिहेतुम् अतः श्रयेत् ॥

मूल पाठ: Nāradasmṛti · Edition: Richard W. Lariviere The Nāradasmṛti. Critically edited with an introduction, annotated translation, and appendices Philadelphia Dep. of South Asia Regional Studies University of Pennsylvania studies on South Asia 4-5 · Data entry Yasuke Ikari · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc